सुमतिनाथः( /ˈsʊmətɪnɑːθəhə/) (हिन्दी: सुमतिनाथ,आङ्ग्ल: Sumatinatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु पञ्चमतीर्थङ्करः अस्ति । सुमतिनाथस्य वर्णः सुवर्णः, चिह्नं क्रौञ्चः च अस्ति । कौमारावस्थायां सुमतिनाथस्य शरीरस्य औन्नत्यं त्रिशत (३००) धनुर्मात्रात्मकम् आसीत् ।

सुमतिनाथः
पञ्चमः जैनतीर्थङ्करः
Sumatinath.jpg
सुमतिनाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः १ × १०२२२ वर्षाणि पूर्वम्
परिवारः
पिता मेघः
माता मंगला
वंशः इक्ष्वाकुः
स्थानम्
जन्म अयोध्या
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्हम् क्रौञ्चः
औन्नत्यम् ३०० धनुर्मात्रात्मकम् (९०० मीटर्)
आयुः ४०,००,००० पूर्वम् (२८२.२४ × १०१८ वर्षाणि)
शासकदेवः
यक्षः तुम्बरु
यक्षिणी महाकाली
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

जन्म, परिवारश्चसम्पाद्यताम्

अयोध्यानगर्यां वैशाख-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ मध्यरात्रौ मघानक्षत्रे भगवतः सुमतिनाथस्य जन्म अभवत् [१]। सः काश्यपगोत्रीयः आसीत् ।

सुमतिनाथस्य पिता मेघः, माता मङ्गलावती च आसीत् । एकस्यां रात्रौ मङ्गलावत्या तीर्थङ्करसंकेतकाः चतुर्दश स्वप्नाः दृष्टाः । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः उक्तः यत् – “मङ्गलावत्याः कुक्ष्याः एकस्य तीर्थङ्करस्य जन्म भविष्यति” इति । स्वप्नशास्त्रिणां वचनं श्रुत्वा सर्वे प्रसन्नाः अभवन् ।

गर्भकालस्य समाप्त्यनन्तरं भगवतः सुमतिनाथस्य जन्म अभवत् । चतुष्षष्टिः इन्द्राः अपि जन्मोत्सवम् आचरितुं समागताः आसन् । राज्ञा मेघेन सम्पूर्णे राज्ये दानं कृतम् । सम्पूर्णे राज्ये पुत्रजन्मनः उत्सवः आचरितः आसीत् ।

पूर्वजन्मसम्पाद्यताम्

पूर्वजन्मनि जम्बूद्वीपस्य पुष्कलावतीविजये भगवतः सुमतिनाथस्य जन्म अभवत् । तस्य पिता राजा विजयसेनः, माता सुदर्शना च आसीत् । राज्ञः विजयसेनस्य गृहे सन्ततिः नासीत् । तेन राज्ञी सुदर्शना चिन्ताग्रस्ता आसीत् ।

एकदा तौ अटितुम् उपवनं गतवन्तौ आस्ताम् । उपवने ताभ्याम् एका स्त्री दृष्टा । तस्याः स्त्रियः अष्टपुत्रवध्वः आसन् । तद्द्रष्ट्वा सुदर्शना पुनः विषादग्रस्ता जाता । सा राजप्रासादं प्राप्य क्रन्दन्ती आसीत् । राज्ञा तस्याः दुःखस्य कारणं ज्ञातम् । अनन्तरं राज्ञा कुलदेव्याः प्रसन्नतायै अठ्ठम-तपः कृतः ।

तपस्यया कुलदेवी प्रसन्ना जाता । राजा संतानोत्पत्तिविषयिकीं समस्यां कुलदेव्यै उक्तवान् । तदा देव्या उक्तं यत् – “स्वर्गलोकात् एकः देवः अवतरिष्यति । सः एव पुत्रत्वेन सुदर्शनायाः कुक्ष्याः गर्भं प्रवेक्ष्यति । इमं सुसन्देशं श्रुत्वा राज्ञी सुदर्शना प्रफुल्लिता अभवत् । सः पुत्रप्राप्तये प्रतीक्षां कुर्वती आसीत् ।

समयान्तरे राज्ञ्या गर्भः धृतः । नवमासानन्तरं राज्ञी एकं पुत्ररत्नम् अजीजनत् । सः पुत्रः रूपवान् आसीत् । राज्ञा तस्य नाम पुरुषसिंहः इति कृतम् । पुत्रस्य पालनं श्रेष्ठतया अभवत्[२]

एकदा पुरुषसिंहः अटितुम् उद्यानं गतः । उद्याने विजयनन्दनाचार्येण सह पुरुषसिंहस्य मेलनं जातम् । विजयनन्दनाचार्यस्य प्रवचनं श्रुत्वा पुरुषसिंहः विरक्तः अभवत् । अतः पुरुषसिंहः युवावस्थायाम् एव दीक्षां प्रापत् । अनन्तरं तेन अणगारमुनिः इति नाम परिवर्तितम् । सः उत्कृष्टः तपः, ध्यानं च कृतवान् । अन्ते सः स्वर्गलोकं गतः ।

नामकरणम्सम्पाद्यताम्

नामकरणस्य दिने राज्ञा मेघेन भव्यायोजनं कृतम् आसीत् । तस्मिन् उत्सवे नगरस्य सर्वेषां वर्गाणां जनाः समुपस्थिताः आसन् । नामविषयिक्यां चर्चायां विभिन्नमतानि प्राप्तानि । राज्ञा मेघेन उक्तं यत् – “ यदा अयं बालकः गर्भे आसीत्, तदा राज्ञ्याः मङ्गलावत्याः बौद्धिकक्षमतायां वृद्धिः अभवत् । मङ्गलावती समस्यानां समाधानं सुष्ठुतया, स्पष्टतया च कुर्वती आसीत् । राजकीयविषयेषु अपि सा निपुणा जाता ।

अस्मिन् सन्दर्भे राज्ञा एका घटना श्राविता यत् – “केभ्यश्चित् मासेभ्यः पूर्वम् एकः विवादः समुपस्थितः । किन्तु अहं तस्य निर्णयं कर्तुम् असमर्थः आसम् । एकस्य सज्जनस्य पत्नीद्वयम् आसीत् । एकस्याः पत्न्याः एकः पुत्रः आसीत् । अपरायाः सन्ततिः एव नासीत् । किन्तु द्वयोः पत्न्योः परस्परं स्नेहः आसीत् । अतः द्वे पुत्रस्य पालनं कुरुतः स्म । एकस्मिन् दिवसे सज्जनस्य अवसानम् अभवत् । पत्युः अवसानानन्तरं सम्पत्तेः अधिकाराय द्वे पत्न्यौ कलहं कुर्वत्यौ आस्ताम् । निर्दोषः बालकः अपि द्वे माता इति सम्बोधयति स्म । “का तस्य बालकस्य जन्मदात्री अस्ति” इति निर्णयः दुष्करः आसीत् ।

कस्मिंश्चित् अज्ञातप्रदेशे तस्य बालकस्य जन्म अभवत् । अतः तस्य विषये नगरजनाः अपि न जानन्ति स्म । सत्यं ज्ञातुं मया महत्प्रयासाः कृताः । किन्तु अहं निष्फलो अभवम् । एतस्मात् कारणात् तस्मिन् दिवसे अहं भोजनं कर्तुम् अपि विलम्बेन गतवान् । तदा मङ्गलावत्या मत् विवादनिर्णयस्य अधिकारः याचितः । मया मङ्गलावत्यै निर्णयाधिकारः प्रदत्तः ।

राज्ञ्या मङ्गलावत्या विवादस्य एकः उपायः निष्कासितः । तया द्वे स्त्रियौ उक्ते – “बालकः एकः एव किन्तु भवत्यौ द्वे स्तः । अतः अहम् अस्य बालकस्य द्वौ भागौ कृत्वा भवतीभ्यां दास्यामि । अनेन निर्णयेन एकया स्त्रिया तत्निर्णयः स्वीकृतः । यतः तस्य मनसि बालकस्य मृत्योः चिन्ता एव नासीत् । किन्तु या जन्मदात्री आसीत्, तया तन्निर्णयः नाङ्गीकृतः । तदा मङ्गलावत्या निर्णयः कृतः यत् – बालकः अस्याः एव अस्ति या अङ्गीकर्तुं नेच्छति । इयमेव जन्मदात्री अस्ति । यतः माता स्वस्य पुत्रं मृतत्वेन दृष्टुं न शक्नोति” [३]

यदा मया (राजा मेघः) अयं निर्णयः श्रुतः, तदा मङ्गलावत्याः कुशलतायाः अहं चकितो अभवम् । अतः मया ज्ञातं यत् – अयं गर्भस्थस्य शिशोः एव प्रभावः वर्तते”।

अन्ते राज्ञा मेघेन बालकस्य सुमतिकुमारः इति नाम विचारितम् । सर्वे जनाः अपि अनेन नाम्ना सन्तुष्टाः आसन् ।

