भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभारतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदातनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि पू २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनवायुव्यभारते अवसन् । स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते ।

क्रि पू ६ शतके महावीरगौतमबुद्धयोः जन्म अभवत् । तदारभ्य भारतस्य इतिहासस्य प्रमाणानि प्राप्यन्ते । अग्रिमेषु १५००वर्षेषु भारतीयसंस्कृतिः सम्यक् प्रवृद्धा । केषाञ्चन इतिहासतज्ञानाम् अभिप्रायानुसारं क्रि श १ तः १५ शतकावधौ विश्वे एव महती अर्थव्यवस्था आसीत् भारते । तदा जगतः आयव्ययस्य त्रिषु एकस्य भागस्य नियन्त्रणं भारतेन क्रियते स्म । अनन्तरं मोघलजनानां काले चतुर्षु एकभागस्य जातं नियन्त्रणं युरोपियन्-जनानां काले इतोपि न्यूनत्वम् अप्राप्नोत् । ८ तः १२ शतके अरब्-मध्यएषियायोः सैन्याक्रमणतः आरब्धानां यवनाक्रमणानां परिणामतः १६शतकाभ्यन्तरे भारते मोघलसाम्राज्यस्य स्थापनं सञ्जातम् । १५-१६श्तकाभ्यन्तरे जातात् युरोपियन्-वणिजाम् आगमनात् १८शतकाभ्यन्तरे भारते ब्रिटिषसाम्राज्यस्य स्थापनं जातम् । महात्मागान्धेः नेतृत्वे प्रवृत्तस्य अहिंसात्मकान्दोलनस्य परिणामरूपेण १९४७तमे वर्षे भारतं स्वतन्त्रम् अभवत् । किन्तु अखण्डं भारतं जात्यातीतभारतगणराज्यम् इस्लामिक्पाकिस्तानराज्यं चेति द्विधा विभक्तम् । १९७१तमे जातस्य युद्धस्य कारणतः पूर्वपाकिस्तानं स्वतन्त्रं भूत्वा बाङ्ग्लादेशस्य सृष्टिरभवत् । २०तमे शतके १ बिलियन् अपेक्षया अधिकजनसंख्यायुतं भारतं विश्वे एव महत् जनतन्त्रराष्ट्रम् अभवत् । वेगेन प्रवर्धमानायाः आर्थिकव्यवस्थायाः कारणतः आर्थिकव्यवस्थायां विश्वे चतुर्थं स्थानं प्राप्तम् अस्ति भारतेन ।

 
केरले एडकल्लुगुहासु (५०००BC) शिलासु लिखितानि चित्राणि

(क्रि पू ७०,०००-५०००)

५००,००० वर्षेभ्यः पूर्वतनाः होमोएरेक्टस्जातीयानां पूर्वमानवानाम् अवशेषाः प्राप्ताः सन्ति नर्मदानदीखातेषु । आधुनिकमानवस्य आगमनं भारतं प्रति ७०,०००-८०,०००वर्षाभ्यन्तरे स्यात् इति अभिप्रायः आधुनिकविज्ञानस्य । मध्यप्रदेशस्य "छिम्बेट्का" इत्यत्र ९०००वर्षेभ्यः पूर्वतनगुहासु प्राप्ताः मानवस्य वसतेः चित्रकलायाः च अवशेषाः एव आधुनिकमानवानां प्रथमचिह्नम् । ७०००वर्षेभ्यः पूर्वतनाः अवशेषाः प्राप्ताः सन्ति गुजरातराज्यस्य खम्बत्-उपसागरे । इदानीन्तनपाकिस्थानस्य बलूचिस्थानप्रान्ते ७०००वर्षेभ्यः पूर्वतनाः शिलया-मृत्तिकाभिः च निर्मिताः वसतयः प्राप्ताः सन्ति । क्रि पू ३५००वर्षावसरे सा संस्कृतिः सिन्धुखातसंस्कृतौ विलीना जाता इति चिन्त्यते ।

(क्रि पू ३३००-१५००)

अखण्डभारतस्य कांस्ययुगस्य संस्कृतयः नागरिकवसतीनां, वैदिककालस्य वर्धनस्य वा आधुनिकभारतीयसंस्कृतेः आधारभूमिः । कांस्ययुगे सिन्धुखातस्य संस्कृतिः, वैदिकसंस्कृतिः च प्रवृद्धे जाते ।

(क्रि पू ३३००तः १५००)

 
सिन्धुखातसंस्कृतौ उपयुक्तानि आयसाक्षराणि

सिन्धुनद्याः तीरे प्रायः क्रि पू २५००मध्ये जलमातृकम् आरब्धम् । तेन सह प्रगतिपथम् आगता नागरिकता एव सिन्धुखातस्य नागरिकता । एषा नागरिकता क्रि पू २५००तः क्रि पू १९००अवधौ संवृद्धा । एतदवसरे हरप्पा तथा मोहेञ्जोदारो इति नगरद्वयम् आसीत् । एते एव विश्वे प्रथमनगरे इति प्रख्याते । एषा नागरिकता सिन्धोः, तस्याः उपनद्योः गाग्गर्नद्योः हाक्रनद्योः तीरे प्रसृता आसीत् । कालक्रमेण सा पश्चिमदिशि गङ्गायमुनयोः मध्ये विद्यमानस्य दोआब्प्रदेशपर्यन्तं, दक्षिणे इदानीन्तनमहाराष्ट्रराज्यपर्यन्तं, पूर्वदिशि इदानीन्तन-इरान्देशपर्यन्तम्, उत्तरदिशि इदानीन्तन-अफघानिस्तानपर्यन्तं प्रसृता । एतदवसरे उत्तमः नगररचनाक्रमः आसीत् । इष्टिकानाम् उपयोगः, बहु-अट्टात्मकानां भवनानां निर्माणं, अन्तर्कुक्कुलीव्यवस्था (कुक्कुली इत्युक्ते मलिनजलप्रवाहनालः) च एतस्याः नागरिकतायाः वैशिष्ट्यम् । तदानीन्तनजनसंख्या ५० लक्षमिता स्यादिति तज्ञानाम् अभिप्रायः ।

