ये तु धर्म्यामृतमिदं...

(12.20 ये तु धर्म्यामृतम्…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः सम्पादयतु

ये तु धर्म्यामृतम् इदं यथा उक्तं पर्युपासते श्रद्दधानाः मत्परमाः भक्ताः ते अतीव मे प्रियाः ॥ २० ॥

अन्वयः सम्पादयतु

ये तु भक्ताः श्रद्दधानाः मत्परमाः यथा उक्तं इदं धर्म्यामृतं पर्युपासते ते मे अतीव प्रियाः ।

शब्दार्थः सम्पादयतु

ये तु = ये पुनः
भक्ताः = भक्तिमन्तः
श्रद्दधानाः = विश्वासयुक्ताः
मत्परमाः = मन्निष्ठाः
यथोक्तम् = यथाप्रतिपादितम्
इदम् = एतत्
धर्म्यामृतम् = सुधासदृशं धर्मयुक्तम्
पर्युपासते = सेवन्ते
ते = ते पुरुषाः
मे = मम
अतीव = अत्यन्तम्
प्रियाः = अभीष्टाः ।

अर्थः सम्पादयतु

ये तु भक्तिमन्तः, विश्वासयुक्ताः, मन्निष्ठाः, यथाप्रतिपादितं धर्मयुक्तं सुधासमानम् इदं च आचरन्ति ते पुरुषाः मम अत्यन्तम् अभीष्टाः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु