यदा सत्त्वे प्रवृद्धे तु...
(14.14 यदा सत्वे प्रवृद्धे….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
- तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः
सम्पादयतुयदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदा उत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥ १४ ॥
अन्वयः
सम्पादयतुसत्त्वे प्रवृद्धे तु यदा देहभृत् प्रलयं याति तदा उत्तमविदाम् अमलान् लोकान् प्रतिपद्यते ।
शब्दार्थः
सम्पादयतु- देहभृत् = शरीरधारी
- सत्त्वे = सत्त्वगुणे
- प्रवृद्धे = विवृद्धे
- प्रलयम् = मरणम्
- याति = प्राप्नोति
- उत्तमविदाम् = तत्त्वज्ञानिनाम्
- अमलान् = शुद्धान्
- लोकान् = प्रदेशान्
- प्रतिपद्यते = अधिगच्छति ।
अर्थः
सम्पादयतुसत्त्वगुणे प्रवृद्धे म्रियमाणः पुरुषः निर्मलान् तत्त्वज्ञानिनां लोकान् प्राप्नोति ।