तस्मात्सर्वेषु कालेषु...
(८.७ तस्मात् सर्वेषु.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
- मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
सम्पादयतुतस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च मय्यर्पितमनोबुद्धि माम् एव एष्यसि असंशयः ॥ ७ ॥
अन्वयः
सम्पादयतुतस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पितमनोबुद्धिः माम् एव एष्यसि । असंशयः ।
शब्दार्थः
सम्पादयतु- तस्मात् = ततः हेतोः
- सर्वेषु = सकलेषु
- कालेषु = समयेषु
- माम् अनुस्मर = मां ध्याय
- युद्ध्य च = युद्धं च कुरु
- मयि = परमात्मनि
- अर्पितमनोबुद्धिः = समर्पितचित्तः
- माम् एव = परमात्मानम् एव
- एष्यसि = प्राप्नोषि
- असंशयः = संशयः नास्ति ।
अर्थः
सम्पादयतुततः सकलेषु समयेषु मां ध्याय युद्धं च कुरु । यदि मय्येव मनः समर्पयसि तर्हि मामेव प्राप्नोषि । अत्र संशयः नास्ति । (सल्पात्मकं मनः, व्यवसायात्मिका बुद्धिः ।)