क्षेत्रज्ञं चापि मां विद्धि...
(13.2 क्षेत्रज्ञं चापि मां. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
- क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वितीयः (२) श्लोकः ।
पदच्छेदः
सम्पादयतुक्षेत्रज्ञं च अपि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोः ज्ञानं यत् तत् ज्ञानं मतं मम ॥ २ ॥
अन्वयः
सम्पादयतुभारत ! सर्वक्षेत्रेषु क्षेत्रज्ञं च अपि मां विद्धि यत् क्षेत्रक्षेत्रज्ञयोः ज्ञानं तत् ज्ञानम् (इति) मम मतम् ।
शब्दार्थः
सम्पादयतु- सर्वक्षेत्रेषु = सकलशरीरेषु
- क्षेत्रज्ञम् = क्षेत्रविदम्
- विद्धि = जानीहि
- क्षेत्रक्षेत्रज्ञयोः = शरीरतद्विदोः
- ज्ञानम् = बोधः
- ज्ञानम् = साधुः बोधः इति
- मम मतम् = मम अभिमतम् ।
अर्थः
सम्पादयतुभारत ! सकलशरीरेषु क्षेत्रविदम् अपि मां जानीहि । शरीरतद्विदोः बोधः एव बोधः इति मम अभिमतम् ।