कार्यकरणकर्तृत्वे...
(13.20 कार्यकरणकर्तुत्वे . इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
- पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
सम्पादयतुकार्यकरणकर्तृत्वे हेतुः प्रकृतिः उच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ॥ २० ॥
अन्वयः
सम्पादयतुकार्यकरणकर्तृत्वे प्रकृतिः हेतुः उच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ।
शब्दार्थः
सम्पादयतु- कार्यकारणकर्तृत्वे = देहेन्द्रियकर्तृत्वे
- प्रकृतिः = प्रधानम्
- हेतुः = कारणम्
- पुरुषः = जीवः
- सुखदुःखानाम् = सुखादिगुणानाम्
- भोक्तृत्वे = अनुभवे ।
अर्थः
सम्पादयतुइयं प्रकृतिः कार्यरूपस्य शरीरस्य कारणभूतस्य च इन्द्रियस्य तदाकारेण परिणामे हेतुः भवति । यद्यपि प्रकृतिः जडा इति हेतोः तस्यां हेतुत्वं न सम्भवति जडस्य क्रियाजनकत्वाभावात् तथापि पुरुषस्य सन्निधानात् जडेऽपि पदार्थे क्रियाजनकत्वं सम्भवतीति नास्ति असतिः । पुरुषः प्रकृतिजन्यानां सुखदुःखादीनां गुणानां भोक्तृत्वे हेतुः । यद्यपि अयम् असः निर्लेपश्च तथापि प्रकृतिसन्निधानात् इदं भोक्तृत्वं सम्भवतीति बोद्धव्यम् ।