विवाहःसम्पाद्यताम्

यदा सुमतिकुमारः विवाहावस्थायां प्राविशत्, तदा राजा मेघः अनेकाभिः सुकन्याभिः सह तस्य विवाहं कारितवान् । भोगावलिकर्मणाम् आरम्भात् एव सुमतिकुमारः पञ्चेन्द्रियसुखानाम् उपभोगं कुर्वन् आसीत् । राज्ञा मेघेन सुसमयं निश्चित्य राजकुमारस्य सुमतेः राज्याभिषेकः कृतः आसीत् । ततः परं सः निवृत्तिं सम्प्राप्य साधनायै निर्गतवान् आसीत् [४]

राज्यम्सम्पाद्यताम्

सुमतिकुमारः राज्यस्य उचितं सञ्चालनं कुर्वन् आसीत् । प्रजाजनानां मनसि राज्ञे आस्था आसीत् । जनाः सुमतिकुमारस्य प्रत्येकम् आदेशं स्वीकुर्वन्ति स्म । शासनव्यवस्था अपि सुष्ठुतया चलन्ती आसीत् ।

भोगावलीकर्माणि क्षीणानि जातानि । अनन्तरं लोकान्तिकदेवाः आगताः । देवानाम् अवबोधनेन राज्ञा सुमतिनाथेन वार्षिकीदानस्य प्रारम्भः कृतः । सः एकवर्षं यावत् दानं कृतवान् । सः जनेभ्यः सन्तुष्टिपूर्वकं दानं करोति स्म । वार्षिकीदानानन्तरं सुमतिनाथेन दीक्षायै राज्यं त्यक्तम् ।

राजत्यागः, दीक्षा चसम्पाद्यताम्

भगवता अयोध्या-नगर्यां वैशाख-मासस्य शुक्लपक्षस्य नवम्यां तिथौ मघा-नक्षत्रे सहस्त्रजनैः सह दीक्षा अङ्गीकृता । आगामिदिने विजयपुरस्य राज्ञः पद्मनः गृहे भगवता सुमतिनाथेन प्रथमं भोजनं गृहीतम् आसीत् [५]। सुमतिनाथः सर्वं त्यक्त्वा वैराग्यं प्रापत् ।

विंशतिवर्षाणि यावत् भगवान् सुमतिनाथः छद्मस्थकाले उत्कृष्टसाधनां कुर्वन् विचरति स्म । सः विचरणं कृत्वा पुनः अयोध्यानगरीम् अप्रापत् । चैत्र-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ मघा-नक्षत्रे भगवान् सुमतिनाथः केवलज्ञानं प्राप्तवान् । तस्मिन् दिने लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समुपस्थिताः अभवन् । भगवता तीर्थस्य स्थापना अपि कृता । जनैः अपि शक्त्यनुसारं व्रतोपवासाः अङ्गीकृताः ।

धार्मिकः परिवारःसम्पाद्यताम्

यदा भगवान् सुमतिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा सुमतिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[६]

  1. १०० गणधराः
  2. १३,००० केवलज्ञानिनः
  3. १०,४५० मनःपर्यवज्ञानिनः
  4. ११,००० अवधिज्ञानिनः
  5. १८,४०० अवैक्रियलब्धिधारिणः
  6. २,४०० चतुर्दशपूर्विणः
  7. १०,४५० चर्चावादिनः
  8. ३,२०,००० साधवः
  9. ५,३०,००० साध्व्यः
  10. २,८१,००० श्रावकाः
  11. ५,१६,००० श्राविकाः

निर्वाणम्सम्पाद्यताम्

यदा भगवता सुमतिनाथेन निर्वाणसमयः ज्ञातः, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं सः सिद्धत्वं प्रापत् ।

चैत्र-मासस्य शुक्लपक्षस्य नवम्यां तिथौ पुनर्वसु-नक्षत्रे सम्मेदशिखरे भगवतः सुमतिनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [७]

सुमतिनाथेन कौमारावस्थायां दशलक्षवर्षाणां, राज्ये एकोनत्रिंशल्लक्षवर्षाणां, दीक्षायां द्वादशपूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने चत्वारिंशल्लक्षवर्षाणि भुक्तानि आसन् [८]

जैनतीर्थङ्कराः
  पूर्वतनः
अभिनन्दननाथः
सुमतिनाथः अग्रिमः
पद्मप्रभुः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 65
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 64
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 65
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 67
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 68
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 68
  7. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 58
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 59

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=सुमतिनाथः&oldid=321862" इत्यस्माद् प्रतिप्राप्तम्