माधुर्यम्
(Madhuryam इत्यस्मात् पुनर्निर्दिष्टम्)
वाक्ये पृथक्पदता माधुर्यम् (Madhuryam) उच्यते । दीर्घसमासविरहितानां सरसानां पदानां रचना यत्र वर्तते तत्र माधुर्यं भवति । सरसपदत्वं माधुर्यमिति दण्डी व्याचख्यौ । यथा –
- यशश्श्रियः काकतिभूपतेर्दिशां
- नितम्बबिम्बेषु दुकूलरीतयः ।
- उरोजयो मौक्तिकहारविभ्रमा
- श्शिरस्सु जातीकुसुमस्रगुज्ज्वलाः ॥