भौगोलिकपरिवर्तनानां वातावरणवैपरीत्यानां कारणतः एतस्याः नागरिकतायाः नाशस्य कारणं स्यादिति ऊह्यते । क्रि पू २६००वर्षेभ्यः पूर्वमेव ते जलमातृकव्यवस्थाम्, आहारधान्यानां रक्षणार्थं भाण्डारव्यवस्थां, सार्वजनिकमार्गाणां व्यवस्थाम्, इष्टिकाभिः कुक्कुलीनिर्माण्व्यवस्थां वा ज्ञातवन्तः आसन् ।

 
वैदिककाले उत्तरभारतस्य मानकित्रम्

(क्रि पू १९०० तः ५००)

वेदानां रचना अस्याः वैदिकसंस्कृतेः काले एव वैदिकसंस्कृतेन कृता । वेदाः एव जगति अत्यन्तं प्राचीनाः ग्रन्थाः । तदानीन्तनसंस्कृतिः इण्डो-आर्यन्मूलीया आसीत् । वेदकालस्य आरम्भे तेन समाजेन पशुपालनमेव अवलम्बितम् आसीत् । ऋग्वेदकालानन्तरं सः समाजः कृषिविषये लक्ष्यम् अददात् । तदा वर्णाश्रमपद्धतिः आसीत् । कालक्रमेण लघुराज्यानां मेलनेन कुरु-पाञ्चालसदृशानि महाराज्यानि उदितानि । हिन्दुधर्मस्य प्रधानग्रन्थानां रामायण-महाभारत-भगवद्गीतादीनां रचना अपि तदा एव मुखोक्तरीत्या जाता इति उच्यते । अथर्ववेदस्यापि रचना अस्मिन्नेव काले जाता इति ज्ञायते । अनन्तरं क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते ।

 

(क्रि पू ७००-३२०)

अयसः युगे भारते लघुराज्यानि संस्थानानि वा आसन् । क्रि पू १०००वर्षेभ्यः पूर्वतनेषु वैदिकसाहित्येषु अपि तस्य उल्लेखः अस्ति । क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । तेषु मगध-कोसल-कुरु-गान्धारजनपदाः अत्यन्तं बलतराः आसन् । राजा राज्याधिकरं येन केन प्रकारेण प्राप्नोति चेदपि वैदिकवर्गः सूक्तं वंशपरम्परां धार्मिकाधिकारं च सृष्ट्वा तं राज्याधिकारं सक्रमं करोति स्म । तदा सामान्यजानानां भाषा प्राकृतम् उच्चवर्गीयाणां विद्यावतां वा भाषा संस्कृतम् आसीत् । तदा हिन्दुधार्मिकविधयः सङ्कीर्णाः सन्तः वैदिकवर्गः केवलं तान् विधीन् कारयितुं शक्नोति स्म ।

तत्त्वशास्त्रस्य प्रथमावस्था इत्याख्यानाम् उपनिषदां रचना अस्मिन्नेव काले आरब्धा इति ऊह्यते । अस्मिन्नेव काले बौद्ध-जैनधर्मौ अपि प्रवृद्धौ । महाजनपदानां कालः वैचारिकतायाः सुवर्णयुगमेव । बौद्ध-जैनधर्मयोः तत्त्वं सर्वम् अत्यन्तं सरलम् आसीत्, तथा च प्राकृतभाषया धर्मप्रसारः जातः इत्यस्मात् तौ धर्मौ बहुशीघ्रं जनजीवनं प्रविष्टौ । बौद्धधर्मस्य संन्यासिनां कारणतः सः धर्मः मध्यएषिया, पूर्वएषिया, टिबेट्, श्रीलङ्का, आग्नेयएषियापर्यन्तमपि प्रसृतः । महाजनपदानां काले आरब्धं तत्त्वशास्त्रं समग्रस्य पूर्वजगतः श्रद्धा-विश्वासयोः आधारभूमिः जाता । पर्षिया-ग्रीसदेशेभ्यः जातात् आक्रमणात् तथा च मगधे उदयं प्राप्य सम्पूर्णं भारतं प्रसृतस्य महासाम्राज्यस्य कारणात् च एतेषां महाजनपदानां नाशः अजायत ।

महाजनपदाः प्राचीनभारतस्य साम्राज्यानि आसन् । षोडश जनपदाः आसन् । ते ;

एतेषु गन्धारः काम्भोजश्च उत्तरपते स्थितौ ।

क्रि पू ५ शतके भारतस्य उपरि अकीमेनिड्-साम्राज्यस्य, अलेक्साण्डरस्य च आक्रमणं सञ्जातम् । तस्मात् भारतस्य राजकीयव्यवस्था एव परिवर्तिता अभवत् ।

वायुव्यभारते पर्षियातः आगतस्य अकीमेनिड्-साम्राज्यस्य शासनम् आसीत् । एतत् साम्राज्यं भारते १८६ वर्षाणि यावत् शासनम् अकरोत् । ते पर्षियन्भाषायाः अरामिक्-लिपेः उपयोगं कुर्वन्ति स्म । एतदवसरे एव आक्रमणं कृतवतः अलेक्साण्डरस्य दिग्विजययात्रा भारतस्य सिन्धुनद्याः प्रदेशपर्यन्तं प्रसृता आसीत् । अस्य साम्राज्यस्य पञ्जाबप्रदेशः, सिन्धुनद्याः प्रदेशः च अलेक्साण्डरस्य वशं गतौ ।

अलेक्साण्डरस्य साम्राज्यम्

सम्पादयतु
अलेक्साण्डरः क्रि पू ३३४ तमे वर्षे एषियाखण्डस्य कतिपय भागान् अकीमेनिड्-साम्राज्यं च वशीकृत्य भारतस्य उत्तरपश्चिमभागं प्राप्नोत् । तत्र सः भारतस्य राजानं पोरसं हैदस्पेस्युद्धे (इदानीतनपाकिस्तानस्य "जीलम्"नगरसमीपे) पराजित्य पञ्जाबप्रदेशस्य बहून् भागान् वशीकृतवान् । "बियस"नदीम् अतिक्रम्य ततोऽपि अग्रे गन्तुम् अलेक्साण्डरस्य सैन्यं नाशक्नोत् । तस्मात् कारणात् तस्य सैन्यं दक्षिणपश्चिमदिशि अगच्छत् ।

