कवलेदुर्गः , तीर्थहल्ली मण्डले हरितहरिद्रायुक्तं मनोहरं स्थानम् इदम् । तीर्थहल्लीतः १८ कि.मी . मी, शिवमोग्गामण्डलात् प्रायः ८० कि.मी . दूरम् । तीर्थहल्ली - सालूर् मार्गे घनारण्ये सह्याद्रिश्रृङ्खलात् गामनवेलाया एषः दुर्गः लभ्यते। पौराणिक-ऐतिहासिक-महत्त्वस्य प्राकृतिकसौन्दर्यस्थानम् इदम् । एषः ९ शताब्द्याः दुर्गः अस्ति । केळदि राज्यस्य चतुर्थः तथा अन्तिमः च राजधानी इति कथ्यते । केळदिराज्यस्य अनेकैतिहासिकाख्यायिकानां, तत्कालीनस्य वास्तुकला-कला-संस्कृतेः च साक्षीरूपेण अयं दुर्गः अद्यापि तिष्ठति ।

महाद्वारम्, नवमशताब्दे निर्मितम्
दुर्गे विद्यमान शिखरेश्वरमन्दिरस्य महाद्वारम्

ऐतिह्यम्

सम्पादयतु

कवलेदुर्गः इति पदम् कवलु दुर्गः इति पदस्य अपभ्रम्शशब्दः। कर्णाटकराज्यस्य इतिहासे नागरखण्डबनवासी मण्डलम् इत्येव प्रख्यातः मलेनाडु प्रदेशस्य कवलेदुर्गः तावत् ऐतिकासिकस्थानमस्ति । मल्लव राज्ञाम् पालितप्रदेशेषु लवलेदुर्गः, भुवनगिरिदुर्गसंस्थानम् इति नामकरणात् पूर्वम् एव एकं युद्धमभवत् । मल्लवाः तावत् सागरमण्डलस्य समीपे विद्यमान केळदि इत्यत्र राज्यं संस्थाप्य इक्केरि , बिदनूरु नगरे दुर्गं निर्मीय राज्यबारं आरब्धवन्तः । तदा कवलेदुर्गः तावत् गिरिप्रदेशे विद्यमानमुख्यस्थाः सहोदराः च तिलेतम्मा तथा मुण्ड्गेतम्मा इत्याख्यानां स्वाधीने आसीत् । एनौ सहोदरौ युद्धे पराजित्य मल्लवाः एनं दुर्गं भुवनगिरिदुर्गः इति नामकरणं कृतवन्तः । मल्लववंशे विद्यमान प्रसिद्धनायकाः तावत् शिवप्पनायकः, राणिचेन्नम्माजि तथा राणिवीरम्माजी। छत्रपतिशिवाजिमहाराज्ञः पुत्रः राजारामाय आश्रयं दत्तवन्तः इति ऐतिह्यम् । अमुम् एव विषयं लक्षीकृत्य मोघल् राजा औरङ्गजेबेन सह युद्धं कृत्वा राणिचेन्नम्मा जयं प्राप्तवती । १८ शताब्दे मैसूर् राजा हैदरालिः तथा टिप्पुसुल्तानयोः प्रहारेण एषः दुर्गः नाशोऽभवत् ।


अयं दुर्गः ९ शताब्द्यां निर्मितः । पश्चात् १४ शतके चेलुवरङ्गप्पेन अस्य नवीनीकरणं कृतम् [१]। विजयनगरराज्ञां हस्ते आसीत्, परन्तु विजयनहरराज्यस्य पतनानन्तरं स्वतन्त्राः केळदि्राज्यस्य नायकानां दुर्गः अभवत् | वेङ्कटप्पनायकः (१५८२-१६२९ ई.) अत्र प्रासादं निर्माय अग्रहारं कृतवान् । तथा च शृङ्गेरी मठस्य उपमठः, धनकोषः, अन्नकोषः, गजेभ्यः गजशाला, अश्वेभ्यः अश्वाशाला, , तडागानां च निर्मीतवान् एषः।

दुर्गस्य लक्षणम्

सम्पादयतु

एषः दुर्गः तावत् ३ प्राकारविशिष्टः अस्ति , तथा पर्वतस्य बाह्यरेखाम् अनुसृत्य बृहत् अयसपाषाणानां सहाय्येन तथा तस्यैव इष्टिकानाम् उपयोगेन निर्माणं कृतवन्तः । प्रत्येकस्मिन् प्राकारे एकः महाद्वारः अस्ति, तथा उभयस्मिन् पार्श्वे अपि रक्षणाप्रकोष्ठः विद्यते । दुर्गस्य मध्ये मन्दिराणि, तथा भग्नभवनम् तथा इतररचनाः सन्ति । दुर्गस्य अग्रे नाम उपरि अरब्बीसमुद्राभिमुखे एव विद्यमान शिखरेश्वरः श्रीकण्ठेश्वरः इति वा एकः देवालयः अस्ति । देवालयस्य गर्भगृहम् अस्ति तस्य पुरतः नन्दीमण्डपः तथा मुखमण्डपः अपि अस्ति । सूर्यास्तसमये पश्चिमसूर्यास्तः तदपि पर्वतशृङ्खलायाम् अस्तस्य सुंदरं दृश्यं दृश्यते । दुर्गस्य अन्ते विद्यमान भवनस्य आधारः दृष्टिगोचरं भवति । उत्खननात् इदं ज्ञातमस्ति यत्, परस्परं सहयोगेन सम्बद्धः विशालप्रकोष्ठाः, स्तम्भवैशल्यभूमिः , पूजागृहम्, महानसः तथा तत्र विद्यमान पाषाणबर्नर्-पञ्चकम्, पाषाणविदिकाविशिष्टस्नानगृहम् , उत्तमजलप्रवाहव्यवस्था, विशालः अन्तः प्रकोष्ठः, तथा सोपानविशिष्टः सरः तथा एतेषां वैशिष्ट्यानां विशिष्टः भवनस्य वास्तुशिल्पस्य अन्तर्दृष्टिः अत्र वयं द्रष्टुं शक्नुमः ।

