यस्मान्नोद्विजते लोको...

(12.15 यस्मान्नोद्विजते…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य) पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

यस्मात् न उद्विजते लोकः लोकान् न उद्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तः यः सः च मे प्रियः ॥

अन्वयः सम्पादयतु

यस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, यः हर्षामर्षभयोद्वेगैः मुक्तः सः च मे प्रियः ।

शब्दार्थः सम्पादयतु

यस्मात् = यस्मात् पुरुषात्
लोकः = जनः
न उद्विजते = उद्वेगं न गच्छति
यः च =यः पुरुषः अपि
लोकात् = भुवनात्
न उद्विजते = उद्वेगं न प्राप्नोति
हर्षामर्षभयोद्वेगैः = सन्तोषासूयात्रासक्षोभैः
मुक्तः = रहितः
सः च = सः पुरुषः
मे प्रियः = मम अभिमतः ।

अर्थः सम्पादयतु

यस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूया - त्रासक्षोभैः रहितः सः पुरुषः मम प्रियः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु