आम्रफलस्य रसः एव आम्रफलरसः । एतत् आम्रफलम् आङ्ग्लभाषायां Mango इति उच्यते । अस्य रसः Mango Juice इति उच्यते । आम्रफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य आम्रफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि आम्रफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं आम्रफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । आम्रफलानि बहुविधानि सन्ति । तदनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।

आम्रफलरसः
आम्रफलस्य खण्डाः
आम्रफलानि

फलरसस्य निर्माणम् सम्पादयतु

अस्य आम्रफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् आम्रफलं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजं पृथक् करणीयम् । तदनन्तरं फलखण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते । आम्रफलम् आम्लरुचियुक्तं चेत् शर्करा अधिकप्रमाणेन योजनीया भवति ।

"https://sa.wikipedia.org/w/index.php?title=आम्रफलरसः&oldid=482477" इत्यस्माद् प्रतिप्राप्तम्