श्रेयो हि ज्ञानमभ्यासात्...

(12.12 श्रेयो हि ज्ञानम्…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः सम्पादयतु

श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते ध्यानात् कर्मफलत्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२ ॥

अन्वयः सम्पादयतु

अभ्यासात् हि ज्ञानं श्रेयः, ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः, त्यागात् अनन्तरं शान्तिः ।

शब्दार्थः सम्पादयतु

अभ्यासात् हि = अभ्यासयोगात्
ज्ञानम् = विवेकः
श्रेयः = प्रशस्ततरः
ज्ञानात् =विवेकात्
ध्यानम् = चिन्तनम्
विशिष्यते = अतिशेते
ध्यानात् = चिन्तनात् अपि
कर्मफलत्यागः = कर्मप्रयोजन - परित्यागः
त्यागात् अनन्तरम् = अनुपदम्
शान्तिः = संसारस्य उपशमः ।

अर्थः सम्पादयतु

अभ्यासयोगात् विवेकः प्रशस्ततरः । विवेकात् चिन्तनं विशिष्यते । चिन्तनात् अपि कर्मप्रयोजन - परित्यागः विशिष्यते । त्यागात् बन्धनस्य संसारस्य नाशः भवति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु