सुन्दरार्यः
सुन्दरार्यः तिरुचिरपल्ल्यां जन्म लेभे । तत्रैव सोऽधिवक्ता (Advocate ) आसीत् । अस्य काव्यप्रावीण्येन प्रसन्नो मद्रासस्य राजकविः महामहोपाध्यायः कृष्णमूर्तिशास्त्री 'अभिनवजयदेवः' इत्युपाधिना इममलञ्चकार । संस्कृतसाहित्यपरिषदा ‘अभिनवकालिदासः' इत्युपाधिना च विभूषितः। सुन्दरार्यः तिरुचिरपल्ल्याः संस्कृत-साहित्यपरिषदो मन्त्री बभूव, यदा तस्या अध्यक्षो गोपालाचार्योऽभवत् । स केवलं कविरेव नासीत् । अपि तु अभिनेता निर्देशकश्चाविद्यत। कवेः प्रथमा नाट्यकृतिः उमापरिणयं[१] वर्तते, चरमा च मार्कण्डेविजयमस्ति[२] । एतदतिरिक्तं कविना समुद्रस्य स्वावस्थावर्णनं नाम काव्यं, स्तोत्ररत्नावली, गानमञ्जरी च निरमीयन्त, तामिलभाषायाम् उपन्यासत्रयञ्च विरचितम्।
सुन्दरार्यः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | उमापरिणयं, मार्कण्डेयविजयम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
उमापरिणयम्
सम्पादयतुउमापरिणस्य तिरुचिरपल्ल्याः संस्कृतसाहित्यपरिषदो वार्षिकोत्सवे १९५२ ईसवीये द्विवारमभिनयः संवृत्तः।
मार्कण्डेयविजयम्
सम्पादयतुमार्कण्डेयविजयस्य अभिनयः स्थानीयसंस्कृतसाहित्यपरिषदो वार्षिकोत्सवेऽभवत् । अस्य प्रणयनं काञ्चीकामकोटिपीठाधिपतेः जगद्गुरुशङ्कराचार्यस्य आदेशात् सञ्जातम्।
कथावस्तु
सम्पादयतुमृकण्डुस्तत्पत्नी मृद्वती च शिवार्चनं कुरुतः | पुत्रविहीनत्वात्तयोरातिथ्यं न कश्चिद् गृह्णाति । तौ शिवम् अर्चयित्वा मार्कण्डेयनामधेयं पुत्रं प्राप्नुतः, किं तु तस्यायुः शिवेन षोडशवर्षमेव कल्पितम् । मार्कण्डेयो नियमतः शिवार्चनं करोति। षोडशवर्षावसाने यमश्चण्डवज्रदंष्ट्रनामानौ दूतौ तमानेतुं प्रेषयति । तौ काचिद् दैवी शक्तिर्निषिषेध । ततो यमः स्वयमेव मार्कण्डेयमानेतुमायातः । यमस्तस्य कण्ठं पाशेन निबध्याचकर्ष । तदा स शिवलिङ्गमालिलिङ्ग । यमः शिवलिङ्गमपि पाशेन बद्ध्वा कृष्टवान् । शिवलिङ्गं पुस्फोट । शिव आविर्भूय यमं चरणेनाजघान । यमो मूमूर्च्छ। ततः शिवो मार्कण्डेयशिरसि हस्तं धृत्वोवाच - त्वं कालपाशान्मुक्तोऽसि । चिरञ्जीवी चासि | नारदप्रार्थनया यमोऽपि पुनरुज्जीवितः । मार्कण्डेयः सदा षोडशवर्षीयः स्थास्यतीति शिवो यमं निर्दिदेश।