अथ चतुर्षु ऋणेषु मनुष्यऋणं तथा पञ्चमहायज्ञेषु मनुष्ययज्ञः इति सङ्कल्पनाद्वयेन अतिथिसत्कारः निर्दिश्यते । भारतीयजीवनरचनायाम् आतिथ्यधर्मस्य वैशिष्ट्यपूर्णं गरिमायुतं च स्थानं वर्तते । अतः तन्मर्मग्रहणार्थं विषयोऽयं सविशेषं पर्यालोचनम् अर्हति ।

इतिहासः सम्पादयतु

वेदकालात् आधुनिककाव्यनाटकादिसंस्कृतसाहित्यपर्यन्तं समग्रग्रन्थेषु एकमेव समानं किमपि संस्कृतिनिदर्शकं सूत्रम् अनुस्यूतं वर्तते इति यदि वयं दर्शयितुं पारयामः तर्हि अस्माकम् इयं संस्कृतिः धारावाहिकरूपेण अखण्डम् अविच्छिन्नम् आ प्राचीनकालात् अद्ययावत् प्रवहति इति सुप्रतिष्ठितं भवेत् । तादृशं सूत्रम् आतिथ्यधर्मरूपेण अवतिष्ठते इति विगतसन्देहधिया वक्तुं शक्यते । आतिथ्यधर्मस्य माहात्म्यम् ऋग्वेदपूर्वकालेऽपि सुप्रतिष्ठितम् आसीत् इति दृष्टिपथमायाति । पश्चात् समस्तवैदिकसाहित्येऽपि तस्य महिमा अप्रतिहतम् अक्षुण्णो गोचरीभवति । कल्पसूत्रेषु एवं स्मृतिषु वैदिकवाङ्मयात् मार्गदर्शनं प्राप्य शास्त्रकारैः विस्तृतविधिनिषेधान् निर्माय आतिथ्यस्य नीतिः रीतिश्च सामग्र्येण निर्धारिते इति नयनसरणिम् आपतति । तदनन्तरं दृष्टान्ताख्यानपरिप्लुतेषु रामायण-महाभारतपुराणादिषु तथा काव्यनाटकादिसंस्कृतसाहित्य ग्रन्थेषु अतिथिसत्कारस्य प्रत्यक्षव्यवहारः कीदृशः आसीत् इति लोचनगोचरो भवति ।

 
अतिथिसत्कारः

उद्देश्यम् सम्पादयतु

यदा छात्रः विद्याध्ययनं विधिवत् समाप्य स्वगृहं प्रतिनिवर्तितुम् उद्यतो भवति तदा भाविजीवनम् उद्दिश्य यः कर्तव्योपदेशः तस्मै दीयते तत्र जन्मदातुमातृपित्रोः तथा विद्यादातुः आचार्यस्य पूजनानन्तरं समष्टेः प्रतिनिधिरुपेण 'अतिथिदेवो भव' इति अतिथेः पूजनम् उपदिश्यते । अत सातत्यगमने (भ्वा. प.) ऋतन्यञ्जि (उ ४-२) इति इथिन् प्रत्ययः इत्येवंरीत्या अतिथिशब्दः व्युत्पन्नो भवति । धर्मसंकल्पना भारतीयानां प्राणभूतं जीवननियामकं तत्त्वम् इति तु विश्रुतमेव । अथ धर्मतत्त्वस्य क्रियान्वयनार्थं ग्रामात् ग्रामं गत्वा जनसाधारणेषु सञ्चारं कृत्वा धर्मोपदेशपुरः सरं ते प्रबोधयितव्याः इत्यनेन हेतुना स्वीकृतभ्रमणव्रतः एव अतिथिः इति तदानीन्तनाः मन्यन्ते स्म इति प्रतीयते । 'अध्वनीनोऽतिथिर्ज्ञेयः’ इति स्मृतिवचनात्, तथा एकरात्रिमात्र-निवासस्य निर्देशात् एतादृशः भ्रमणपरः जनसेवातत्परः एव अतिथिः इति सुपुष्टं तिष्ठति । एतादृशः अतिथिः समष्टेः याथार्थ्येन प्रतिनिधिः भवितुम् अर्हति इत्यत्र न संशीतिः ।


सत्कारपद्धतयः सम्पादयतु

एतादृशस्य अतिथेः सत्कारार्थं नानाविधाः उपचाराः धर्मसूत्रस्मृत्यादिग्रन्थेषु विहिताः दृश्यन्ते । तत्र सम्मानप्रदर्शनार्थं प्रत्युथान-अभिवादनादयः श्रमापनोदनार्थम् आसन- पादप्रक्षालन-भोजन- शयानादयः, तथा पुनः आदर प्रदर्शनार्थम् उपासनम्, अनुव्रजनम् इत्यादयः उपचाराः उपदिष्टाः । तथा अश्वादिचालितानि रथादिवाहनानि तथा सर्वसुखसाधनोपेतानि पान्थसदनानि अकिंचनस्य धर्मप्रचारकस्य कृते उपयुक्तानि नासन् । तथैव तादृशस्य अतिथेः पादचारिणः कृते खाद्यपदार्थानां शय्याद्रव्याणां वा स्कन्धेन वहनमपि न सुखकरम् आसीत् इति स्पष्टमेव । सर्वम् एतत् मनसि कृत्वा एतादृशानां समाजसेवकानां कृते एव विविधोपचाराः उपदिष्टाः शास्त्रकारैः इति गम्यते । मानधनानां तेषां कृते आनृशंस्यार्थं दयाप्रेरितः स्वागतव्यवहारः नैव रुचये स्यात् इति स्पष्टमेव । अतः आतिथेयाः भोजनादिप्रबन्धेन न अतिथिम् उपकुर्वन्ति प्रत्युत अतिथेः आगमनेन आतिथेयः सम्मानितो भवति इत्येतादृशं भावं प्रकटयितुमेव आदरप्रदर्शकाः उपचाराः उपदिष्टाः दृश्यन्ते ।

 
अतिथिसत्कारः

यद्यपि आतिथ्यधर्मस्य मूले एतादृशी संकल्पना आसीत् इत्युक्तम् । तथापि गच्छता कालेन तादृशस्य विशिष्टगुणोपेतस्य अतिथेः स्थाने यः कोऽपि समाजस्य अङ्गभूतः गृहद्वारि आगच्छेत् तर्हि तं देवरुपं मत्वा यथाशक्ति यथाविधि च सेवितव्यः इत्यभवत् नियमः । समाजे जनानां शक्तिबुध्दिकर्तृत्वादीनां निसर्गतः एव वैषम्यात् आपद्गताः निर्धनाः अनाथाः पुरुषाः सन्ति एव । तेषां सर्वेषां ज्ञातिगुणनिर्विशेषम् अन्नपानादिदानेन संसेवनं कर्तव्यमेव इति निर्दिष्टं भवति । सोऽयम् आतिथ्यधर्मः प्राधान्येन गृहस्थानामेव, अन्येषां त्रयाणाम् आश्रमिणाम् अपचमानत्वात् इति तु स्पष्टमेव ।

पाश्चात्त्यानां संपर्कात् पूर्वं प्रायः न्यूनाधिक्येन अयम् अतिथिसत्कारविधिः सर्वत्र भारते परिपाल्यते स्म । जैन बौध्दानां ग्रन्थानाम् आलोडनेन एतदेव गोचरीभवति यद् आतिथ्यधर्मस्य अवश्यकर्तव्यता, तदन्तर्गताः विविधाः उपचाराः, तस्य परिपालनेन् प्राप्यं फलम् इत्यादिषु विषयेषु आश्चर्यकरं साम्यं वर्तते त्रयाणामपि वैदिक-जैन –बौद्धानां मतेषु । एवम् उपासनाभेदेन ग्रन्थप्रामाण्यविषयकवैमत्येन वा संस्कृतिः न भिद्यते इति तथ्यं प्रमाणितं भवति ।

आधुनिकप्रगतपाश्चात्त्यदेशेषु दरिद्रपोषणस्य दायित्वं तावत् स्वीकृतं शासनसंस्थया । तत्र निर्धनानां स्वनिर्वाहं कर्तुम् अक्षमाणां न्यूनतमम् इति कृत्वा उदरभरणाय पर्याप्तं धनं दीयते । भारतीयशास्रकारैः तु भारः एषः विकेन्द्रीकृतः । यः कोऽपि गृहस्थः स्वभोजनात् पूर्वं समन्ततः अवलोकयन् यदि कश्चित् क्षुधितः अन्नार्थी दृष्टिपथं यायात् तर्हि तस्मै भोजनादिकं दत्त्वा अवश्यमेव तर्पयेत् इत्युपदिष्टम् । तत्रोक्तं 'अतिथिमाकाङ्क्षेत् गोदोहनमात्रम्’ इति । अनेन व्यवहारेण सममेव जनसाधारणान् प्रति भ्रातृभावः ऐक्यभावना च वृध्दिम् उपेयाताम् इति तु स्पष्टमेव । 'तेन त्यक्तेन भुञ्जीथाः’, अथवा 'भुञ्जते ते त्वघं पापा ये पचन्त्यामकारणात्’ इत्यादिवचनानाम् अयमेव तात्पर्यार्थः ।

समाज-ऋणस्य निर्यातने अतिथिसत्कारः नाम अन्यतमः विधिः । स तु प्रतीकरूपः एव । गृहस्थाः यद् धनम् अर्जयन्ति तस्य विनियोगः केवलं स्वस्यैव सुखार्थं नैव कर्तव्यः, अपि तु स्थलकालानुसारं, समाजहितं साधयितुम् अनुष्ठातव्यः इत्येव आतिथ्यतत्त्वं सूचयति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

  • Danny Meyer (2006) Setting the Table : The Transforming Power of Hospitality in Business
  • Christine Jaszay (2006). Ethical Decision-Making in the Hospitality Industry
  • Karen Lieberman & Bruce Nissen (2006). Ethics in the Hospitality And Tourism Industry
  • Rosaleen Duffy and Mick Smith. The Ethics of Tourism Development
  • Conrad Lashley and Alison Morrison. In Search of Hospitality
  • Hospitality: A Social Lens by Conrad Lashley and Alison Morrison
  • The Great Good Place by Ray Oldenburg
  • Customer Service and the Luxury Guest by Paul Ruffino
  • Fustel de Coulanges. The Ancient City: Religion, Laws, and Institutions of Greece and Rome
  • Bolchazy. Hospitality in Antiquity: Livy's Concept of Its Humanizing Force
  • Jacques Derrida (2000). Of Hospitality. Trans. Rachel Bowlby. Stanford: Stanford University Press.
  • Steve Reece (1993). The Stranger's Welcome: Oral Theory and the Aesthetics of the Homeric Hospitality Scene. Ann Arbor: The University of Michigan Press.
  • Mireille Rosello (2001). Postcolonial Hospitality. The Immigrant as Guest. Standford, CA: Stanford University Press.
  • Clifford J. Routes (1999). Travel and Translation in the Late Twentieth Century. Cambridge, MA: Harvard University Press.
  • John B. Switzer (2007). "Hospitality" in Encyclopedia of Love in World Religions. Santa Barbara, CA: ABC-CLIO.
  • Immanuel Velikovsky (1982). Mankind in Amnesia. Garden City, New York: Doubleday.
"https://sa.wikipedia.org/w/index.php?title=अतिथिसत्कारः&oldid=395072" इत्यस्माद् प्रतिप्राप्तम्