अहं हि सर्वयज्ञानां...
भगवद्गीतायाः श्लोकः ९.२४
(९.२४ अहं हि सर्वं.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
- न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्विंशतितमः(२४) श्लोकः ।
पदच्छेदः
सम्पादयतुअहं हि सर्वयज्ञानां भोक्ता च प्रभुः एव च न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥ २४ ॥
अन्वयः
सम्पादयतुअहम् एव हि सर्वयज्ञानां भोक्ता च प्रभुः च । ते मां तत्त्वेन न तु अभिजानन्ति । अतः च्यवन्ति ।
शब्दार्थः
सम्पादयतु- अहम् एव सर्वयज्ञानाम् = अहम् एव सकलक्रतूनाम्
- भोक्ता च = अनुभविता च
- प्रभुः च = स्वामी च
- ते तु तत्त्वेन = ते तु यथावत्
- मां न अभिजानन्ति = मां न सम्यक् विदन्ति
- अतः = तस्मात्
- च्यवन्ति = फलात् भ्रष्टाः भवन्ति ।
अर्थः
सम्पादयतुअहमेव सर्वेषां यज्ञानां भोक्ता फलस्य प्रदाता च । एवं ये न जानन्ति ते कर्मफलं भुक्त्वा तदन्ते च्यवन्ते ।