मय्यावेश्य मनो ये मां...

(12.2 मय्यावेश्य मनो…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः

श्रीभगवानुवाच -

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः सम्पादयतु

मयि आवेश्य मनः ये मां नित्ययुक्ताः उपासते श्रद्धया परया उपेताः ते मे युक्ततमाः मताः ॥ २ ॥

अन्वयः सम्पादयतु

ये मनः मयि आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः माम् उपासते ते मे युक्ततमाः मताः ।

शब्दार्थः सम्पादयतु

ये = ये जनाः
मनः = चित्तम्
मयि = परमात्मनि
आवेश्य = प्रवेश्य
नित्ययुक्ताः = सततसमाहिताः
परया = प्रकृष्टया
श्रद्धया = आसक्त्या
उपेताः = समन्विताः
माम् उपासते = मां भजन्ते
ते = ते जनाः
मे = मम
युक्ततमाः = योगिश्रेष्ठाः
मताः = सम्मताः ।

अर्थः सम्पादयतु

ये जनाः चित्तं मयि निवेश्य सततसमाहिताः प्रकृष्टया श्रद्धया समन्विताः मां भजन्ते ते जनाः मम योगिश्रेष्ठाः मताः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु