कार्मिकदिनाचरणम्
प्रतिवर्षं मे मासस्य प्रथमदिनं कार्मिकदिनम् इति आचरन्ति । प्राचीनकाले वसन्तोत्सव इति श्रमिकाः पर्वं अचरन्ति स्म । स्वगृहणि सम्यगलङ्कृत्य मेराज्ञीं किरीटेन च अलङ्कुर्वन्ति स्म । रष्यादेशे यदा महाक्रान्तिः अभवत् तदनन्तरं वसन्तोत्सवः एव कार्मिकदिनमिति परिवर्तितम् अभवत् । एवं मेमासस्य प्रथमे दिने विश्वे एव श्रमिकाणां विषये चिन्तनं भवति ।
International Workers' Day | |
---|---|
व्यावहारिकनाम | International Workers' Day |
इतर नामानि | May Day |
दिनाङ्कः | 1 May |
आचरणानि | Organised street demonstrations and street marches |
सम्बद्धम् | May Day, Labor Day, various other Labour Days |
रष्यादेशे समतावादस्य अतीव गौरवम् आसीत् । यन्त्रागाराणां स्थापनया ग्रामीणजनाः उद्योगार्थं नगरम् आगतवन्तः । यन्त्रागारेषु सहस्रशः जनाः कार्यं कुर्वन्ति । तेषाम् अनेकविधसमस्याः आसन् । मुख्यतः अपघातपरिहारः, अपत्यानां शिक्षणं, परिवारजनानाम् आरोग्यम् इत्यादि प्रापत्यर्थं कार्मिक सङ्घनाम् उदयः अभवत् ।
सङ्घद्वाराः कार्मिकाः स्वमूलभूतसौकर्यान् प्राप्तवन्तः । यन्त्रागारस्वामिनः अपि कार्मिकाणाम् अनेकानुकूलताः काल्पितवन्तः । एतदर्थ सर्वकारेण अपि कार्मिकनियमाः कृता अभवन् । एवम् अष्टादशवर्षं पूरितवन्तः श्रमिकाः इति निर्णयः अभवत् । तत्पूर्वं जनाः कार्यं कुर्वन्ति चेत् ते बालकार्मिकाः इति प्रसिध्दाः
रष्यादेशे झरप्रभोः काले पेट्रोग्राड् प्रदेशे लक्षापरिमिताः कार्मिकाः आन्दोलनं कृतवन्तः । कार्मिकाणां विरुध्दं सेनायै गोलिकाप्रहाराय आरप्रभुः आदेशं दत्तवान् । किन्तु सेना गोलिका प्रहारं कर्तुं न इष्टवती आरप्रभुः धूमशकटयानेन आगतवान् आसीत् । तत्रापि मार्गावरोधः कृतः अभवत् । अन्ते आरप्रभुः अधिकारं त्यक्तवान् । क्रान्तेः विजयः अभवत् ।
क्रिस्तशक १९१८ तमे वर्षे गात्यादेशे कम्युनिस्ट(समतापक्ष) पक्षस्य अधिकारः आरब्धः अभवत् । तदा कार्मिकाणां कल्याणाय योजनाः रुपिताः आसन् । यन्त्रागाराः अपि अनेके आरब्धाः अभवन् । पञ्चवार्षिकयोजनाः अपि आरब्धाः । एवं विश्वे एव कार्मिकाणां कल्याणकार्यक्रमाः सर्वदेशेषु व्यवस्थिताः सन्ति । सर्वत्र प्रत्येकतया यन्त्रागारेषु स्थलीय सङ्घाः सन्ति । अथापि श्रमयोग्यं वेतनं न ददति । सर्वकारेणापि उत्तमा व्यवस्था कृतास्ति । सा व्यवस्था सर्वकारीय श्र मिकाणां एव उपयोगिनी अस्ति । स्वायत्तसं स्थासु कार्यकतृणां कृषिकार्येषु स्थितानां किमपि उत्तमं सौलभ्यं न भवति ।
देशे कार्मिकाणां तेषां परिवारजनानां च उत्तमरीत्या सौलभ्यानि दातव्यानि सन्ति । प्रतिदिनम् अष्टघण्टाकार्यकालः भवतु ।क्षेमकार्याणि कर्तव्यानि सन्ति । देशे तत्र तत्र आन्दोलनानि प्रवर्तितानि भवन्ति । अतः कार्मिकदिनाचरणसमये कार्मिकाणां समस्यानां विषये चर्चा करणीया । क्षेमविषये नियोजनाः रुपितव्यानि सन्ति । एवं कार्मिकदिने कार्मिकाणां विरामः भवति । तद्दिनेकार्यक्रमः भवति । कार्मिकाणां सौलभ्यानां विषये च चिन्तनानि भवन्ति ।