अथ चित्तं समाधातुं...
(12.9 अथ चित्तं समाधातुं…. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
- अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
सम्पादयतुअथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन तत: माम् इच्छ आप्तुम् धनञ्जय ॥ ९ ॥
अन्वयः
सम्पादयतुधनञ्जय ! अथ मयि चित्तं स्थिरं समाधातुं न शक्नोषि ततः अभ्यासयोगेन माम् आप्तुम् इच्छ ।
शब्दार्थः
सम्पादयतु- धनञ्जय = अर्जुन !
- अथ = यदि
- चित्तम् = चेतः
- स्थिरम् = निश्चलम्
- समाधातुम् = स्थापयितुम्
- न शक्नोषि = न प्रभवसि
- ततः = तर्हि
- माम् = माम्
- अभ्यासयोगेन = चित्तस्य पुनः पुनः स्थापनेन
- आप्तुम् = लब्धुम्
- इच्छ = अभिलष ।
अर्थः
सम्पादयतुधनञ्जय ! यदि मयि चेतः निश्चलं स्थापयितुं न शक्नोषि तर्हि चित्तस्य पुनः पुनः स्थापनेन मां प्राप्तुं यतस्व ।