प्रकृतिं पुरुषं चैव...

(13.19 प्रकृतिं पुरुषं चैव. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य नवदशः(९१) श्लोकः ।

पदच्छेदः सम्पादयतु

प्रकृतिं पुरुषं च एव विद्धि अनादी उभौ अपि विकारान् च गुणान् च एव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

अन्वयः सम्पादयतु

प्रकृतिं पुरुषं च एव उभौ अपि अनादी विद्धि । विकारान् गुणान् च एव प्रकृतिसम्भवान् विद्धि ।

शब्दार्थः सम्पादयतु

प्रकृतिम् = अव्यक्तम्
पुरुषं = जीवम्
अनादी = आदिरहितौ
विद्धि = जानीहि
विकारान् = देहेन्द्रियादीन्
गुणान् = सुखदुःखादीन्
प्रकृतिसम्भवान् = प्रकृतिजनितान् ।

अर्थः सम्पादयतु

देहेन्द्रियादयः प्रकृतेः जन्याः विकाराः, सुखदुःखादयश्च सत्त्वादिगुणानां परिणामाः इति जानीहि ।


सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=प्रकृतिं_पुरुषं_चैव...&oldid=418669" इत्यस्माद् प्रतिप्राप्तम्