कर्णाटके ज्ञानपीठप्रशस्तिभाजः

कर्णाटके ज्ञानपीठप्रशस्तिभाजः
मास्ति वेङ्कटेश ऐय्यङ्गार्यः चित्रम्
मास्ति वेङ्कटेश ऐय्यङ्गार्यः चित्रम्

भारतीयज्ञानपीठन्यासः सम्पादयतु

एषा ज्ञानपीठप्रशस्तिः भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकायाः प्रकाशकैः साहुजैनपरिवारीयैः ‘भारतीयज्ञानपीठ’नामकः न्यासः प्रतिष्ठापितः । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्तिः । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति ।

साहुशान्तिप्रसादजैनः सम्पादयतु

साहुशान्तिप्रसादजैनवर्यः १९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भिः सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्तिः प्रदातव्या, तदर्थं कश्चन न्यासः प्रतिष्ठापनीयः इति । ततः १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यासः प्रतिष्ठापितः जातः । शान्तिप्रसादजैनवर्यः अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्यः दिवं गतः । १९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् ।

कन्नडसारस्वताः ज्ञानपीठिनः सम्पादयतु

कर्णाटकं दक्षिणभारते सहित्यसृद्धं राज्यम् अस्ति । अत्र निरन्तरं प्रादेशिकभाषासरस्वत्याः सेवां कुर्वाणाः सहस्राधिकाः सन्ति । प्रतिदिनं शताधिकाः ग्रन्थाः लोकर्पिताः भवन्ति । राज्ये बहुत्र काव्यसाहित्यसम्बधाः कार्यक्रमाः प्रचलन्त भवन्ति । कन्नडभाषायाः साहित्यसेवारताः अपि एताम् उन्नतां प्रशस्तिभाजनम् अभवन् । भाषायाः अस्याः विविधप्रकारस्य लेखकाः कवयः च अनया प्रशस्त्या भूषिताः अभवन् । एतावति काले अष्ट साहित्यकाराः ज्ञानपीठप्रशस्तिं प्राप्तवन्तः । साहित्यक्षेत्रे सर्वतः अग्रे विराजते कर्णाटकराज्यम् । साहित्यक्षेत्रार्थं भारते दीयमाना परमोच्चा प्रशस्तिः अष्ट जनैः कर्णाटकीयैः प्राप्ता अस्ति इत्यत्र आश्चर्यं किमपि नास्ति। ते च अष्ट -

१. कुवेम्पु
२. द.रा.बेन्द्रे
३. मास्ति वेङ्कटेश ऐय्यङ्गार्यः
४. वि.कृ.गोकाकः
५. शिवराम कारन्तः
६. यु.आर्.अनन्तमूर्तिः
७. गिरीशकार्नाडः
८. डा.चन्द्रशेखरकम्बारः