ग्रीको-बौद्धकालः

सम्पादयतु
शास्त्रीयायाः ग्रीकसंस्कृतेः बौद्धधर्मस्य च सांस्कृतिकमिश्रणम् एव ग्रीको-बौद्धसंस्कृतिः । सा क्रि पू चतुर्थे पञ्चमे च शतके इदानीन्तन-अफघानिस्तानस्य पाकिस्तानस्य च प्रदेशेषु व्याप्ता आसीत् । विशेषरूपेण महायानम् एतस्याः संस्कृतेः प्रभावितं जातम् । अनन्तरम् एषा संस्कृतिः चीना, कोरिया, जपान्-देशपर्यन्तं प्रसृता ।

- क्रि पू ६८४-३२१

मगधं पूर्वभारतस्य किञ्चित् राज्यम् आसीत्‌ । मगधदेशः षोडशमहाजनपदेषु अन्यतम: । अद्यतन: बिहारप्रदेश: मगधदेश: आसीत् । तस्य द्वे राजधान्यौ । राजगृह‌ं पाटलीपुत्रञ्चेति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ । भारतस्य सुवर्णकाले गणितं विज्ञानं ज्यौतिषं धर्म: इत्येतेषां शास्त्राणां विकास: अभवत् अत्र ।

भूगोलाधारः

मगधदेशे अद्यतने पटना-गया-मण्डले पश्चिमबङ्गालप्रदेशा: च अन्तर्भवन्ति स्म । अस्य प्रदेशस्य सीमा उत्तरदिशि गङ्गा आसीत् , पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः आसीत् ।

इतिहासः

एषः प्रदेश: एव बौद्धजैनमतानां जन्मस्थानम् । अत्र एव मौर्यगुप्तसाम्राज्ये आरभेताम् । अस्मिन् देशे एव प्राचीनकाले अत्यन्तं प्रख्यात: नालन्दाविश्वविद्यालय: अपि आसीत् । अत्र पाळीभाषा अपि उपयुक्ता भवति स्म ।

