मय्येव मन आधत्स्व...

(12.8 मय्येव मन आधं…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः सम्पादयतु

मयि एव मनः आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मयि एव अतः ऊर्ध्वं न संशयः ॥ ८ ॥

अन्वयः सम्पादयतु

मयि एव मनः आधत्स्व । मयि बुद्धिं निवेशय । अतः ऊर्ध्वं मयि एव निवसिष्यसि, न संशयः ।

शब्दार्थः सम्पादयतु

मयि एव = परमात्मनि मयि एव
मनः = चित्तम्
आधस्त्व = आनय
मयि बुद्धिम् = मयि मतिम्
निवेशय = योजय
अतः = ततः
ऊर्ध्वम् = परम्
मय्येव निवसिष्यसि = मय्येव वसिष्यसि
संशयः न = सन्देहः न विद्यते ।

अर्थः सम्पादयतु

परमात्मनि मयि एव चित्तं स्थापय । मयि एव मतिं योजय । ततः परं मयि एव वसिष्यसि । अत्र सन्देहः न वर्तते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मय्येव_मन_आधत्स्व...&oldid=418716" इत्यस्माद् प्रतिप्राप्तम्