ज्ञानयज्ञेन चाप्यन्ये...

भगवद्गीतायाः श्लोकः ९.१५
(९.१५ ज्ञानयज्ञेन चापि.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

ज्ञानयज्ञेन च अपि अन्ये यजन्तः माम् उपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥

अन्वयः सम्पादयतु

अन्ये च विश्वतोमुखं मां ज्ञानयज्ञेन एकत्वेन पृथक्त्वेन बहुधा यजन्तः अपि उपासते ।

शब्दार्थः सम्पादयतु

अन्ये च = इतरे तु
विश्वतोमुखं माम् = सर्वतोमुखं माम्
ज्ञानयज्ञेन = तत्त्वज्ञानरूपयज्ञेन
एकत्वेन = एकतया
पृथक्त्वेन = पृथक्तया
बहुधा = बहुप्रकारेण
यजन्तः अपि = आराधयन्तः अपि
उपासते = सेवन्ते ।

अर्थः सम्पादयतु

अन्ये एतत्सर्वं वासुदेव इति ज्ञानरूपेण यज्ञेन मां पूजयन्ति । तत्रापि केचन सर्वत्र वर्तमानं माम् एकमेव परं ब्रह्मेति बुद्ध्या पूजयन्ति, अन्ये तु तादृशस्य ब्रह्मणः दासोऽहमिति भेदबुद्ध्या इति विशेषः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु