उमापरिणयम्
उमापरिणस्य तिरुचिरपल्ल्याः संस्कृतसाहित्यपरिषदो वार्षिकोत्सवे १९५२ ईसवीये द्विवारमभिनयः संवृत्तः। सुन्दरार्यः अस्य रचयिता अस्ति।
उमापरिणयम् | |
---|---|
कामर्त्योः शिल्पस्थापत्यम् | |
लेखकः | सुन्दरार्यः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
कथावस्तु
सम्पादयतुहिमालयः स्वकन्यायाः पार्वत्याः परिणयाय चिन्तितः समागताय नारदाय स्वां चिन्तां प्रकटयामास | नारदोऽब्रवीत् - पार्वती पूर्वजन्मनि सती इतिनाम्ना दक्षप्रजापतेः कन्यासीत् , या शिवस्य अपमानम् असहमाना योगाग्नावात्मानं ददाह । इयमस्मिन् जन्मन्यपि तस्यैव पत्नी भविता । शिवोऽपि सतीवियोगात्तपसि लग्नोऽस्ति । पार्वती तत्सेवायै तत्रैव प्रेषणीया |
तारकासुरो देवलोकम् अभ्यषेणयत् । तस्य भटो रम्भां कल्पतरुच्च हृतवान् | इन्द्रेण पृष्टो बृहस्पतिः उक्तवान् शिवकुमार एव तारकासुरं हन्तुं शक्नोतीति ब्रह्मणा निर्दिष्टम् । एतादृश्यां परिस्थितौ पार्वतीशिवयोः परिणयाय देवेन्द्रेण कामः समाज्ञप्तः । रतिः तज्ज्ञात्वा अभिहितवती -
शक्यः किन्नु घटाम्भसा शमयितुं घोरस्य दावानलो
वज्रं वारयितुं पतन्तमथवा छत्रेण किं शक्यते।।
यो वा कर्तुमपेक्षते च तपसो विघ्नं पुरारेपि
क्रोधाग्नौ पतितुं स्वयं शलभतां प्राप्तुं स वाञ्छत्यहो।।
रत्याः स्पष्टं मतमासीद् यच्छिवविरोधेन कल्याणं न भवति । सापि तेन समं गता ।
ब्रह्मचारिणः शङ्करस्य (शिवेतरोऽयं प्राकृतः कश्चित् ) जननी मीनाक्षी तस्य विवाहं कर्तुमिच्छति । शङ्करो निषेधति – “नूनं न फलिष्यति ते मनोरथः । दुःखकरो भवति संसारः । तपः कर्तुं यास्यामि।” अथ तत्रैव नटेशः सुन्दरीनाम्न्या कन्यया सार्धं समागतः । सुन्दर्यपि विवाहं न्यषेधत् । पुनरपि मीनाक्षी-नटेशौ तयोः मेलापक-दर्शनार्थं ज्योतिर्विदः समीपं गतौ ।
इतश्च सुन्दरी ब्रह्मचारिणे नातिदूरे विपरीतं दिशायां मुखं कृत्वा भूम्यामेव शयिता । तदानीमेव रति-कामदेवौ तत्र समागतौ । मन्मथो निलीनो ब्रह्मचारिणम् उपरि पुष्पबाणं चालयामास । शंकरो मन्मथ मदृष्ट्वा अचिन्तयत् सुन्दरीयं ममोपरि पुष्पाणि प्रक्षिप्य व्याजशयनं नाटयति । स तस्याः सविधं गत्वा ताम् उद्बोधयामास । यदा सा न जागर्ति तदा शङ्करस्तानि पुष्पाणि तस्या उपरि प्रक्षिपति | बोधमागता सुन्दरी प्रचण्डं क्रोधं दर्शयामास । शङ्करोऽब्रवीत् तर्हि कस्माद् भवती इमानि पुष्पाणि मयि क्षिप्तवती ? अथ पुष्पगन्धमाघ्राय सुन्दरी शङ्करं प्रति आकृष्टा | शङ्करस्तैरेव पुष्पैः सस्याः प्रसाधनं कृतवान् । तौ तथाचरन्तौ वीक्ष्य मीनाक्षीनटेशावूचतुः - अधुना ज्योतिर्विदः कतमावश्यकता ? मन्मथस्तमात्मनः प्रभावं रतये शनैर्वर्णयामास । एवमेव पार्वत्या सह शिवः परिणेतव्यः इत्यप्यूचिवान्।
अथ रत्या समं मन्मथः शिवस्य तपोभूमिमासाद । तत्र स दृष्टवान् -
न चलति तरुपर्णं मारुतो वाति नात्र
न चलति मृगयूथं श्रूयते नापि शब्दः ।
तपति च शितिकण्ठे तत्स्वरूपं समस्तं
भवति भुवनमेतन्निर्गुणं निर्विकारम् ॥
तथाविधं शिवं दृष्ट्वा मन्मथस्य हस्तपादं शिथिलं बभूव । तत्र पार्वती पङ्कजबीजमालां फलानि च गृहीत्वा समागत्य स्तुतिपूर्वं प्रणनाम | अद्वितीयं पतिमाप्नुही इति शिव आशीः प्रायुङ्क्त | मालार्पणकाले मन्मथः सम्मोहनास्त्रस्य प्रयोगं कृतवान् | तस्य चास्त्रस्य प्रभावेण शिवस्य मानसं सविकारं समजनि । तत्सर्वमाकलय्य मन्मथञ्च दृष्ट्वा शिवो हुमिति कृत्वा नेत्रवह्रिस्फुलिङ्गेन तं ददाह । तत् स्थानं च विहाय अन्यत्र गतवान् । हिमालयः पार्वतीं निनाय | रतिः भृशं विललाप | आकाशवाणी रतिं समाश्वासयत् - शिव-परिणयसमये त्वं पुनः पतिं प्राप्यसि । शिवस्तं पुनरुज्जीवयिष्यति इति।
एकस्मिन् दिवसे नारदः पुनर्हिमालयगृहं गतवान् । तत्र स पार्वत्याः तपोऽनुमोदयामास । ततः स शिवसमीपं गत्वा पार्वतीतपसश्चर्चां कृतवान् | तत्तपो भवदर्थमेवास्तीत्यपि निवेदयाम्बभूव । प्रथमं शिवोऽब्रवीत् एतद् देवानां षड्यन्त्रं भविष्यति । अनन्तरं नारदानुनयेन तस्याः पाणिग्रहणं स्वीकृतवान् । तत एकदा कश्चिद् ब्रह्मचारी पार्वतीतपोभूमौ तां द्रष्टुमागतवान् । स तस्यास्तपः प्रशशंस । ततो वार्तालापप्रसङ्गेन ब्रह्मचारी पार्वत्याः शिवम्प्रत्यासक्तिं ज्ञात्वा शिवमननुरूपं वरं समर्थयन् तं विनिनिन्द । पार्वती ब्रह्मचारिणे चुकोप । ततः शिवो ब्रह्मचारिणश्छद्मरूपं विहाय स्वकीयं वास्तविकं रूपं दर्शयामास । तयोर्विवाहं देवाः सम्पादयामासुः, शिवश्च कामं सप्राणं कृतवान्।
शिल्पम्
सम्पादयतुउमापरिणयस्य प्रस्तावना सूत्रधारविरचितास्ति । शिवस्य ब्रह्मचारिवेशं विधाय पार्वत्या सह वार्तालापश्छायातत्त्वात्मकं वर्तते।