क्लेशोऽधिकतरस्तेषाम्...

(12.5 क्लेशोधिकतरः तेषां…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः सम्पादयतु

क्लेशः अधिकतरः तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिः दुःखं देहवद्भिः अवाप्यते ॥ ५ ॥

अन्वयः सम्पादयतु

अव्यक्तासक्तचेतसां तेषां क्लेशः अधिकतरः । देहवद्भिः हि अव्यक्ता गतिः दुःखम् अवाप्यते ।

शब्दार्थः सम्पादयतु

अव्यक्तासक्तचेतसाम् = अव्यक्तनिविष्टचित्तानाम्
क्लेशः = दुःखम्
अधिकतरः = नितराम् अधिकम्
हि = यस्मात्
देहवद्भिः = शरीरधारिभिः
अव्यक्ता = निर्विशेषम्
गतिः = स्थानम्
दुःखम् = क्लेशेन
अवाप्यते = लभ्यते ।

अर्थः सम्पादयतु

निर्विशेषे ब्रह्मणि येषां मनः प्रवृत्तम् तेषाम् अत्यन्तं क्लेशः सम्भवति । येषां देहे ममता वर्तते तेषाम् इदं निर्विशेषं ब्रह्म सर्वथा न प्राप्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु