नान्यं गुणेभ्यः कर्तारं...

(14.19 नान्यं गुणेभ्यः….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः सम्पादयतु

न अन्यं गुणेभ्यः कर्तारं यदा द्रष्टा अनुपश्यति गुणेभ्यः च परं वेत्ति मद्भावं सः अधिगच्छति ॥ १९ ॥

अन्वयः सम्पादयतु

द्रष्टा यदा गुणेभ्यः अन्यं कर्तारं न अनुपश्यति (आत्मानम्) गुणेभ्यः च परं वेत्ति सः मद्भाम् अधिगच्छति ।

शब्दार्थः सम्पादयतु

द्रष्टा = समीक्षकः विद्वान्
गुणेभ्यः = सत्त्वादिभ्यः
अन्यम् = इतरम्
अनुपश्यति = अवलोकते
परम् = व्यतिरिक्तम्
वेत्ति = जानाति
मद्भावम् = मत्स्वरूपम्
अधिगच्छति = लभते ।

अर्थः सम्पादयतु

अत्र यावन्ति कर्माणि भवन्ति तानि सर्वाणि गुणाः एव कुर्वन्ति, न तु आत्मा । स च गुणेभ्यो व्यतिरिक्तः केवलं कर्मणां साक्षिभूतः इति पुरुषः यदा जानाति तदा मोक्षं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु