रजसि प्रलयं गत्वा...

(14.15 रजसि प्रलयं गत्वा….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा प्रलीनः तमसि मूढयोनिषु जायते ॥ १५ ॥

अन्वयः सम्पादयतु

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा तमसि प्रलीनः मूढयोनिषु जायते ।

शब्दार्थः सम्पादयतु

रजसि = रजोगुणे
प्रलयम् = मृत्युम्
कर्मसङ्गिषु = कर्मासक्तेषु
जायते = उद्भवति
तमसि = तमोगुणे
प्रलीनः = मृतः
मूढयोनिषु = निकृष्टयोनिषु ।

अर्थः सम्पादयतु

रजोगुणे प्रवृद्धे म्रियमाणः पुरुषः कर्मासक्तेषु मनुष्येषु जायते । तमोगुणे प्रवृद्धे म्रियमाणः तु विवेकरहितेषु पशुप्रभृतिषु जन्म प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रजसि_प्रलयं_गत्वा...&oldid=418800" इत्यस्माद् प्रतिप्राप्तम्