भारतद्वारम्

(इण्डिया गेट् इत्यस्मात् पुनर्निर्दिष्टम्)

भारतद्वारं ( /ˈbhɑːrətədvɑːrəm/) (हिन्दी: इण्डिया गेट, आङ्ग्ल: India Gate) भारतगणराज्यस्य एकं स्मारकम् । इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः भारतद्वारस्य निर्माणं जातम् आसीत् [] । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः भारतस्य अज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम्[]भारतस्य देहली-महानगरस्य नवदेहलीमण्डले स्थितम् एतत् स्मारकं भारतस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् । भारतद्वारस्य परिकल्पना फ्रान्स्-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति[]

भारतद्वारम्
भारतम्
India Gate
Used for those deceased 1914-1921
Established 10 February 1921
Unveiled 12 February 1931
Designed by Edwin Lutyens

भौगोलिकस्थितिः

सम्पादयतु

भारतगणराज्यस्य देहली-महानगरस्य नवदेहलीमण्डलस्य नवदेहली-नगरस्य राजपथमार्गे भारतद्वारस्मारकं विद्यते । भारतद्वारं परितः स्थितः ६२५ षड्भुजव्यासभागेन (hexagon diameter) सह समीपस्थः ३,०६,००० च.कि.मी. भागः भारतद्वारस्य भागत्वेन परिगण्यते ।

इतिहासः

सम्पादयतु

पुरा अखिलभारतीययुद्धस्मारकनाम्ना प्रसिद्धम् एतत् स्मारकम् आङ्ग्लाः निर्मापयन् । प्रथमविश्वयुद्धे ये भारतीयसैनिकाः आङ्ग्लसर्वकारस्य पक्षे युद्धं कृत्वा प्राणाहुतिम् अयच्छन्, तेषां स्मरणार्थम् आङ्ग्लैः एतत् स्मारकं निर्मापितम् आसीत् [] । रक्तप्रस्तरैः, पीतप्रस्तरैः च निर्मतम् एतत् स्मारकं फ्रान्स्-देशस्य ‘आर्क-द ट्रायोम्फल्’ सदृशम् अस्ति । यदा एतत् स्मारकं परिकल्पनाधीनम् आसीत्, तदा भारतद्वारं यातायातस्य मुख्यमार्गे स्थितम् आसीत् । तस्मिन् काले राजपथमार्गपर्यन्तं देहली-आग्रा-रेल्-मार्गः आसीत् । तेन स्मारकस्य भूमिविषये अनिश्चितता आसीत् । ततः १९२१ तमे वर्षे तस्मात् स्थलात् रेल्-मार्गस्य स्थानान्तरणानन्तरं स्मारकस्य निर्माणकार्यम् आरब्धम् [][]। १९३१ तमे वर्षे निर्माणकार्ये पूर्णे सति तत्कालीनेन गवर्नर् लॉर्ड् इर्विन् इत्यनेन एतत् स्मारकं जनेभ्यः समर्पितम् ।

परिकल्पना

सम्पादयतु
 
भारतद्वारे हुतात्मनां नामानि अङ्कितानि सन्ति ।

एड्विन् लुटियन्स् इत्ययम् आङ्ग्लसर्वारस्य स्थापत्यविभागस्य अध्यक्षः आसीत् । सः युद्धस्मारकनिर्माणसमितेः सदस्यः अपि आसीत् । सः भारतद्वारस्य सम्पूर्णां परिकल्पनाम् अकरोत् । भारतद्वारस्य औन्नत्यं ४२ मी. अस्ति । राजस्थानराज्यस्य भरतपुरात् रक्तप्रस्तराणाम् आयातं कृत्वा एतस्य स्मारकस्य रचना जाता अस्ति । भारतद्वारस्य उपरितने भागे तैलपात्रस्य रचना अपि कृता अस्ति । तस्मात् तैलपात्रात् अविरतं पतद् तैलम् अधः दीपकान् दीर्घकालं यावत् प्रज्वालयेत् इति तस्य पात्रनिर्माणस्य उद्देशः आसीत् । तस्य तैलपात्रस्य उपयोगः उत्सवेषु, पर्वसु च भवितुम् अर्हति । परन्तु एतावता तस्य तैलपात्रस्य अतिस्वल्पः उपयोगः कृतः । भारतद्वारस्य उपरि प्रथमविश्वयुद्धे हुतात्मनां नामानि अङ्कितानि सन्ति । द्वारस्य मध्ये ‘INDIA’ अपि अङ्कितम् अस्ति []

अमर जवान ज्योति

सम्पादयतु

अमर जवान ज्योति (अमर सिपाहि लौ) इत्येव भारतद्वारस्य मुख्याकर्षणं, मुख्योद्देशः च [] । भारतद्वारे प्रस्तरैः निर्मिता एका पीठिका अस्ति । तस्याः पीठिकायाः मध्यभागे कृष्णप्रस्तरेण निर्मितः पीठः विद्यते । तस्मिन् पीठे अशरीरिणां सैनिकानां स्मरणार्थम् अग्निशस्त्रं (rifle) स्थापितम् अस्ति । तस्मिन् अग्निशस्त्रे एकं शिरस्त्राणं विद्यते । कृष्णपीठं परितः समानान्तरे चत्वारः दीपकाः स्थापिताः सन्ति ।

