कोल्हापुरमण्डलम्
कोल्हापुरमण्डलं (मराठी: कोल्हापुर जिल्हा, आङ्ग्ल: Kolhapur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोल्हापुर इत्येतन्नगरम् । कोल्हापुरनगरस्य रचना छत्रपतिना शाहु-महाराजेन कृता । नैसर्गिकस्रोतोभिः एषा भूमिः प्रफुल्लिता । इदानीं सहकारिक्षेत्रप्रगतिवशात् अपि कोल्हपुरमण्डलं सुप्रसिद्धम् । सांस्कृतिकपरम्परायाः द्योतकम् अस्ति कोल्हापुरमण्डलम् ।
कोल्हापुरमण्डलम् Kolhapur District कोल्हापुर जिल्हा | |
---|---|
मण्डलम् | |
'महाराष्ट्रराज्ये कोल्हापुरमण्डलम् | |
देशः | India |
जिल्हा | कोल्हापुरमण्डलम् |
उपमण्डलानि | आजरा, करवीर, कागल, गगनबावडा, गडहिङ्ग्लज, चन्दगड, पन्हाळा, भुदरगड, राधानगरी, शाहूवाडी, शिरोळ, हातकणङ्गले। |
विस्तारः | ७,६८५ च.कि.मी. |
जनसङ्ख्या(२०११) | ३८,७६,००१ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://kolhapur.gov.in |
भौगोलिकम्
सम्पादयतुकोल्हापुरमण्डलस्य विस्तारः ७,६८५ च.कि.मी. अस्ति । अस्य मण्डलस्य पश्चिमदिशि सिन्धुदुर्गमण्डलं, वायव्यदिशि रत्नगिरिमण्डलम्, उत्तरदिशि साङ्गलीमण्डलं, दक्षिणदिशि बेळगावमण्डलं च अस्ति । अस्मिन् मण्डले सप्त प्रमुखनद्यः प्रवहन्ति । ताः पञ्चगङ्गा, वारणा, दूधगङ्गा, वेदगङ्गा, भोगावती, हिरण्यकेशी, घटप्रभा ।
कोल्हापुरमण्डलस्य त्रयः विभागाः सन्ति - पश्चिमराङ्ग, मध्यराङ्ग, पूर्वराङ्ग । मध्य-पूर्वविभागयोः कृष्णवर्णीयसिकता दृश्यते । पश्चिमभागे ताम्रवर्णीयसिकता अस्ति । तत्र अरण्यपरिसरः दृश्यते ।
अस्मिन्मण्डले सामान्यतः समशीतोष्णवातावरणं दृश्यते । सह्याद्रीपर्वतसमीपे यः भूभागः सः शीतः । मण्डले वातावरणविविधता दृश्यते एव ।
कृषिः
सम्पादयतुसहकारिकृष्योत्पादनाय इदं मण्डलम् अग्रगण्यम् । मण्डलेस्मिन् प्रमुखोपजीविकारूपेण कृषिः, उद्यमाः च सन्ति । तण्डुलः, 'जवार', 'बाजरा', रागिका, 'तुअर दाल', चणकं, कलायः, करटः(safflower), तिलः च अस्य मण्डलस्य सस्योत्पादनानि सन्ति ।
जनसङ्ख्या
सम्पादयतुकोल्हापुरमण्डलस्य जनसङ्ख्या (२०११) ३८,७६,००१ अस्ति । अत्र १९,८०,६५८ पुरुषाः, १८,९५,३४३ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ५०४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ५०४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ८१.५१% अस्ति ।
इतिहासः
सम्पादयतुकोल्हापुरमण्डलस्य विस्तारः ब्रह्मपुरी इत्यस्मात् मूलग्रामात् अभवत् । कोल्हापुरमण्डले आन्ध्रभृत्य-कदम्ब-चालुक्य-राष्ट्रकूट-शिलाहार-देवगिरियादव-बहामनी-वंशीयराजानाम् आधिपत्यमासीत् । १६७५ तमे वर्षे कोल्हापुरपरिसरः शिवाजीमहाराजेन मराठीसाम्राज्ये आनीतः । ततः कोल्हापुरसंस्थानस्य आधिपत्यस्य इतिहासः प्रारभ्यते । शिवाजीमहाराज्ञः पुत्रेण सम्भाजीराज्ञा कोल्हापुरमण्डलस्थात् पन्हाळा-दुर्गात् राज्यव्यवस्थापनं कृतम् । क्रमशः शिवाजीमहाराजस्य द्वितीयपुत्रः राजारामः, तस्य पत्नी ताराबाई, सम्भाजीराज्ञः पुत्रः राजर्षि-शाहू इत्येषाम् अत्र आधिपत्यमासीत् । राजर्षि-शाहू ‘कोल्हापुरसंस्थानस्य कर्ता’ इति सुप्रसिद्धः । १८१८ पर्यन्तं महाराष्ट्रे आङ्ग्लाधिपत्यमासीत् परं कोल्हापुरसंस्थानं तु स्वतन्त्रम् आसीत् । १९४७ तमे वर्षे कोल्हापुरसंस्थानं स्वतन्त्रभारते विलीनं जातम् ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-
१ आजरा
