अश्रद्धधानाः पुरुषा...
भगवद्गीतायाः श्लोकः ९.३
(९.३ अश्रद्धधानाः.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
- अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः
सम्पादयतुअश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
अन्वयः
सम्पादयतुपरन्तप ! अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते ।
शब्दार्थः
सम्पादयतु- परन्तप = शत्रुतापन !
- अस्य = एतस्य
- धर्मस्य = आत्मज्ञानरूपस्य धर्मस्य
- अश्रद्दधानाः = विश्वासरहिताः
- पुरुषाः = मानवाः
- माम् = माम्
- अप्राप्य = अलब्ध्वा
- मृत्युसंसारवर्त्मनि = मरणसहित- संसारमार्गे
- निवर्तन्ते = प्रत्यागच्छन्ति ।
अर्थः
सम्पादयतुयेषाम् अस्मिन् उपासनसहिते आत्मज्ञाने धर्मसम्मते श्रद्धा नास्ति ते मां न प्राप्नुवन्ति, प्रत्युत जरामरणादियुक्तम् इमं संसारमार्गमेव प्रत्यायान्ति ।