कवलेदुर्गस्य विशेषः

सम्पादयतु
  • पादस्य उपरि पादं संस्थापयामः चेत् शब्दः श्रूयते तथा तावत् मौनम् तथा शान्तस्थलमिदम् । हरित्वर्णम् तथा इतिहासमपि अवगन्तुं अत्र स्ववकाशः अस्ति । ऐतिह्यं पश्यामः चेत् अस्य दुर्गस्य भुवनगिरिदुर्गः इति कवलेदुर्गः इति नामान्तरमपि अस्ति इति ज्ञायते ।
  • कवलेदुर्गस्य आकर्षकस्थलम् भवति तिम्मप्पनायकस्य सरः । १८ एकर् विस्तृतः अयं सरः, खगानां चिलिपिलि ध्वनिः, मत्स्यानां तरणम्, बकस्य समूहेन च शोभते । सरोवरमाध्यमेन आगमनवायोः शैत्यात् तथा सुन्दरपरिसरात् च मनः आह्लदकरं भवति ।
  • केळदि राजेभ्यः निर्मितः वीरशैवमठः कवलेदुर्गे अस्ति । एतेषां राज्ञां कृते सप्त संख्योपरि विशिष्टममकारः अस्ति इति ज्ञायते किमर्थम् इति जिज्ञासायां सप्तसरांसि अत्र विराजन्ते, नायाकानाम् आराध्यदेवता नागराजस्यापि सप्तफणाः सन्तीति विशेषः ।
  • मठात् १ कि.मि अग्रे चलामः चेत् दुर्गस्य मुख्यद्वारं दृष्टिगोचरं भवति । महाद्वारस्य प्रवेशसमनन्तरमेव प्रायः ५०-६० पादस्य उन्नतकुड्यं दृष्टिगोचरं भवति । तस्मिन् कुड्ये पूर्वकालीनचित्रकलावैशिष्ट्यम् तथा रक्षकभटानां प्रकोष्ठः तथागमनवेलायाम् अन्ते मुखमण्डपस्य द्वितीयप्राकारस्य महाद्वारमपि द्रष्टुं शक्यते ।
  • मण्डपस्य वामभागे नागतीर्थः इति एकं सरः तथा प्रायः ६ पादोन्नतैकशिलासप्तपणविशिष्टनागराजशिल्पः दृष्टिगोचरं भवति । तदनन्तरं तृतीयप्राकारस्य दक्षिणभागे घोषस्थानम् अस्ति । अस्मिन् परिसरे एकः सुरङ्गमार्गः अपि अस्ति । चहुर्थद्वारं अपि गमनवेलायां अवरोहपाषाणम् उल्लङ्घनीयम् । तत्रापि एकं मण्डपं द्रष्टुं शक्यते ।
  • कवलेदुर्गे विश्वनाथेश्वरदेवालयः अस्ति । देवालयस्य परितः अनेककलाकृतयः सन्ति । वारणासीतः अमृतशिलायाः निर्मितं विश्वनाथेश्वरविग्रहस्य प्रतिष्ठापनम् अत्र कृतम् । नायकानां शासनकाले घृतस्य तथा तैलस्य च सञ्चयनार्थं एकः कूपः आसीत् । तदपि अत्र द्रष्टुं शक्यते । अस्य कूपस्य नाम इदानीमपि घृत तथा तैलकूपः इति प्रसिद्धः ।
  • अनुशानबद्धः शिवप्पनायकः काले विद्यमान सिञ्चनजलव्यवस्थायाः पद्धतेः चिह्नानि कवलेदुर्गे इदानीमपि द्रष्टुं शक्यते । घनारण्यमध्ये प्रायः अर्ध एकर् भूमिप्रदेशे भवनस्य इष्टिका तथा पाषाणस्थम्भानां चिह्नानि अत्र वयं द्रष्टुं शक्नुमः । भवनसुअ इदानीम् आकाशमेव छ्त्रम् । पाषाणस्तम्भाः तथा मृद्कुड्यानि इव अवशिष्टानि सन्ति ।

[ कवलेदुर्गा ] शिव

शृङ्खलाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=कवलेदुर्गः&oldid=490818" इत्यस्माद् प्रतिप्राप्तम्