२ करवीर
३ कागल
४ गगनबावडा
५ गडहिङ्ग्लज
६ चन्दगड
७ पन्हाळा
८ भुदरगड
९ राधानगरी
१० शाहूवाडी
११ शिरोळ
१२ हातकणङ्गले
लोकजीवनम्
सम्पादयतुमहाराष्ट्रराज्ये या लोकसंस्कृतिः दृश्यते सा अत्रापि दृश्यते, परं केचन विशेषाः अपि सन्ति । यथा -
• खाद्यवस्तूनि – ‘भाकरी-झुणका’ अत्रस्थानां प्रियखाद्यम् । झुणका इत्युक्ते मरीचिका-लशुनेन सह कृतं कटु-उपसेचनम् । ‘कोल्हापुरी मिसळ’ इत्येषः खाद्यपदार्थः न केवलं कोल्हापुरे अपि तु समग्रे महाराष्ट्रे सुप्रसिद्धः ।
• वेशभूषा – औद्योगिकीकरण-जागतिकीकरणपरिणामैः सर्वत्र इदानीं समानमेव वेषभूषा दृश्यते परं केचन विशेषाः - वृद्धपुरुषाः वेष्टिं, वृद्धमहिलाः नवगजशाटिकां च धरन्ति । इदानीं केवलम् उत्सवदिनेषु सर्वाः महिलाः नवगजशाटिकां धरन्ति ।
• मल्लविद्या अत्रस्थानां जनानां प्रियक्रीडा । तदर्थम् अत्र एकं 'खासबाग' नामकं विशालमल्लक्रीडाप्राङ्गणमपि अस्ति । अत्रस्थाः केचन राजानः अपि मल्लाः आसन्, अतः जनानामपि लोकप्रियविषयः एषः ।
• अत्र ‘कोल्हापुरी चप्पल’ इति पादरक्षाप्रकारः उपलभ्यते यः समग्रे भारते प्रसिद्धः । कर्मकराः चर्मोपयोगं कृत्वा हस्तैः एव पादरक्षाणां निर्माणं कुर्वन्ति इति विशेषः ।
• 'कोल्हापुरी साज’ आभूषणविशेषः अपि महाराष्ट्रियजनेषु सुप्रसिद्धः । भगवतः श्रीकृष्णस्य १२ अवताराः आभूषणस्योपरि तक्षीकृताः सन्ति । कर्मकराः हस्तैः आभूषणनिर्माणं-तक्षणं च कुर्वन्ति इति विशेषः ।
सहकारिक्षेत्रम्
सम्पादयतुइदं मण्डलं सहकारिक्षेत्रकार्यार्थं सुप्रसिद्धम् । अस्मिन् सहकारिक्षेत्रे केचन उद्यमाः सन्ति । यथा -
१ शर्करोत्पादनोद्यमः
२ दुग्धोत्पादकसङ्घः
३ सहकारिविपणिः
४ सहकारिवस्त्रोद्यमः
५ सहकारिकृषिः
सहकारिक्षेत्र-स्थापनार्थं यत्नाः स्वातन्त्र्यपूर्वकालात् आरब्धाः परं तेषां परिणामः स्वातन्त्र्योत्तरकाले अभवन् । कृषिक्षेत्रे सहकारिक्षेत्रस्य अधिकोपयोगाः दृश्यन्ते । भारतदेशे कृषिक्षेत्रे खण्डितभूक्षेत्रम् इति एका अन्यतमा समस्या । कोल्हापुरमण्डलस्य सहकारिक्षेत्रम् इत्ययम् उपायः अस्याः समस्यायाः एकं समाधानम् ।
मण्डलेऽस्मिन् ९६२४ सहकारिसमितयः सन्ति ।
वीक्षणीयस्थलानि
सम्पादयतुअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -
मन्दिराणि
सम्पादयतु- महालक्ष्मीमन्दिरम्- १७२२ तमे वर्षे महालक्ष्मीमातुः प्रतिमायाः स्थापना जाता । महालक्ष्मीः शाहूमहाराजस्य पूज्यदेवता आसीत् । जनाः मातुः दर्शनार्थम् आगच्छन्ति । मन्दिरसमित्या समाजोन्नत्यर्थं बहूनि कार्याणि अत्र चाल्यन्ते । अतः जनानां मनसि एतन्मन्दिरं श्रद्धास्थानम् ।
- ज्योतिबा देवालयः
- नरसिंह वाडी
ऐतिहासिकवीक्षणीयस्थलानि
सम्पादयतु- पन्हाळा दुर्गः - 'पर्णल दुर्गः' इति अस्य दुर्गस्य अपरनाम । ‘बाजी प्रभु देशपाण्डे’ इत्यस्य पराक्रमस्य प्रसङ्गः अत्रैव घटितः । राजप्रासादः, सज्जाकोठी, राजदिण्डीमार्गः, अम्बरखाना, चारदरवाजानामकं प्रमुखप्रवेशद्वारं, सोमाळेतडागः, सम्भाजीमन्दिरम्, अन्दरबाव, लक्ष्मीमन्दिरं, तीन
दरवाजा इत्येतानि वीक्षणीयस्थानानि पन्हाळादुर्गे सन्ति ।
- छत्रपतिशहाजी वस्तुसङ्ग्रहालयः
- शालिनी राजप्रासादः
- विशाळगड दुर्गः
इतरवीक्षणीयस्थलानि
सम्पादयतु- रङ्काळातडागः
- भवानी मण्डपः
- न्यू पैलेस (राजप्रासादः)
- गगनबावडा हरितवनं, जलपातश्च
- पञ्चगङ्गा घाट
- दाजीपुर अभयारण्यम्
- कण्हेरी मठ