इति क्षेत्रं तथा ज्ञानं...
(13.18 इति क्षेत्रं तथा. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तंसमासतः ।
- मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य अष्टादशः(१८) श्लोकः ।
पदच्छेदः
सम्पादयतुइति क्षेत्रं तथा ज्ञानं ज्ञेयं च उक्तं समासतः मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ॥ १८ ॥
अन्वयः
सम्पादयतुइति क्षेत्रं तथा ज्ञानं ज्ञेयं च समासतः उक्तम् । मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ।
शब्दार्थः
सम्पादयतु- ज्ञेयम् = ज्ञातव्यम्
- समासतः = सङ्ग्रहेण
- मद्भक्तः = मम भक्तः
- विज्ञाय = ज्ञात्वा
- मद्भावाय = मत्स्वरूपाय
- उपपद्यते = कल्पते ।
अर्थः
सम्पादयतुएवं क्षेत्रं ज्ञानं ज्ञेयं चेति त्रयमपि सङ्ग्रहेण प्रतिपादितम् । परमात्मभक्तः इदं ज्ञात्वा मद्रूपत्वं प्राप्नोति । व्याकरणम् - मम भावः मद्भावः, तस्मै - षष्ठीतत्पुरुषः ।