मरीचकषायम्
(Maricha Kashayam इत्यस्मात् पुनर्निर्दिष्टम्)
मरीचेन निर्मितं कषायम् एव मरीचकषायम् । मरीचम् आङ्ग्लभाषायां Pepper इति वदन्ति ।
अस्य मरीचकषायस्य प्रयोजनानि
सम्पादयतु- १ एतत् मरीचकषायम् आरोग्यार्थं बहु उत्तमम् ।
- २ मरीचकषायस्य पानेन पीनसः, कासः, कण्ठवेदना, शरीरवेदना, शिरोवेदना, कफः इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
- ३ वृष्टिकालस्य शैत्यकालस्य च आरम्भे एव सामान्यानां रोगाणां निवारणार्थम् अपि एतत् मरीचकषायं पातुं शक्यते ।
- ४ मरीचकषायं प्रतिदिनम् अपि पानीयत्वेन अपि पातुं शक्यते ।
- ५ मरीचकषायस्य पानेन शरीरस्य औष्ण्यम् अपि न्यूनं भवति ।
- ६ उष्णतायाः आधिक्येन जातानां रोगाणां निमित्तम् अपि मरीचकषायम् उत्तमम् औषधम् ।
अस्य मरीचकषायस्य निर्माणम्
सम्पादयतुमरीचं सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र जीरिकाचूर्णं, शुण्ठीं, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।