वंशावली

अयं वंशः भारतेन बृहद्रथेन स्थापितः । तस्य पुत्रः एव जरासन्धः । जरासन्धः भीमेन हतः । एष: वंशः सहस्रवर्षाणि शासनम् अकरोत् ।
प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत् । तेषां सम्प्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन् । तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत् । अतः एव जनाः प्रतिभटनं कृतवन्त: । ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत् ।
हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्षे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म । तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत ।
एषः वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः ।
अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत् । महापद्मनन्दः अष्टाशीतिवर्षाणि यावत् जीवितवान् । नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः । अस्य वंशस्य अन्तिमः सम्राट् धननन्दः ।
मौर्यसाम्राज्यं चन्द्रगुप्तमौर्येन प्रतिष्ठापितम् । सः विशालराज्यं प्राशासत । सः कम्भोजपारसिकयवनराज्यानि अपि जितवान् । तस्य पुत्रः बिन्दुसारः आसीत् । तस्य पौत्रः सम्राट् अशोक़ः । कलिङ्गयुद्धानन्तरम् अशोकः बौद्धधर्मम् अहिंसां च गृहीतवान् । सः शिलाभिलेखनानि अपि स्थापितवान् ।
क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान् । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।
क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशः प्रतिष्ठापितः । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।
गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तानां राजसभायां कालिदासार्यभट्वराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयते । मध्य-एशियहूणाः एतद् राज्यम् अनाशयन् ।
मध्ययुगं तत्रापि गुप्तसाम्राज्यस्य कालः भारतस्य अभूतपूर्व-सांस्कृतिक-अभिवृद्धेः कालः । एषः अवधिः भारतस्य सुवर्णकालः इति उक्तम् अस्ति भारतीय-इतिहासे । क्रि श प्रथमशतकस्य मध्यभागे मध्य-एषियातः आगताः कुशानाः ईशान्यभारतम् आक्रम्य साम्राज्यस्थापनम् अकुर्वन् । एतत् साम्राज्यं कालान्तरे पेशावरतः गङ्गानद्याः पर्यन्तं, ततोऽपि अग्रे बङ्गालकोल्लिपर्यन्तम् अपि प्रसृतम् । पुरातनब्याक्ट्रियाप्रदेशः (इदानीन्तन-अफघानिस्तानस्य उत्तरभागे विद्यमानः प्रदेशः), दक्षिणताजकिस्तानप्रदेशः च अस्य साम्राज्यस्य भागाः आसन् । अस्य साम्राज्यस्य प्रभावः तुर्किस्तानपर्यन्तम् अपि प्रसृतः आसीत् । अस्य एव कारणात् अग्रे चीनादेशे बौद्धधर्मस्य प्रसारार्थम् अवसरम् अकल्पयत् । अस्मिन् एव अवधौ दक्षिणभारते बहवः राजवंशाः प्रकाशपथम् आगताः । "मधुरै"नगरं राजधानीं कृत्वा दक्षिणतमिळुनाडुपदेशे शासनं कुर्वत् पाण्ड्यराज्यं तेषु प्रथमम् । अयं कालखण्डः मौर्याणाम् अस्तङ्गमनं, क्रि पू २००तमे वर्षे शातवाहनानां प्रवर्धमानं ततः आरभ्य गुप्तसाम्राज्यस्य अन्त्यपर्यन्तमपि आसीत् । तन्नाम क्रि श प्रथमशतकस्य मध्यभागपर्यन्तम् । प्रायः २०० वर्षाणि यावत् शासनं कृतवतः अस्य नाशः हूणानाम् आक्रमणेन सञ्जातः ।
शातवाहनाः (एते आन्ध्राः इत्यपि उच्यन्ते) क्रि पू २३० तः दक्षिणभारते मध्यभारते च शासनम् अकुर्वन् । एतेषां राज्यानाम् अन्त्यविषये विवादाः सन्ति । एते ४५० वर्षाणि यावत् शासनम् अकुर्वन् । तदभ्यन्तरे एव तेषां राज्यं दायादानां मध्ये विभक्तम् आसीत् । शकैः सह कलहः, सामन्तराजानं महवत्त्वाकाङ्क्षा च एतेषाम् अवनतेः कारणं जातम् । अग्रे अनेके राजवंशाः एतत् राज्यं प्राप्तवन्तः ।
कुनिन्दराज्यं हिमालयस्य उपत्यकायम् आसीत् । यद्यपि एतत् किञ्चित् लघुराज्यं तथापि ५०० वर्षाणि यावत् ते शासनम् अकुर्वन् । क्रि पू २ शतकतः क्रि श ३ शतकपर्यन्तं शासनं कृतं तैः । एतत् महाजनपदानां कालस्य राज्यम् आसीत् । तदानीन्तनानि राज्यानि इव एतदपि एकं लघुराज्यम् ।
भारतस्य दक्षिणदिशि आसन् पाण्ड्यानां, चोळानां, चेराणां च राज्यानि । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा संस्कृतेः च केन्द्रं फलवत्याः इण्डो-गङ्गाप्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् ।
कुशानसाम्राज्यं क्रि श १ शतकतः ३ शतकपर्यन्तं शासनम् अकरोत् भारते । क्रि श १०५-२५० पर्यन्तम् उत्तुङ्गस्थितौ आसीत् । तदा तत् साम्राज्यं ताजिकिस्तानतः क्यास्टियन्-समुद्रपर्यन्तम्, अफघानिस्तानतः गङ्गानद्याः उपत्यकापर्यन्तं प्रसृतम् आसीत् । अस्य साम्राज्यस्य स्थापनं चीनदेशस्य पूर्वतुर्किस्तानस्य निवासिनः टोचारियन्-जनाः अकुर्वन् । तेषां साम्राज्यस्य संस्कृतिः उत्तरभारतस्य संस्कृतितः प्रभाविता आसीत् । एतत् साम्राज्यं पूर्व-पश्चिमजगतः वाणिज्यकेन्द्रम् आसीत् । रोम्, ससानीय, पर्षिया इत्यादिभिः देशैः सह अस्य साम्राज्यस्य निरन्तरं सम्बन्धः आसीत् । चीनादेशेन सह निरन्तरव्यवहारस्य काराणतः तत्र कालान्तरे बौद्धधर्मः प्रसृतः ।
पश्चिमक्षत्रपाः अथवा सत्रपाः वस्तुतः शकवंशीयाः एव । एते क्रि श ३५-४०५ पर्यन्तं भारतस्य पश्चिमभागे मध्यभागे च शासनम् अकुर्वन् । एतेषां राज्यं सौराष्ट्रे मालवे च प्रसृतम् आसीत् (इदानीन्तनं महाराष्ट्रं, राजस्थानं, मध्यप्रदेशः च) । उत्तरभारतस्य कुशानाः, मध्यभारतस्य शातवाहनाः (आन्ध्राः) च एतेषां समकालीनाः आसन् । ३५० वर्षाणि यावत् शासनम् अकुर्वन् एते । एते २७ राजानः आसन् । "क्षत्रप"शब्दस्य मूलं सत्रपः अथवा पर्षियन्-शब्दः "क्सत्रपवन" इत्येषः । अस्य शब्दस्य अर्थः प्रान्तप्रमुखः अथवा राजप्रतिनिधिः इति ।
क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् गुप्तसाम्राज्यम् भारते । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । भारतीये इतिहासे गुप्तकालः "भारतस्य सुवर्णकालः" इत्येव उल्लिखितः अस्ति । तदवसरे भारते विज्ञानं राजनैतिकव्यवहारः च प्रवृद्धौ । ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् । मध्य-एषियानां हूणानाम् अक्रमणस्य कारणतः गुप्तसम्रज्यस्य नाशः अभवत् । तदनन्तरम् अपि गुप्तानां सोदरसम्बन्धी वंशः कश्चन मगधस्य शासनं करोति स्म ।
श्वेतहूणाः ५ शतकस्य आरम्भे अफघानिस्ताने राज्यस्थापनम् अकुर्वन् । "बामियान्" तेषां राजधानी आसीत् । एतेषाम् आक्रमणस्य कारणतः एव गुप्तसाम्राज्यस्य नाशः अभवत् । तस्मात् उत्तरभारते सुवर्ण-अध्यायस्य आरम्भः अभवत् । किन्तु दख्खणप्रदेशे दक्षिणभारते च तेषाम् आक्रमणस्य कोऽपि प्रभावः न जातः । ६ शतकनन्तरं भारते अवशिष्टाः हूणाः भारतीयेषु एव अन्तर्भूताः अभवन् ।
कळभ्राः बौद्धधर्मीयाः । दक्षिणभारतं शिष्टवान् एकः एव बौद्धराजवंशः कळभ्रवंशः । क्रि श ३ शतकतः ६ शतकपर्यन्तं समग्रं दक्षिणभारतम् एकीकृतवन्तः कळभ्राः । दक्षिणभारते विद्यमानानां पाण्ड्य-चोळ-चेरराज्यानां प्राबल्यं नाशितवन्तः एते ।
इदानीन्तने अफघानिस्ताने, पाकिस्ताने च उद्भूताः संस्कृतयः एताः । अफघानिस्तानस्य उपरि, पाकिस्तानस्य उपरि च काले काले पर्षियन्-जनाः, ग्रीक्-जनाः, मध्य-एषियाजनाः च आक्रमणं कृतवन्तः । तादृशेषु केचन तत्रैव उषितवन्तः । तेषां स्थानीयानां च सम्मेलनेन सम्मिश्रसंस्कृतयः जन्म प्राप्नुवन् । कालान्तरे अफघानिस्तानः पाकिस्तनतः च जनाः कौशेयवाणिज्यस्य व्याजेन भारतं प्रति, विश्वे अन्यत्र च गतवन्तः । ततः एताः संस्कृतयः सर्वत्र प्रसृताः । एतेषां राजानः भारते बौद्धधर्मं, हिन्दुधर्मं च अनुसरन्तः भारतीयसंस्कृतेः उपरि अपि प्रभावं जनितवन्तः ।
एतत् साम्राज्यं वायुव्यभारते उत्तरभारते च प्रसृतम् आसीत् । क्रि पू १८० तः क्रि पू १० पर्यन्तं त्रिंशदधिकाः ग्रीक्-राजानः शासनम् अकुर्वन् । ग्रीको-ब्यास्टियन्-राजा डिमेट्रियस् क्रि पू १८० काले भारतस्य उपरि आक्रमणं कृत्वा साम्राज्यस्थापनम् अकरोत् । तस्य साम्राज्यम् इदानीन्तने उत्तर-अफघानिस्तानप्रदेशे आसीत् ।
एते इण्डो-यूरोपियन्-शकानां गणीयाः । मूलतः सैबीरियाप्रदेशीयाः । सैबीरियातः ब्याक्ट्रियां प्रति, ततः काश्मीरं प्रति, ततः अग्रिमभारतं च प्रविष्टवन्तः । एते इण्डो-ग्रीक्-जनान् भारतः सम्प्रेष्य अत्र शासनम् अकुर्वन् । एतेषां राज्यं गान्धारतः मथुरापर्यन्तं प्रसृतम् आसीत् ।
एतेषां भारतीयं नाम "पल्लवाः" इति । एते क्रि श प्रथमशतके शासनम् अकुर्वन् । एतेषां नायकः गोण्डोफेरिस् । सः इदानीन्तनम् अफघानिस्तानं, पाकिस्तानम्, उत्तरभारतं च शिष्टवान् ।
एते वस्तुतः पर्षियामूलीयाः । भारतस्य उपरि गुप्तसाम्राज्यस्य काले आक्रमणम् अकुर्वन् । अनन्तरम् अत्रैव शासनम् अकुर्वन् । एते पञ्जाबप्रान्तस्य पश्चिमदिशि अवसन् । भारतीयसंस्कृत्याः पर्षियन्-संस्कृत्याः च मेलनेन इण्डो-सस्सानियसंस्कृतेः जन्म अभवत् ।
मध्ययुगस्य अनन्तरम् उत्तरतमिळुनाडुप्रदेशे चोळसाम्राज्यस्य, केरले चेरसाम्राज्यस्य च शासनम् आरब्धम् । दक्षिणभारतस्य नौकास्थानानि हिन्दुमहासागरस्य व्याप्तौ पश्चिमस्य रोमन्-साम्राज्यतः पूर्वस्य आग्नेय-एष्या-पर्यन्तस्य उपस्करवाणिज्यस्य प्रमुखाणि केन्द्राणि अभवन् । उत्तरभारते तु रजपूताः दृढाः जाताः ते भारतेन स्वातन्त्र्यप्राप्तिपर्यन्तम् अपि उत्तरभारते कथञ्चित् शासनम् अकुर्वन् एव । अस्मिन् काले भारते कलाः वर्धिताः । हिन्दु-बौद्ध-जैनधर्माः तदानीन्तनः प्रमुखधर्माः आसन् । उत्तरे हर्षवर्धनस्य द्वितीयशतकस्य आक्रमणस्य कालतः आरभ्य, दक्षिणे विजयनगरसाम्राज्यस्य नाशपर्यन्तम् अयं कालः इति गण्यते ।
गुप्तसाम्राज्यस्य अनन्तरं कनोजस्य हर्षः ७ शतके सम्पूर्णम् उत्तरभारतम् एकत्रीकृतवान् । तस्य मरणानन्तरं तस्य साम्राज्यम् अपि अवनतिं प्राप्नोत् । तदनन्तरं ७ शतकतः ९ शतकपर्यन्तं त्रयः राजवंशाः उत्तरभारतस्य नियन्त्रणार्थं प्रयत्नं, परस्परं युद्धं च अकुर्वन् । ते च मालवस्य प्रतिहाराः,बङ्गालस्य पालाः, दख्खनस्य राष्ट्रकूटाः ।
क्रि श ६ शतके कलिङ्गे अथवा ओरिस्सासमीपस्य प्रदेशेषु शासनं कुर्वत् विष्णुकुण्डसाम्राज्यम् अग्रे चालुक्यानां साम्राज्यस्य कश्चन भागः अभवत् । चालुक्यसाम्राज्यं क्रि श ५५० तः ७५० पर्यन्तं कर्णाटकस्य बादामीतः, अनन्तरं ९७० तः ११९० पर्यन्तं कर्णाटकस्य कल्याणीतः दक्षिणभारतस्य, मध्यभारतस्य शासनम् अकरोत् । काञ्च्यां शासनं कुर्वन्तःपल्लवाः तेषां समकालीनाः आसन् । एकशतकं यावत् एतयोः साम्राज्ययोः मध्ये परस्परं लघु लघु युद्धानि भवन्ति स्म । बहुवारं अन्यस्य साम्राज्यस्य राजधानीं वश्यकुर्वन् । तादृशेषु युद्धेषु केरलस्य चेराः, श्रीलङ्कायाः राजानः च पल्लवानां पक्षे भवन्ति स्म । पाण्ड्याः चालुक्यानां पक्षे युद्धं कुर्वन्ति स्म । दक्षिणभारतस्य शिलामयाः बहवः देवालयाः एतेषां काले एव निर्मिताः । यद्यपि सम्पूर्णभारतस्य एकमेवराज्यस्य परिकल्पना उत्तरभारते हर्षवर्धनस्य पराजयेन सह नष्टा अभवत् तथापि दक्षिणभारते पौनःपुन्येन पल्लविता भवति स्म ।
दक्षिणे ९-१२ शतके महासाम्राज्यम् आसीत् चोळसाम्राज्यम् । पूर्वतनसाम्राज्यानि इव एते अपि भारते प्रख्यातानि स्मारकाणि निर्मितवन्तः । भारतस्य दक्षिणभागस्य अन्तिमभागे एतेषां साम्राज्यम् आसीत् इति कारणतः एते श्रीलङ्कायाः शासनम् अपि अकुर्वन् । आग्नेय-एष्या-संस्कृतिः एतेभ्यः प्रभाविता अभवत् । एतेषां नौसैन्यम् अत्यन्तं बलयुतम् आसीत् इत्यनेन श्रीलङ्कायाः उपरि, बङ्गालकोल्लि-उपरि च नियन्त्रणम् आसीत् एतेषाम् । एतत् साम्राज्यं शिष्टवान् राजराजचोळः भारतस्य सर्वोत्तमेषु सम्राजेषु अन्यतमः इति परिगण्यते ।
प्रतिहाराः ६ शतकतः ११ शतकपर्यन्तम् इदानीन्तनं राजस्थानम्, उत्तरभारतस्य प्रदेशान् च शिष्टवन्तः ।
पालानां साम्राज्यम् इदानीन्तनात् बिहारतः बङ्गालपर्यन्तं विस्तृतम् आसीत् । पालाः ८ शतकतः १२ शतकपर्यन्तं शासनम् अकुर्वन् ।
कार्णाटकस्य "मळखेड"प्रदेशे स्थिताः राष्ट्रकूटाः चालुक्यानाम् अनन्तरं प्रवर्धिताः । ८ शतकतः १० शतकपर्यन्तं दख्खनप्रदेशे शासनम् अकुर्वन् ।

