कविं पुराणमनुशासितारम्...
(८.९ कविं पुराणमनुशां.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
- सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
सम्पादयतुकविं पुराणम् अनुशासितारम् अणोरणीयाम् अनुस्मरेत् यः सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥ ९ ॥
अन्वयः
सम्पादयतुयः कविं पुराणम् अनुशासितारम् अणोः अणीयांसं सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् अनुस्मरेत् ।
शब्दार्थः
सम्पादयतु- कविम् = सर्वज्ञम्
- पुराणम् = पुरातनम्
- अनुशासितारम् = जगन्नियामकम्
- अणोः = सूक्ष्मात् अपि
- अणीयांसम् = सूक्ष्मतरम्
- सर्वस्य = सकलस्य
- धातारम् = पोषकम्
- अचिन्त्यरूपम् = दुर्ज्ञेयरूपम्
- आदित्यवर्णम्= सूर्यसमानवर्णम्
- तमसः = अज्ञानान्धकारात्
- परस्तात् = परतः विद्यमानम्
- यः अनुस्मरेत्= यः ध्यायेत् ....
अर्थः
सम्पादयतुयः सर्वज्ञं पुरातनं जगन्नियन्तारं सूक्ष्मात् सूक्ष्मतरं सकलस्य धातारम् अगम्यस्वरूपं सूर्यसमप्रभम् अज्ञानान्धकारात् परतः विद्यमानं ध्यायति । (सः दिव्यं पुरुषं याति ।)