सर्वद्वारेषु देहेऽस्मिन्...
(14.11 सर्वद्वारेषु देहे….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
- ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
सम्पादयतुसर्वद्वारेषु देहे अस्मिन् प्रकाशः उपजायते ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वम् इति उत ॥ ११ ॥
अन्वयः
सम्पादयतुअस्मिन् देहे सर्वद्वारेषु यदा ज्ञानं प्रकाशः उपजायते तदा सत्त्वं विवृद्धम् उत इति विद्यात् ।
शब्दार्थः
सम्पादयतु- सर्वद्वारेषु = सकलेन्द्रियेषु
- ज्ञानम् = ज्ञानरूपम्
- प्रकाशः = ज्योतिः
- उपजायते = उद्भवति
- विवृद्धम् = प्रवृद्धम्
- विद्यात् = जानीयात् ।
अर्थः
सम्पादयतुपुरुषस्य यदा श्रोत्रचक्षुःप्रभृतिभिः इन्द्रियैः पदार्थस्य यदा यथावत् ज्ञानं भवति तदा तस्मिन् सत्त्वगुणः वृद्धिं गतः इति ज्ञातव्यम् ।