अमर जवान ज्योति इत्यस्य रक्षणार्थं भारतीयसेनानाम् अनेकाः सैनिकाः २४/७, ३६५ दिनानि च तत्र सन्नद्धाः भवन्ति । प्रतिवर्षं कारगिलविजयदिवसे, प्रजासत्ताकदिने (२६ जनवरी) च भारतगणराज्यस्य प्रधानमन्त्री, तिसॄणां सेनानाम् अध्यक्षाः, भारतस्य गणमान्याः च अमर जवान ज्योति इत्यस्मै नमस्कारं कर्तुं भारतद्वारं गच्छन्ति []

भारतद्वारात् १५० मी. दूरे पूर्वदिशि एकः मण्डपः निर्मितः वर्तते । सः मण्डपः निरङ्कारि-सरोवरस्य पार्श्वे स्थिते बुरारी-मार्गनामके स्थले वर्तते । पुरा तस्मिन् मण्डपे जॉर्ज् 5 इत्यस्य ५० पादोन्नता मूर्तिः आसीत् । परन्तु भारतगणराज्यस्य स्वतन्त्रतानन्तरं १९६० तमे वर्षे जॉर्ज् इत्यस्य मूर्तिः मण्डपात् अपाकृता । महाबलिपुरे षष्ठे शताब्दे अनेकानां बृहन्मूर्तीनां निर्माणं जातम् आसीत् । तस्मात् प्रेरिताः आङ्ग्लाः जॉर्ज् इत्यस्य मूर्तेः निर्माणम् अकारयन् । तस्याः मूर्तेः निर्माणं सी. एस्. जैगर् नामकेन आङ्ग्लेन कृता आसीत् । आङ्ग्लशासने निर्मितासु बृहन्मूर्तिषु जॉर्ज् इत्यस्य मूर्तेः गणना भवति स्म ।

 
भारतद्वारस्य रक्षणं कुर्वन् सैनिकः

भारतद्वारं (India Gate), भारतप्रवेशद्वारम् (Gateway of India) इत्यनयोः मध्ये या भिन्नता अस्ति, तस्याः विषये विरलाः जनाः उत प्रादेशिकाः एव जानन्ति ।

भारतद्वारं तु देहली-महानगरस्य राजपथमार्गे स्थितं किञ्चन स्मारकम् । १९३१ तमे वर्षे भारतद्वारस्य निर्माणं पूर्णम् अभवत् । एतत् स्मारकं प्रथमविश्वेयुद्धे हुतात्मभ्यः सैनिकेभ्यः निर्मितम् आङ्ग्लसर्वकारेण । भारतद्वारस्य परिकल्पना (design) एड्विन् लुटियन्स् इत्यनेन कृता आसीत् ।

भारतप्रवेशद्वारं महाराष्ट्रराज्यस्य मुम्बई-महानगरे स्थितं भारतगणराज्यस्य प्रवेशद्वारम् अस्ति । १९२४ तमे वर्षे एतस्य प्रवेशद्वारस्य निर्माणं पूर्णम् अभवत् । समुद्रमार्गेण ये आङ्ग्लाः भारतं प्रविष्टाः, ते तस्मात् मार्गात् एव प्रवेशं प्रापन् । ततः भारतस्वतन्त्रतायाः काले अपि ते तेन मार्गेण भारतात् निर्गमनम् अकुर्वन् । तेन मार्गेण आङ्ग्लानां गमनागमनत्वात् तस्य नाम भारतप्रवेशद्वारम् इति । तस्य द्वारस्य निर्माणोद्देशः भिन्नः आसीत् । जॉर्ज् 5 इत्यस्य विवाहः मेरी इत्यनया सह अभवत् । तयोः विवाहस्य स्मारकत्वेन आङ्ग्लाः एतस्य द्वारस्य निर्माणम् अकारयन् ।

चित्रवीथिका

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु

गणतन्त्रदिवसः

कारगिलविजयदिवसः

भारतप्रवेशद्वारम्

प्रधानमन्त्री

राष्ट्रपतिः

बाह्यसम्पर्कतन्तुः

सम्पादयतु

http://www.delhitourism.gov.in/delhitourism/hindi/tourist_place/india_gate.jsp स्थूलाक्षरैः युक्तः भागः http://delhidarshan.netne.net/india-gate-raj-path-center-of-delhi-new-delhi-india.html Archived २०१४-०७-२९ at the Wayback Machine

सन्दर्भः

सम्पादयतु
  1. १.० १.१ १.२ Metcalf, Thomas R. (31 March 2014). "WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal". Outlook (31 March 2014). आह्रियत 8 April 2014. 
  2. २.० २.१ David A. Johnson; Nicole F. Gilbertson (4 August 2010). "Commemorations of Imperial Sacrifice at Home and Abroad: British Memorials of the Great War". The History Teacher. 4 43: 563–584. आह्रियत 9 April 2014. 
  3. ३.० ३.१ "A fine balance of luxury and care". Hindustan Times. 21 July 2011. Archived from the original on 27 July 2014. आह्रियत 28 August 2014. 
  4. "यदा रेलयानस्य स्थानान्तरम् अभवत्, तदा वि, के सेनोय् अध्यक्षः आसीत् ।". देहली विकेण्ड् गेटवेस्. १८/१/२०११. Archived from the original on 2013-03-22. आह्रियत 2014-08-28. 
  5. Goswami, Col (retd) Manoranjan. "War memorial". Assam Tribune. Archived from the original on 13 April 2014. आह्रियत 10 April 2014. 
"https://sa.wikipedia.org/w/index.php?title=भारतद्वारम्&oldid=481698" इत्यस्माद् प्रतिप्राप्तम्