Z8 GND 5296-आकाशगङ्गा
z8 GND 5296 इति नामिका आकाशगङ्गा २०१३ तमे संवत्सरे आविष्कृता जाता । एषा एव दूरतमा तथा प्राचीनतमा प्रथमा आकाशगङ्गा यस्याः दूरं (पृथ्वीतः) वर्णवीक्षणयन्त्रेण (spectroscopy यन्त्रेण) सुनिर्धारितम् [२]। ७०कोटि आलोकवर्षदूरे स्थिता आकाशगङ्गा अस्ति z8 GND 5296 । एषा आकाशगङ्गा पर्यवेक्षणावधौ विद्यते इदानीम् । अस्याम् महता प्रमाणेन नक्षत्राणि विद्यन्ते । अस्याः समग्राकाशगङ्गायाः भारः सूर्यस्य भारस्य ३००गुणितं विद्यते[१][३]।
z8_GND_5296-आकाशगङ्गा | |
---|---|
पर्यलक्षितथ्यानि | |
रेड् सिफ़्ट् | ७.५१[१] |
दूरत्वम् | १३.१ बिलियन् प्रकाशवर्षम् |
भरः | स्क्रिप्ट त्रुटि: "val" ऐसा कोई मॉड्यूल नहीं है।×10९ भ☉ |
पृथ्वीतः आपेक्षिक-उज्ज्वल्यता (वि) | २५.६ (१६०W)[१] |
प्रासङ्गिकविषयाः : आकाशगङ्गा |
आविष्कारः
सम्पादयतु२०१३ तमवर्षस्य अक्टोबरमासस्य २४ तमे दिनाङ्के नेचर्(Nature) इति शोधपत्रिकायां प्रथमवारम् अस्याः आकाशगङ्गायाः विषये लेखः प्रकाशितः । एषा 'नेचर्'शोधपत्रिका केलिफोर्निया विश्वविद्यालयस्य ज्योतिर्विज्ञानीनां नेतृत्वाधीने प्रकाशिता भवति । अस्याः पत्रिकायाः सम्पादकत्वेन 'बह्राम् मोबशेर्' तथा 'नवीन रेड्डी' महोदयौ स्तः । पत्रिकायाः सहयोगिसंस्थाः सन्ति - टेक्सास् विश्वविद्यालयः, टेक्सास् ए & एम् विश्वविद्यालयः एवं राष्ट्रिय-ज्योतिर्वीक्षणकेन्द्रञ्च (National Optical Astronomy Observatories) । आदौ आकाशगङ्गायाः अस्याः चित्रं 'हब्बल्' महाकाशवीक्षणयन्त्रेण (Hubble Space Telescope) लब्धम् । अनन्तरं तेषां शोधकार्यं सुनिश्चितं कृतं डब्ल्यु.एम्. केक् वीक्षणकेन्द्रेण (हावै, Hawai'i) [४]।
Z8-GND-5296 आकाशगङ्गायाः वैलक्षण्यम्
सम्पादयतु- वैज्ञानिकानां मतानुसारम् अस्याः आकाशगङ्गायाः वर्णप्रकीर्णनम् अर्थात् लाल अरुणविचलनं (रेड शिफ्ट) ७.५१ अस्ति । यत् पूर्वं ७.२१ आसीत् ।
- अस्याः उत्पत्तिः अन्याकाशगङ्गासदृशी धुलिकाधुम्रयोः सम्मिश्रणेन जाता ।
- एषा अस्माकम् आकाशगङ्गायाः अपेक्षया बहुदूरे विद्यते इत्येतावदेव न अपि च बहुनक्षत्राणां निर्माणं विनाशञ्च कुर्वती विद्यते ।
- अस्याः आकाशगङ्गायाः आविष्कारानन्तरं वैज्ञानिकाः आकाशगङ्गाणां भौतिकस्वरूपस्य, उत्पत्तेः, तासां केन्द्रविकासस्य अध्ययने च व्यापकोन्नतिं प्राप्नुवन्तः सन्ति ।
टिप्पणी
सम्पादयतु- ↑ १.० १.१ १.२ Finkelstein, S. L.; C. Papovich, M. Dickinson, M. Song, V. Tilvi, A. M. Koekemoer, K. D. Finkelstein, B. Mobasher, H. C. Ferguson, M. Giavalisco, N. Reddy, M. L. N. Ashby, A. Dekel, G. G. Fazio, A. Fontana, N. A. Grogin, J.-S. Huang, D. Kocevski, M. Rafelski, B. J. Weiner, S. P. Willner (Oct 24, 2013). "A galaxy rapidly forming stars 700 million years after the Big Bang at redshift 7.51". Nature. 7472 502 (7472): 524. ISSN 0028-0836. arXiv:1310.6031. doi:10.1038/nature12657.
- ↑ Johnson, Rebecca. "Texas Astronomer Discovers Most Distant Known Galaxy". University of Texas at Austin. Archived from the original on 26 December 2018. आह्रियत 25 October 2013.
- ↑ Morelle, Rebecca (24 October 2013). "New galaxy 'most distant' yet discovered". BBC. Archived from the original on 26 December 2018. आह्रियत 24 October 2013.
- ↑ "Astronomers discover the most distant known galaxy: Galaxy seen as it was just 700 million years after Big Bang". ScienceDaily. October 23, 2013. आह्रियत October 24, 2013.