तपाम्यहमहं वर्षं...
भगवद्गीतायाः श्लोकः ९.१९
(९.१९ तपाम्यहमहं.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
- अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
सम्पादयतुतपामि अहम् अहं वर्षं निगृह्णामि उत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥
अन्वयः
सम्पादयतुअर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।
शब्दार्थः
सम्पादयतु- अर्जुन = हे अर्जुन !
- अहं तपामि = अहं तापयामि
- वर्षम् = वृष्टिम्
- निगृह्णामि = रुणध्मि
- उत्सृजामि च= त्यजामि अपि
- अमृतं च एव = अमृतम् अपि
- मृत्युः च = मरणं च
- सत् = स्थूलं दृश्यम्
- असत् च = सूक्ष्मं च ।
अर्थः
सम्पादयतुअहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृह्णामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।