(कालः - ०७. ०८. १९२५)

M. S. Swaminathan
Dr. Swaminathan at the 100th Indian Science Congress, Kolkata.
जननम् (१९२५-२-२) ७ १९२५ (आयुः ९९)
Kumbakonam, Madras Presidency, British India (present-day Tamil Nadu, India)
वासस्थानम् Chennai, Tamil Nadu
देशीयता India
कार्यक्षेत्राणि Agricultural science
संस्थाः MS Swaminathan Research Foundation
मातृसंस्थाः Maharajas College
Tamil Nadu Agricultural University
University of Cambridge
University of Wisconsin-Madison
विषयेषु प्रसिद्धः High-yielding varieties of wheat in India
प्रभावः Dr. Norman Borlaug
प्रमुखाः प्रशस्तयः फलकम्:No wrap
धर्मः Hindu


अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) "हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के भारतदेशस्य तमिऴ्‌नाडुराज्यस्य कुम्भकोणम् इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः “आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्” इति निश्चितवान् । कोयम्बत्तूर्-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य देहल्याः कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य हालेण्ड्देशम् अगच्छत् ।


अयम् एम्. एस्. स्वामिनाथन् १९५२ तमे वर्षे इङ्ग्लेण्ड्देशस्य "केम्ब्रिड्ज"–विश्वविद्यालयतः "डाक्टरेट्” पदवीं प्राप्नोत् । तदनन्तरं वर्षं यावत् अमेरिकादेशस्य विस्कान्सिस्–विश्वविद्यालये संशोधनम् अकरोत् । १९५४ तमे वर्षे पुनः भारतदेशं प्रत्यागत्य कट्क्–संशोधनसंस्थायां तण्डुलवंशस्य अभिवृद्धेः विधानानां विषये अध्ययनम् अकरोत् । तदनन्तरं २० वर्षाणि यावत् भारतीयकृषिसंशोधनसंस्थायाम् (इण्डियन् अग्रिकल्चरल् रिसर्च् इन्स्टिट्यूट्) बहूनाम् आहारधान्यानां विषये संशोधनम् अकरोत् । ५० तमे दशके यदा भारतदेशः आहारसमस्यां सम्मुखीकरोति स्म तदा अमेरिकादेशस्य "नोबेल्”–पुरस्कारं प्राप्तवतः कृषिविज्ञानिनः नार्मल् बोग्लारस्य मार्गदर्शने "मेक्सिकन् ड्वार्फ" नामकस्य गोधूमवंशस्य भारतस्य वातावरणस्य अनुगुणम् अभिवृद्धिं कृतवान् । दशकाभ्यन्तरे एव गोधूमस्य वर्धनं द्विगुणितं जातम् । अधिकस्य फलोत्पत्तेः गोध्मस्य, तण्डुलस्य, शणस्य, आलुकस्य च मिश्रवंशस्य अभिवृद्धिम् अपि अकरोत् । तस्मात् कारणात् एव अयम् एम्. एस्. स्वामिनाथन् "हरितक्रान्तेः” प्रवर्तकः इति प्रसिद्धः अभवत् ।


अयम् एम्. एस्. स्वामिनाथन् ’आहारोत्पादने भारतं परिपूर्णताम् आप्नोति’ इति यत् प्रतिपादितवान् तदर्थं १९७१ तमे वर्षे 'रेमान् म्याग्सेसे’–पुरस्कारं प्राप्नोत् । १९७३ तमे वर्षे इङ्ग्लेण्डदेशस्य रायल्-सोसैटि अपि एतं फेलोरूपेण अचिनोत् । एषः ’एस्. एस्. भाट्नागर्’–प्रशस्तिं, ’बीरबल साहनी’–प्रशस्तिं, 'मेण्डेल् स्मारक'–प्रशस्तिं चापि प्राप्तवान् अस्ति । १९८६ तमे वर्षे प्रथमवारं अयं कृषिविज्ञानी 'अल्बर्ट् ऐन्स्टैन् वर्ल्ड् सैन्स्’–प्रशस्तिम् अपि प्राप्नोत् । विश्वस्य प्रतिष्ठिताः सङ्घसंस्थाः अपि 'परिसर-कृषि–आर्थिकविभागेषु मेधावी’ इति एतम् एम्. एस्. स्वामिनाथनं श्लाघितवत्यः सन्ति । प्रपञ्चस्य ४३ विश्वविद्यालयाः अस्मै 'गौरव–डाक्टरेट्’ पदवीं दत्त्वा सम्मानितवन्तः सन्ति । अयम् एम्. एस्. स्वामिनाथन् १९८० तमे वर्षे संयुक्तराष्ट्रसंस्थायाः (UNO) 'विज्ञानसूचनासमितेः (Science Advisory Committee) सदस्यः अपि अभवत् । एफ्. ए. ओ. कौन्सिलस्य स्वतन्त्रः अध्यक्षः अपि अभवत् ।

"बुभुक्षायाः कारणं निर्धत्वनं न तु आहारस्य अभावः” इति स्पष्टं मतम् आसीत् अस्य एम्. एस्. स्वामिनाथनस्य । "विद्युत्–ग्रिड् इव दक्षिणभारतस्य नदीनाम् अपि योजनकार्यं (ग्रिड्-स्थापनम्) भवेत् इति आग्रहम् अपि कृतवान् आसीत् । अत्यन्तं न्यूनप्रमाणेन रासायनिकानाम् उपयोगः करणीयः । जैविकं नियन्त्रणं साधनीयम् । कीटानां कुतृणानां च नाशनार्थं लशुनस्य वा निम्बस्य वा उपयोगः करणीयः । कृषियोग्या भूमिः कदापि भवनानां निर्माणार्थं, नगराणां निर्माणार्थं वा न उपयोक्तव्या । जलसम्पत्तेः अवैज्ञानिकेन उपयोगेन अस्माकं पूर्णं सामर्थ्यं प्रकट्यमानं नास्ति । सर्वकारः सदा अपि कृषिकाणां समर्थनं, प्रोत्साहनं च कुर्यात्” इति अयम् एम्. एस्. स्वामिनाथन् सर्वदा वदति । सः यथा उत्तमः कृषिविज्ञानी तथैव उत्तमः शासकः अपि । सः भारते अत्यद्भुताः उपयोगयोग्याः योजनाः आरब्धवान् अपि ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=एम्_एस्_स्वामिनाथन्&oldid=485805" इत्यस्माद् प्रतिप्राप्तम्