एते त्रयः अपि राजवंशाः उत्तरभारते अधिपत्यार्थं परस्परं युद्धं कुर्वन्ति स्म । तस्मिन् एव काले दक्षिणे चोळसाम्राज्यं बलयुतम् आसीत् । कालान्तरे पालसाम्राज्यं सेनसाम्राज्यस्य भागः अभवत् । प्रतिहारसाम्राज्यं च रजपूतेषु विभक्तम् अभवत् ।

रजपूताः ६ शतके राजस्थाने राज्यस्थापनम् अकुर्वन् । मेवारं (सिसोदिया), गुजरातं (सोलङ्की), मालवं (परमाराः), बुन्देलखण्डं (चाण्डेलाः), हरियाणं (तोमाराः) च योजयित्वा समग्रम् उत्तरभारतं रजपूतानाम् अधीने आसीत् । रजपूतानाम् अपेक्षया पूर्वम् उत्तरभारतं प्रतिहाराणां वशे आसीत् । रजपूतानां राज्यम् उत्तरभारते सीमासमीपे आसीत् इति कारणात् विदेशेभ्यः आक्रमणं कुर्वतां यवनानां सम्मुखीकरणम् अनिवार्यम् आसीत् । रजपूताः तत्र सफलाः अपि अभवन् । चौहाणवंशस्य रजपूतराजा पृथ्वीराजचौहाणः तेषु प्रसिद्धः राजा ।
१२ शतकस्य मध्यभागे कल्याणिचालुक्यानां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं हळेबीडस्य होय्सलेषु, वाहङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् अत्र । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-काकतीयराज्ययोः प्रदेशे विजयनगरसाम्राज्यम् आरब्धम् ।
७ शतकस्य मध्यभागतः ११ शतकस्य आदिभागपर्यन्तं भारते शासनम् अकरोत् शाहिराज्यम् । एतत् राज्यम् इदानीन्तनस्य अफघानिस्तानस्य पूर्वभागे, पकिस्तानस्य उत्तरभागे, काश्मीरे च प्रसृतम् आसीत् । तेषां राज्यस्य कालः बौद्धतुर्कशाहि, हिन्दुशाहि इति द्विधा विभज्यते । एवं परिवर्तनं क्रि श ८७० अवधौ अभवत् । गान्धारस्य अथवा अफघानिस्तानस्य शासनं कृतवत्सु बौद्ध अथवा हिन्दुराजवंशेषु अयमेव अन्तिमः राजवंशः । तदनन्तरम् अयं प्रदेशः घज्नवि तथा अन्यानां सुल्तनानाम् अधीनः जातः ।

(क्रि श १३३६ - १५६५)

विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्क इति सहोदराभ्यां संस्थापितम् । अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम् । विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पे"प्रदेशः । कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत् । यद्यपि १५६५ तमे वर्षे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत् । तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेषियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन् । विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन् । कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः । तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः । कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति । कन्नड-तेलुगु-संस्कृतसाहित्ये अपि तेषां योगदानम् अविस्मरणीयम् । अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः । एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन् । विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः अन्त्यम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः ।
भारतस्य प्रतिवेशिदेशं पर्षियादेशं वशीकृतवन्तः अरब्-तुर्काः सम्पद्भरितं भारतम् अपि वशीकर्तुं योजनाम् अकुर्वन् । तदानीन्तनकाले वज्राणां खनिः केवलं भारते एव आसीत् । उत्तरभारतस्य राजानां विरोधे सति अपि भारते राज्यस्थापने यशस्विनः अभवन् तुर्काः । तुर्काणाम् आगमनात् पूर्वम् एव यवनवणिजः दक्षिणभारतस्य समुद्रतीरप्रदेशेषु तत्रापि केरले आसन् । एवं पश्चिमदिक्तः इस्लांसंस्कृतिः भारतं प्राविशत् ।
१२-१३ शतकयोः अरब्बाः, तुर्काः, आफ्घन्नाः च भारतस्य कतिपयप्रदेशान् आक्रम्य देहल्यां सुल्तानराज्यस्य स्थापनम् अकुर्वन् । कालान्तरे गुलामसाम्राज्यम्, उत्तरभारतस्य बहून् प्रदेशान् वशीकृतवन्तः । अनन्तरं यद्यपि खिल्जिसाम्राज्येण मध्यभारतस्य आक्रमणं कृतं तथापि ते सम्पूर्णस्य उपखण्डस्य वशीकरणे असफलाः अभवन् ।

(क्रि श १५२६ - १७०७)

