सततं कीर्तयन्तो मां...
भगवद्गीतायाः श्लोकः ९.१४
(९.१४ सततं कीर्तयन्तो.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
- नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः
सम्पादयतुसततं कीर्तयन्तः मां यतन्तः च दृढव्रताः नमस्यन्तः च मां भक्त्या नित्ययुक्ताः उपासते ॥ १४ ॥
अन्वयः
सम्पादयतुदृढव्रताः सततं कीर्तयन्तः यतन्तः च मां नमस्यन्तः च नित्ययुक्ताः भक्त्या माम् उपासते ।
शब्दार्थः
सम्पादयतु- दृढव्रताः = कठोरनियमाः
- सततम् = सदा
- मां कीर्तयन्तः = मां गायन्तः
- यतन्तः च = पूजादिषु प्रयत्नं कुर्वन्तः
- भक्त्या = प्रीत्या
- नमस्यन्तः च = नमस्कुर्वन्तः च
- नित्ययुक्ताः = सततयोगाः सन्तः
- माम् उपासते = मां भजन्ते ।
अर्थः
सम्पादयतुकेचित् कठोरं नियमम् अनुसरन्तः पुरुषाः मां सर्वदा स्तुवन्तः, पूजादिषु प्रयत्नं कुर्वन्तः, भक्त्या नमस्कुर्वन्तश्च मां सर्वदा समाहितमनस्काः सेवन्ते ।