सत्त्वं रजस्तम इति...

(14.5 सत्वं रजस्तम इति….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः सम्पादयतु

सत्त्वं रजः तम इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥ ५ ॥

अन्वयः सम्पादयतु

महाबाहो ! सत्त्वं रजः तमः इति प्रकृतिसम्भवाः गुणाः । देहे अव्ययं देहिनं निबध्नन्ति ।

शब्दार्थः सम्पादयतु

प्रकृतिसम्भवाः = मायास्वरूपभूताः अपि जन्याः इव स्थिताः
अव्ययम् = अक्षयम्
देहिनम् = आत्मानम्
निबध्नन्ति = बध्नन्ति ।

अर्थः सम्पादयतु

अर्जुन ! सत्त्वं रजः तमः इति प्रकृतेः स्वरूपभूताः गुणाः । ते च प्रकृतितः जाताः इव भासमानाः शरीरे आत्मानं बध्नन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सत्त्वं_रजस्तम_इति...&oldid=418846" इत्यस्माद् प्रतिप्राप्तम्