ऋतुर्यदा परिवर्तते तदा आहारविहारा अपि तदनुसारं परिवर्तनीया:।तथापि अभ्यस्तनामाहारविहाराणां सहसा त्यागो नोचित:। अनभ्यस्तानामपि सहसा स्वीकारो रोगाय भवति।अत: क्रमश: पूर्वर्तुचर्यायास्त्याग उत्तरर्तुचर्याया: सेवनमुपदिश्यते शास्त्रे। एतौ च त्यागस्वीकारौ ऋतुसन्धिकाले भवेताम्। ऋतुसन्धिकालो नाम पूर्वर्तोरन्तिम: सप्ताह: उत्तरर्तोरादिम: सप्ताह: च। अस्मिन्सप्ताह्द्वयात्मके काले शनै: शनै: पूर्वाभ्यासस्त्यक्तव्य:, उत्तराभ्यासोऽङ्गीकर्तव्य:।तदुक्तम् –
ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरितिस्मृत:।तत्र पूर्वो विधिस्त्यज्य: सेवनीयोऽपर: क्रमात्।
असात्म्यजा हि रोगा: स्यु: सहसा त्यागशीलनात्॥अष्टङ्गहृदयम् सूत्रस्थानम् ३.५८,५९

ऋतुसन्धिकालः
ऋतोः समयोगः
ऋतोः समयोगः

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ऋतुसन्धिकालः&oldid=409972" इत्यस्माद् प्रतिप्राप्तम्