तेषामहं समुद्धर्ता...

(12.7 तेषामहं समुद्धर्ता…. इत्यस्मात् पुनर्निर्दिष्टम्)


 
गीतोपदेशः
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः

सम्पादयतु

तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् भवामि नचिरात् पार्थ मयि आवेशितचेतसाम् ॥ ७ ॥

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन योगेन माम् एव ध्यायन्तः उपासते । पार्थ ! अहं नचिरात् मयि आवेशितचेतसां तेषां मृत्युसंसारसागरात् समुद्धर्ता भवामि ।

शब्दार्थः

सम्पादयतु
ये तु = ये जनाः तु
सर्वाणि = सकलानि
कर्माणि = कर्माणि
मयि = वासुदेवे
संन्यस्य = समर्प्य
मत्पराः = मन्मनसः
अनन्येन = अनितरेण
योगेन = समाधिना
मामेव ध्यायन्तः = मां चिन्तयन्तः
उपासते = भजन्ते
पार्थ = अर्जुन !
अहं नचिरात् = अहं शीघ्रम्
मयि = वासुदेवे
आवेशितचेतसाम् = प्रवेशितचित्तानाम्
तेषाम् = जनानाम्
मृत्युसंसारसागरात् = मरणसंसारसमुद्रात्
समुद्धर्ता = उद्धारकः
भवामि = अस्मि ।

पार्थ  ! ये जनाः तु सर्वाणि आचरणानि मयि वासुदेवे समर्प्य मन्मनसः अनन्येन समाधिना एव मां चिन्तयन्तः भजन्ते, मयि प्रवेशितचित्तानां तेषां जनानां मरणादियुक्तात् संसारसमुद्रात् अहं शीघ्रम् उद्धारकः भवामि ।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=तेषामहं_समुद्धर्ता...&oldid=486114" इत्यस्माद् प्रतिप्राप्तम्