तैमूरवंशस्थः बाबरः खैबरखातम् अतिक्रम्य आगत्य १५२६तमे वर्षे मोघलसाम्राज्यस्य स्थापनं भारते अकरोत् । अग्रे २०० वर्षाणि यावत् भारते शासनम् अकरोत् एतत् साम्राज्यम् । अस्मिन् कालावधौ भारतस्य सामाजिकजीवने बहूनि परिवर्तनानि अभवन् । हिन्दुभूमेः शासनं कुर्वत्सु तेषु केचन धार्मिकसहिष्णुतां प्रादर्शयन्, केचन हिन्दुसंस्कृतेः प्रोत्साहम् अयच्छन्, अन्ये केचन हिन्दुदेवालयान् अनाशयन्, यवनेतरेभ्यः विशेषकरम् अपि स्वीकृतवन्तः । तावत्पर्यन्तं भारतं शिष्टवत्सु साम्राज्येषु मोघलसाम्राज्यम् एव अत्यन्तं धनिकम् आसीत् । मोघलसाम्राज्यस्य औन्नत्यकाले एतत्साम्राज्यं मौर्यसाम्राज्यस्य अपेक्षया अपि बृहत् आसीत् । १७०७ तमात् वर्षात् अधोगतिं प्राप्नुवत् एतत्साम्राज्यं प्रथमस्वातन्त्र्यसङ्ग्रामकाले (१८५७) सम्पूर्णतया अनश्यत् । तावता तत्र तत्र बहूनि लघु लघु राज्यानि अस्तित्वं प्राप्नुवन् ।
यद्यपि मोघलाः शासनार्थम् अमानुषप्रयत्नान् अकुर्वन् तथापि भारतीयसंस्कृतिम् अपि अङ्गीकृतवन्तः इति कारणात् यशस्विनः अभवन् । एतेषु अक्बरः प्रसिद्धः । मोघलजनाः स्थानीयान् राजपरिवारीयान् ऊढ्वा पुत्रान् अपि प्राप्नुवन् । तदन्तरं शासनरतः औरङ्गजेबः परमहिन्दुद्वेषी आसीत् । तस्मात् कारणात् बहुसंख्याकाणां हिन्दूनां वैरत्वम् अपि प्रप्नोत् ।

अस्मिन् काले मराठाराज्यस्य, अन्येषां प्रान्तीयराज्याणां च उदयः अभवत् । ऐरोप्याणाम् आगमनम् अपि अस्मिन् एव काले सञ्जातम् ।

(१६७४-१७६१)

कर्णाटकस्य बिजापुरस्य सुल्तानस्य राज्यस्य कञ्चित् भागम् आक्रम्य १६७४ तमे वर्षे मराठारज्यस्य आधिपत्यम् अस्थापयत् । दख्खनिप्रदेशम् अपि वशीकृत्य औरङ्गजेबेन सह युद्धम् अकरोत् शिवाजिः । १८ शतकाभ्यन्तरे एतत् साम्राज्यं पेश्वेजनानां शासनान्तर्गतम् आसीत् । १७६० तमे वर्षे भारतस्य बहवः प्रदेशाः अस्य साम्राज्यस्य अन्तर्गताः आसन् । तृतीये पाणिपत्-युद्धे (१७६१) अफघान-अहमद्-शा-अब्दालिः मराठाराजान् पराजितवान् । एतेषां मराठाराजानाम् अन्तिमः राजा द्वितीयः बाजीरायः तृतीये ब्रिटिश्-मराठायुद्धे पराजितः अभवत् ।
ओडेयर्-वंशीयाः १४००तमे वर्षे मैसूरुसंस्थानस्य स्थापनम् अकुर्वन् । हैदरालेः तस्य पुत्रस्य टिप्पुसुल्तानस्य च काले ओडेयर्-शासनस्य भङ्गः जातः । अस्मिन् काले मैसूरुसंस्थानेन बहूनि युद्धानि सम्मुखीकरणीयानि अभवन् । तेषु बहूनि फ्रेञ्चजनानां साहाय्येन ब्रिटिशजनैः सह अभवन् । कदाचित् ब्रिटिश् तथा मराठासैन्येन सह अपि युद्धानि अभवन् । १७९९तमे वर्षे प्रवृत्ते चतुर्थे मैसूरुयुद्धे टिप्पुसुल्तानह् मरणं प्राप्नोत् । तदनन्तरम् ओडेयरवंशीयाः ब्रिटिशजनानाम् अधीनाः सन्तः किञ्चित् प्रमाणेन राज्याधिकारं पुनः प्राप्नुवन् । कालान्तरे मैसूरुसंस्थानं भाषाशः विभागावसरे कन्नडप्रादेशिकप्रदेशेषु लीनं भूत्वा मैसूरुराज्यस्य (इदानीन्तनकर्णाटकम्) भागः अभवत् ।
सिख्-मतस्य दशभिः गुरुभिः संस्थापितम् एतत् राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले काश्मीरं, पेशावरं, हरियाणा, हिमाचलप्रदेशः च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् ।
१७४८ तमे वर्षे अफघानिस्तानस्य नायकः अह्मद् शा दुरानी अस्य साम्राज्यस्य स्थापनम् अकरोत् । तदवसरे सः हिन्दूनां विरुद्धं "जिहाद्"युद्धं घोषयित्वा सिन्धुनद्याः क्रमणम् अकरोत् । सः प्रथमं भारतस्य गुरिलाहोरस्य (इदानीन्तनपाकिस्तानस्य भागः) उपरि १७५० तमे वर्षे आक्रमणम् अकरोत् । अनन्तरं पञ्जाब्-प्रान्तं, काश्मीरं, देहलीं च वशीकृतवान् । भारततः तदा एव बहूनि अत्यमूल्यानि वस्तूनि स्वदेशम् अनयत् सः । तेषु "कोहिनूर् वज्रम्" अपि अन्तर्भूतम् ।
पूर्वं मौर्यसाम्राज्यस्य भागः यः आसीत् तं नेपालप्रदेशं १८ शतके गूर्खाः कट्मण्डुखातद्वारा प्रविष्टवन्तः । किञ्चित् कालं यावत् शासनं कृत्वा अन्ते ब्रिटिशानां काले तैः सह स्वराज्यम् अयोजयन् ।
अस्मिन् काले एष्या, आफ्रिका, दक्षिण-अमेरिका इव भारतम् अपि विस्तारिकाणां शक्तीनां लक्ष्यम् अभवत् । बहूनां विस्तारिकशक्तीनां शासनस्य अनन्तरम् अन्ते ब्रिटिश्-जनानां शासनम् आरब्धं भारते । अयं स्तरः आधुनिकयुगस्य कश्चन प्रमुखः स्तरः । अनन्तरं भारते स्वातन्त्र्यार्थम् आन्दोलनम् आरब्धम् । प्रथमस्वातन्त्र्यान्दोलनतः आरभ्य आरब्धम् आन्दोलनम् अग्रे महात्मा गान्धेः नायकत्वे प्राचलत् ।

कम्पनिशासनम्

सम्पादयतु
१४६८तमे वर्षे वास्कोडगामः भारतं प्रति आगमनाय नूतनं जलमार्गम् अन्विष्टवान् । तदनन्तरम् ऐरोप्यदेशेभ्यः बहवः आगत्य भारते विस्तरणम् आरब्धवन्तः । पोर्चुगीसाः गोवायां, दमन्प्रदेशे, दियुप्रदेशे, मुम्बय्यां च विस्तरणम् आरब्धवन्तः । ब्रिटिशाः १६१९ तमे वर्षे दक्षिण-एष्यामध्ये प्रथमं विस्तरणम् आरब्धवन्तः वायुव्यनौकास्थाने सूरत्-नगरे । अनन्तरं ते मद्रास् मुम्बई, कल्कत्ता इत्यादिषु नगरेषु प्रन्तीयाणां राज्यानां साहाय्येन विस्तरणम् आरब्धवन्तः ।
१७ शतके दक्षिणभारते बहुत्र फ्रेञ्चजनानां विस्तरणानि आसन् । अनन्तरं ब्रिटिशैः सह निरन्तरं जातानां युद्धानां कारणतः बहूनि विस्तरणानि फ्रेञ्चजनानां हस्तच्युतानि अभवन् । किन्तु पाण्डिचेर्याः, चन्द्रनगरस्य च रक्षणे सफलाः अभवन् ।
डच्चाः भारते तावता प्रमाणेन विस्तरणानि न आरब्धवन्तः । तथापि तिरुवाङ्कूरु परितः प्रदेशान् शिष्टवन्तः । तेषां लक्ष्यं श्रीलङ्का इण्डोनेष्या च आस्ताम् ।

ब्रिटन्देशस्य आधीन्ये

सम्पादयतु
१७५७ तमे वर्षे राबर्ट् क्लैवस्य नायकत्वे ब्रिटिश् ईस्ट् इण्डिया कम्पनी प्लासीयुद्धे बङ्गालस्य नवाबं सिराज् उद् दौलं पराजितवान् । ततः बङ्गालं वशीकृतवान् च । १८५० तमवर्षावसरे भारतस्य बहून् भागान् वश्यकरोत् ईस्ट् इण्डिया कम्पनी । १८५७ तमे वर्षे सैनिकानां नायकत्वे आरब्धस्य भारतस्य प्रथमस्य स्वातन्त्र्य-आन्दोलनस्य शमने सफलाः अभवन् । तदनन्तरं भारतस्य शासनं ब्रिटिश् - राजगृहस्य आधीन्यम् अभवत् । तदनन्तरं ते भारतस्य अवशिष्टान् भागान् अपि स्थानीयानां राजानां द्वारा नियन्त्रणे स्थापितवन्तः ।

स्वातन्त्रान्दोलनम्

सम्पादयतु
१९ शतकस्य अन्तिमभागे भारते स्वराज्यकल्पना जागरिता अभवत् । १९२० तमवर्षानन्तरं महात्मा गान्धिः, सुभाषचन्द्रबोसः च राष्ट्रिय-काङ्ग्रेस-पक्षं ब्रिटिशविस्तरणस्य विरुद्धं जनान्दोलनत्वेन परिवर्तितवन्तौ । तस्य परिणामरूपेण १९४७तमे वर्षे भारतं स्वतन्त्रम् अभवत् । तदवसरे जात्यातीतस्य भारतस्य, इस्लामीयस्य पाकिस्तानस्य च उदयः अभवत् । तत्समये पञ्जाब्, बङ्गालं, देहली इत्यादिषु नगरेषु च सिख्-हिन्दु-मुस्लिम्-जनानां मध्ये सञ्जातस्य कोलाहलस्य कारणतः लक्षद्वयापेक्षया अधिकाः मरणं प्राप्नुवन् । एककोटितः अपि अधिकाः हिन्दवः यवनाः च स्वगृहं ग्रामं वा परित्यज्य अन्यदेशं प्रति गताः ।
स्वातन्त्र्यस्य प्राप्त्यनन्तरम् अपि भारतेन बहुवारं युद्धं करणीयम् अभवत् परितः विद्यमानैः देशैः सह । तादृशेषु युद्धेषु प्रमुखाणि ४ भारत-पाकिस्तानयुद्धानि, भारत-चीनायुद्धानि च । १९७४तमे वर्षे अणुसाधनं स्फोटयित्वा, १९९८तमे वर्षे सरणिपरीक्षाः च कृत्वा भारतम् अणुघोषितराष्ट्राणाम् आवल्याम् अन्तर्भूतम् । ब्रिटिशैः त्यक्त्वा गतात् समाजवादात् प्रेरितं भारतं मन्दगत्या प्रगतिदिशि गच्छति स्म । १९९० दशकानन्तरं भारतस्य आर्थिकप्रगतिः महाता प्रमाणेन अभवत् । इदानीं भारतं विश्वे एव महाशक्तिरूपेण प्रवर्धमानम् अस्ति । अर्थशास्त्रज्ञानाम् अनुसारं २०२०तमवर्षाभ्यन्तरे भारतं विश्वस्य तिसृषु महतीषु आर्थिकशक्तीषु एकं भविष्यति ।

वंशावली

सम्पादयतु

सम्बद्धजना:

सम्पादयतु

१७०० तमे

सम्पादयतु

१८०० तमे

सम्पादयतु

१९०० तमे

सम्पादयतु


"https://sa.wikipedia.org/w/index.php?title=भारतस्य_इतिहासः&oldid=459138" इत्यस्माद् प्रतिप्राप्तम्