कमल बसदी कर्णाटकस्य बेल्गाम्-नगरे बेल्गाम् दुर्गस्य अन्तः स्थितमेकं जैनमन्दिरमस्ति।[]

कमलबसदी
Kamal Basadi
Kamal Basadi
Basic information
Location Belgaum, Karnataka
Geographic coordinates १५°५१′२९″ उत्तरदिक् ७४°३१′१७″ पूर्वदिक् / 15.85806°उत्तरदिक् 74.52139°पूर्वदिक् / १५.८५८०६; ७४.५२१३९निर्देशाङ्कः : १५°५१′२९″ उत्तरदिक् ७४°३१′१७″ पूर्वदिक् / 15.85806°उत्तरदिक् 74.52139°पूर्वदिक् / १५.८५८०६; ७४.५२१३९
Affiliation Jainism
Deity Neminatha
Sect Digambar
Festivals Mahavir Jayanti
Country भारतम्
Governing body Shree Shree 1008 Neminath Tirthankar Digambar Jain Mandir Pooja Committee
वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [
Architectural style Western Chalukya architecture
Creator Birchiraja
Date established 1204 CE
वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [
Temple(s) 3

इतिहासः

सम्पादयतु

कमल बसदी इत्यत्र बिरचि इति रट्टा-वंशस्य प्रसिद्धः राजपुरुषः आसीत् ,जयराय इति तस्य नामन्तरं प्रसिद्धमस्ति। तेन प्रसिद्धमन्दिरमिदं निर्मितम्। १२०४ तमे वर्षे जैनभिक्षोः सुभचन्द्रभट्टरकदेवस्य मार्गदर्शने निरमीयत।

[][][] अधुना मुम्बै-नगरस्य रायल्-एशियाटिक्-सोसैटि इत्यत्र स्थापित प्राचीनशिलालिप्यानुसारेण वास्तुकारः कर्तविर्यदेवः तथा युवराजकुमारः मल्लिकार्जुनदेवः च अस्य मन्दिरस्य निर्माणं कृतवन्तः।[][]

वास्तुकला

सम्पादयतु
 
छद्

कमल बसदी इति नाम मध्यच्छदस्य विस्तृतकमल-उत्कीर्णनानां नामात् निष्पन्नम् अस्ति। [][][] कमलस्य 72 पत्राणि सन्ति यानि अतीतस्य, वर्तमानस्य, भविष्यस्य च 24 तीर्थङ्करान् निरूपयन्ति इति मन्यते। मन्दिरस्य भित्तयः जटिलविन्यासैः, सीमाभिः, शिल्पैः च उत्कीर्णानि सन्ति। [] मन्दिरस्य भित्तौ स्तम्भैः आधारितः अस्ति, यत्र प्रत्येकस्य कोष्ठकस्य अन्ते नागस्य उत्कीर्णनम् अस्ति। स्थम्भाधारित भित्तयः सन्ति, तेषामुपरि सर्पाकृतयः निर्मितानि सन्ति। [] एतेषां प्रकोष्ठानां मध्ये तीर्थङ्कराणां विग्रहानि सन्ति। अत्र आहत्य पञ्च लघुकोशाः सन्ति, तत्रापि तीर्थङ्कराणां विग्रहानि सन्ति । गर्भगृहस्य अन्तः स्थिताः स्तम्भाः वर्गाकाररुपेण स्थिताः। द्वारस्य प्रत्येकपार्श्वे, भित्तौ जैनदेवतानां उत्कीर्णानि सन्ति। []

मन्दिरस्य मुखमण्डपः वास्तुकलायाः उत्कृष्टकृतिः इति मन्यते। मध्यमन्दिरस्य उपरिभागे एकः पेण्डण्ट् अस्ति तथा स्तम्भयोः प्रत्येककोणे अष्ट-मकर-कोष्ठकाः अष्टदिक्पालशिल्पाः सन्ति। गुम्बजे, अष्टकोणीयभागे पद्मासने उपविष्टानां तीर्थङ्करानां उत्कीर्णानि सन्ति।[] मन्दिरस्य मूलनायकनेमिनाथमहोदयस्य मूर्तिः कृष्णवर्णीय शिल्पस्योपरिअस्ति।[१०] मन्दिरे पद्मासनेस्थित ऋषभनाथ, कायोत्सर्गेस्थित सुमतिनाथ, सप्तमुखयुक्ते पार्श्वनाथस्य च विग्रहाणि सन्ति। अस्मिन् मन्दिरे नवग्रहप्रतिमा अपि अस्ति, यस्य प्रतिनिधित्वं नव तीर्थङ्करैः कृतम् अस्ति।[] अन्तः-सभामण्डपस्य द्वारं, मन्दिरस्य मूल-बाह्यद्वारं, समृद्धतया उत्कीर्णम् अस्ति, उपविष्टजीना जनानां प्रतिमा वर्तते।[]

चिक्की-बसदी, पुरोहितगृहं च कमला-बसदी समीपे स्थितम् अस्ति। [११]

चित्रशाला

सम्पादयतु

सन्दर्भः

सम्पादयतु

उद्धरणानि

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=कमलबसदी_(जैनमन्दिरम्)&oldid=490832" इत्यस्माद् प्रतिप्राप्तम्