यं यं वापि स्मरन्भावं...

(८.६ यं यं वापि स्मरन्.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः सम्पादयतु

यं यं वा अपि स्मरन् भावं त्यजति अन्ते कलेवरम् तं तम् एव एति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

अन्वयः सम्पादयतु

कौन्तेय ! अन्ते यं यं वा अपि भावं स्मरन् कलेवरं त्यजति (सः) सदा तद्भावभावितः तं तम् एव एति ।

शब्दार्थः सम्पादयतु

कौन्तेय = कुन्तीपुत्र
यं यं वा अपि = यादृशम्
भावम् = देवताविशेषम्
स्मरन् = चिन्तयन्
अन्ते = अन्तकाले
कलेवरम् = देहम्
त्यजति = मुञ्चति
(सः) सदा = सततम्
तावभावितः = तदनुसन्धान - संस्कृतचित्तः सन्
तं तम् एव = तादृशं देवताविशेषमेव
एति = प्राप्नोति ।

अर्थः सम्पादयतु

कौन्तेय ! जीवः स्वस्य अन्तकाले यादृशं भावं चिन्तयन् शरीरं त्यजति यस्यानुसन्धानं तेन पुनः पुनः कृतम्, सः तस्य भावं प्राप्नोति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु