गुणानेतानतीत्य त्रीन्...

(14.20 गुणानेतानतीत्य ….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः सम्पादयतु

गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् जन्ममृत्युजरादुःखैः विमुक्तः अमृतम् अश्नुते ॥ २० ॥

अन्वयः सम्पादयतु

देही देहसमुद्भवान् एतान् त्रीन् गुणान् अतीत्य जन्ममृत्युजरादुःखैः विमुक्तः अमृतम् अश्नुते ।

शब्दार्थः सम्पादयतु

देही = आत्मा
देहसमुद्भवान् = शरीरकारणभूतान्
अतीत्य = अतिक्रम्य
जन्ममृत्युजरादुःखैः = जननमरणजराक्लेशैः
विमुक्तः = त्यक्तः
अमृतम् = मोक्षम्
अश्नुते = अनुभवति ।

अर्थः सम्पादयतु

सत्त्वादयः त्रयो गुणाः बुद्धौ वर्तमानाः देहस्य प्राप्तौ कारणीभूताः । तादृशान् एतान् गुणान् यः अतिवर्तते सः जन्ममृत्युजरायुक्तात् संसारात् मुक्तिं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु