कालमानानि

(कालचक्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

कल् संख्याने इत्यस्माद्धातोः कर्त्तरि घञिप्रत्यये निष्पन्नोऽयं कालशब्दः । कलयति गणयति इति कालपरिभाषा । एकस्यैव कालस्य सर्वाधारता नियामकता वा विद्यते । अतः उक्तं पुराणे –“कालः सृजति भूतानि कालः संहरते प्रजाः” इति कारिकावल्यां कालस्य लक्षणं यथा – “जनन्यां जनकः कालः जगत्यामाश्रयो गतः“ इति प्राप्यते । विदुरेण कालविषयकप्रश्ने कृते श्रीमद्भागवते मैत्रेय उवाच –

कालमानानि
कालमान यन्त्र
कालमान यन्त्र
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।
पुरुषस्तदुपादानमात्मानं लीलयासृजत् ॥
विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना ॥ - श्रीमद्भागवतम् – ३/१०/११-१२

काल इत्युक्ते तुटि, लवनिमेषः, काष्ठा, कला, नाडिका, मुहूर्त्तः, दिवसस्य पूर्वापरभागौ, रात्रिः, पक्षो, मासः, ऋतुरयनं, संवत्सरो, युगमिति कलनात्मकत्वेन गृह्यन्ते । तत्र निमेषश्चतुर्भागस्तुटिः । त्रुटिद्वयं लवः । द्वौ लवौ निमेषः । पञ्चनिमेषाः काष्ठाः । त्रिंशत्काष्ठाः कला । चत्वारिंशत्कला एका नाडिका वा नालिका । द्विनाडिको एकः मुहूर्त्तः । पञ्चदशमुहूर्त्ताः एकः दिवसो चैवं रात्रिश्च । चैत्रे मासा श्वयुजे च पूर्णो मासोऽस्यादिति चित्रगतचान्द्रयोगेन चैत्रमासो भवत्येव चैत्रादिफाल्गुनान्तं मासास्तु चान्द्राः भवन्ति । ततः परं त्रिभिः मुहूर्तैरन्यतरः षण्मासं वर्तते ह्रासते च । तत्र मुख्यतया कालः द्विविधः, एकः लोकानामन्तकृत्कालः अन्यः कलनात्मकः । कलानात्मकोऽपि स्थूलसूक्ष्मभेदाभ्यां द्विविधः । यथा सूर्यसिद्धान्ते –

लोकानामन्तकृत्कालः कालोऽन्यः कलानात्मकः ।
स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते ॥

प्राणादिः कालः व्यवहारग्रहणार्हः तथा च स्थूलत्वात् मूर्त इत्युच्यते । अत्र सुखासीनस्वस्थपुरुषस्य एकश्वासोच्छ्वासान्तर्वर्ती कालः प्राण इत्युच्यते । पुनः त्रुट्याद्यः कालः व्यवहारग्रहणानर्हस्तथा च सूक्ष्मत्वात् अमूर्त इत्युच्यते । अत्र नेत्रपक्ष्मद्वयसंयोगकालस्य सहस्रत्रयतमभागतुल्या त्रुटिकालो भवति । तदुक्तं-

प्राणादिः कथितो मूर्त्तस्रुट्याद्योऽमूर्त्तसंज्ञकः ।

सूर्यसिद्धान्तानुसारं स्थूलकालविभागः निम्नप्रकारेण भवितुमर्हति । यथा –

  • १ प्राणः (असुः)- १० दिर्घाक्षरोच्चारणकालः – १० विपलानि
  • १ पलम् (विघटी )- ६ प्राणाः :-६० विपलानि
  • १विपलम् -१- दीर्घाक्षरोच्चारणकालः :- प्राणः /१०
  • १ नाडी (घटि)- ६० पलानि -१ दण्डः
  • १ नाक्षत्राहोरात्रम् – ६० नाड्यः – ६० दण्डाः – ६० घटयः
  • १ मासः – ३० अहोरात्राः
  • १ वर्षम् – १२ मासाः

ज्योतिषशास्त्रे कालगणनामाधारीकृत्य मतद्वयं प्रचलति यथा – ब्राह्मं सौरञ्चेति । ब्राह्मपक्षे विधिदिनादौ सृष्टिः , ततः कालगणना , सौरपक्षे तु विधिदिनाद्यनन्तरं सृष्ट्यादिः , ततः कालगणना । केचनाचार्याः सौरमतानुसारं ग्रहगणितादिकं कुर्वन्ति केचन च ब्राह्ममतानुसारेण । उभयोः गणनात्मककालविषये एकैव परिभाषा । अयं हि सृष्ट्यादितः सृष्टयन्तं यावत् कलनात्मकः कालः महाकालस्य खण्डकालात्मक इत्युच्यते । अस्य गणनात्मककालस्य मानानि नवविधानि सन्ति । यथोक्तं सूर्यसिद्धान्ते –

ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यञ्च गौरवम् ।
सौरञ्च सावनं चान्द्रमार्क्षमानानि वै नव ॥

एषु चतुर्भिः सौरचान्द्रार्क्षसावनैश्च मुख्यत्वेन जगति व्यवहारः प्रचलति । यथोक्तं तत्रैव –

चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः ।
बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः ॥

एवं भास्कराचार्येणापि सिद्धान्तशिरोमणौ-

एवं पृथक् मानव- दैव –जैव –पैत्रार्क्षसौरेन्दवसावनानि ।
ब्राह्मं च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमानात् ॥

एतेषां नवविधकालमानानां परिचयोऽधस्तात् प्रस्तूयते ।

कालचक्रम्

सम्पादयतु

षष्ठिनिमेषाणाम् एका घण्टा । चतुविंशतिघण्टानाम् एकं दिनम् ।एकस्मिन् दिने दिवा रात्रिः इति द्वौ भागौ स्तः । सप्त दिनानां सप्ताहः इत्युच्यते । पञ्चदश दिनानाम् एकः पक्षः । द्वयोः पक्षयोः एकः मासः । द्वादश मासानाम् एकः संवत्सरः । द्वयोः मासयोः एका ऋतुः तस्मात् ऋतवः षट् । ते च क्रमेण -

चैत्रवैशाखमासयोः वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति ।कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते ।

ज्येष्ठाषाढयोः ग्रीष्मर्तुः । सूर्यः तीव्रं तपति । नद्यादिषु जलं शुष्यति । दिवावर्धते । जनाः तापमनुभवन्ति ।

श्रावणभाद्रपदयोः वर्षर्तु: । मेघाः वर्षन्ति । पर्वताः शितलाः भवन्ति । नद्यादयः जलपूरिताः भवन्ति । भूमिः सस्यश्यामला जायते । कर्षकाः नन्दन्ति ।

आश्वयुजकार्तिकयोः शरदृतुः । आकाशः निर्मल: भवति। मेघाः निर्जलाः सञ्चरन्ति । चन्द्रिका विशदा भवति । मार्गाः पङ्करहिताः भवन्ति । मार्गशीर्षपुष्ययोः हेमन्तर्तुः । रात्रिः वर्धते । सूर्यः मन्दं तपति । विस्तारेण हिमं पतति । सलिलं शीतलतरं भवति । वायुः अतिशीत: वाति ।

माघफाल्गुणयोः शिशिरर्तु: । वृक्षेभ्यः पर्णानि पतन्ति । सस्यानि फलन्ति । शीतं अधिकतरं भवति ।

नवविधकालमानानि

सम्पादयतु

ब्राह्ममानम्

सम्पादयतु

सहस्रसंख्यकमहायुगैः सकलचराचरजीवानां प्रलयकारक एकः कल्पः प्रभवति । स एव् कल्पः ब्रह्मसम्बन्धी एकं दिनमित्युच्यते । तथा च तस्य ब्रह्मणः सहस्त्रमहायुगात्मिका रात्रिः भवति । एवमेकं ब्राह्ममानमित्युक्ते सति अहोरात्ररूपं कल्पद्वयं स्वीक्रियते । अत्र दिनकल्पे भूतानामाविर्भावः तथा च रात्रिकल्पारम्भे भूतानां तिरोभावः प्रभवति । उक्तं च –

इत्थं युगसहस्त्रेण भूतसंहारकारकः ।
कल्पब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती ॥

एवमेव ब्राह्मपक्षपोषको भास्करोऽप्याह –
स्याद् युगानां सहस्रं दिनं वेधसः सोऽपि कल्पो द्युरात्रं तु कल्पद्वयम् । भास्कराचार्यस्य मतं यथा –


खखाभ्रदन्तसागरैर्युगाग्नियुग्मभूगुणैः ।
क्रमेण सूर्यवत्सरैः कृतादयो युगाङ्घ्य्रः ॥
स्वसन्ध्यकातदंशकैर्निजार्कभागसंमितैः ।
युताश्च तद्युतो युगं रदाब्धयोऽयुताहताः ॥
मनुः क्षमानगैर्युगेन्दुभिश्च तैर्भवेत् ।
दिनं सरोजजन्मनो निशा च तत्प्रमाणिका ॥

एवं प्रकारेण-

  • १ महायुगः -४ युगाः ।
  • १ कल्पः – १ सहस्रमहायुगम् ।
  • २xकल्पः – १ ब्राह अहोरात्रः ।
  • २x कल्पः x ३० -६० कल्पः वा १ ब्राह्ममासः ।
  • ६० कल्पः x १२-७२० कल्पः वा १ ब्राह्मवर्षम् ।

अनेन ब्रह्मा शतायुः मन्यते । तस्यायुषोऽर्धं गतं शेषस्यायं प्रथमदिवसस्तत्र ६ मनवः व्यतीताः । सप्तमस्य वैवस्वतमनोः २७ महायुगानि गतानि । २८ तमे महायुगे युगत्रयं व्यतितम् । कलियुगस्य शकाब्दौ ३१७९ वर्षाणि गतानि ।

दिव्यमानम्

सम्पादयतु

दिव्यं दिनं मानवैकवर्षमितं भवति । ३६० सौरदिनानि = १ सौरवर्षाणि=१ दिव्यदिनम् । ३६० दिव्यदिनानि = १ दिव्यवर्षम् । एवमेव सर्वं ज्ञेयम् । एतत्तु देवानां कृते भवति । यथोत्कं सूर्यसिद्धान्ते –

सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् ।
तत्षष्ठिषड्गुणादिव्यं वर्षमानुरमेव च ॥

अर्थात् सुराणाम् असुराणां च अहोरात्रः तुल्यं वर्तते । परन्तु देवानां यद्दिनं तदुसुराणां रजनी, या च सुराणां रजनी सा तदसुराणां दिनं भवति । शास्त्रानुसारं देवानां स्थितिः मेरौ वर्तते , दैत्यानां स्थितिश्च मेरोरधः नाडीवृत्ताद्दक्षिणभागे कुमेरौ अस्ति । अनयोः स्थानयोः दूरत्वम् १८०° । अनयोर्मध्ये निरक्षप्रदेशः । उभयोरपि नाडीवृत्तमेव गर्भक्षितिजम् । नाडीवृत्तादुत्तरदिशि मेषादिषण्णामहोरात्रवृत्तानां देवभागे स्थित्या तेषु गच्छन्तं सूर्यं षण्मासपर्यन्तं देवा अवलोकयन्ति गर्भक्षितिजरूपनाडीवृत्तादुपरि रवेः स्थितत्वात् । अतो देवभागे षण्मासपर्यन्तं रवेः दर्शनात् दिनम् । परन्तु तुलादिषड्राशिनां नाडीवृत्ताद्दक्षिणतः अधः स्थित्या ते (असुराः) गच्छन्तं सूर्यं नावलोकयन्ति , रवेः गर्भक्षितिजरूपनाडीवृत्तादधः स्थितत्वात् । अतः देवानां तदा रजनी भवति । एवं दैत्यानामपि स्थितिः । एवं देवासुरयोः अहोरात्रप्रमाणमेव रवेः भगणभोगकालमितः । एतेन दिव्यदिनं जातम् । ३६० दिव्यदिनानि = १ दिव्यवर्षम् । भास्कराचार्यमतानुसारम् – “ स्वेश्चक्रभोगोऽर्कवर्षं प्रदिष्टं द्युरात्रं च देवासुराणां तदेव” । इत्यनेन सायणसौरवर्षप्रमाणेन देवासुराणामहोरात्रं पूर्यते ।

पैत्र्यम्

सम्पादयतु

पितृणामिदं पैत्रं, तत्सम्बन्धिमानं पैत्रमानमुच्यते । विधोः उर्ध्वे पृष्ठे पितरः निवसन्ति । अमान्तद्वययान्तर्वर्ति कालः चान्द्रमास उच्यते । चान्द्रमास एव पितृणामहोरात्र भवति । एवं कृष्ण पक्षसार्धसप्तम्यां तिथौ पितृणां दिनारम्भः, शुल्कपक्षसार्धसप्तम्यां तथौ पितृणाम् निशारम्भश्च यथाक्तं सूर्यसिद्धान्ते -

त्रिंशता तिथिभिर्मासश्छान्द्रः पित्र्यमहः स्मृतम् ।
निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः ॥

भास्कराचार्येणाप्युक्तम् –

विधूर्ध्वभागे पितरो वसन्तः स्वाघः सुघादीधितिमामनन्ति ।
पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोस्माद् द्युदलं तदेषाम् ॥
भार्धान्तरत्वान्न विधोरधस्थं तस्मान्निशीयः खलुपौर्णमास्याम् ।
कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थ एव सिद्धम् ॥ - सिद्धान्तशिरोमणिः – गोलाध्यायः /श्लो.१३-१४

प्रजापत्यम्

सम्पादयतु

प्रजापतिभ्यः समुद्भवाः मनवः सन्ति । तस्मात् यानि मन्वन्तराणि मानानि तान्येव प्राजापत्यमानानीति आचार्यैर्निगदितम् । तद्यथा –

मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् ।
न तत्र द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्त्तितः ॥

तत्र मन्वन्तरविषये सूर्यसिद्धान्ते प्रमाणमस्ति यथा –

युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते ।
कृताब्दसंख्या तस्यान्ते सन्धिः प्रोक्तो जलप्लवः ॥
ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दशः ।
कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः ॥

अर्थात् -७१ महायुगमानानि =मनुः
एकस्मिन् कल्पे =१४ मनवः सन्ति (स्वायम्भुवः स्वारोचिषः, उत्तमजः, तामसः , रैवतः, चाक्षुषः, वैवस्वतः, सावर्णिः , दक्षसावर्णिः, ब्रह्मसावर्णिः,धर्मसावर्णिः रूद्रपुत्रः रौच्यः, मौत्यकश्च ) ७१X१४=९९४ महायुगानि= १४ मनवः ।
मन्वादौ मन्वन्ते च कृतवर्षप्रमाणं मनोः सन्धिकालो भवति । अतएव मनूनां पञ्चदशसन्धयो भवन्ति ।
१ मनुसन्धिः= कृतयुगम् = महा. यु x४ /१० =१ मनुसन्धिः ।
१५ मनुसन्धयः = महा.यु x४x१५/१० =६ महायुगानि ।
९९४ म.य.+६ म.यु =१००० महायगानि= १ ब्राह्मदिनम् म्लल्पः ।

एवं मन्वन्तरव्यवस्था हि सौरमते एव प्राजापत्यमित्युच्यते सप्तमवैवस्वतमनोः कालः प्रचलत्यत्रागम एव प्रमाणम् । वर्तमानमनोः २७ महायुगानि व्यतितानि । अष्टाविंशतितमे कृतत्रेतद्वापरयुगानि गतानि । वर्तमानकाले युगस्य शकारम्भे ३१७९ सौरवर्षाणि गतानि । गतेषु वर्तमानशकाब्दयोजनेन वर्तमानमनोः भुक्तकालस्तथा वर्तमानमहायुगस्य भुक्तकालः ज्ञायते । (ङ) गौरम् (बार्हस्पत्यम् )- गुरुसम्बन्धीकालमानं गौरमित्युच्यते कार्त्तिकादिमासेषु कार्त्तिक – मार्गशीर्ष –पौष- माघ –फाल्गुन- चैत्र वैशाख –ज्येष्ठ – आषाढ् श्रावण – भाद्र – आश्विनेषु कृष्णपक्षे पञ्चदश्यां तिथौ कृत्तिका- रोहिणी –मृगशिर- आर्द्रा पुनर्वसु-पुष्य- आश्लेषा –मघा- पूर्वाफाल्गुनी- उत्तराफाल्गुनी – हस्त चित्रा – स्वाति –विशाखा- अनुराधा –ज्येष्ठा –मूला –पूर्वाषाढ – उत्तराषाढ- श्रवणा-शतभिषा –पूर्वाभाद्रपद उत्तरभाद्रपद – रेवती – अश्विनी- भरणीनां नक्षत्राणां संयोगवशात् कार्त्तिकादयः द्वादशमासाः कथिताः । तथैव कृत्तिकादिनक्षत्रसंयोगात् गुरोः कार्त्तिकादिवर्षाणि भवन्ति । गुरोरुदयदिनेऽस्तदिने वा पञ्चाङ्गे चन्द्राधिष्ठितं यन्नक्षत्रं तद्वशादपि पूर्ववद्वर्षसंज्ञा ज्ञेया । यथा कृत्तिकारोहिण्योः गुरोरुदयोऽस्तो वा भवेत्तदा कार्त्तिकं नाम वर्षम् इत्यादि । तदुक्तं –

कृत्तिकादिषु कृष्णे च योगात् पञ्चदशे तिथौ ।
कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात्तथा ॥

सौरमानम्

सम्पादयतु

सूर्यसम्बन्धिमानं सौरमानमुच्यते । रवेः भगणाभोगकाल एवं सौरवर्षम् । सम्पूर्णभचक्रं ३६० अंशपरिमितमस्ति । तत्र द्वादशराशयः सन्ति । रवेः प्रथमराशिसंक्रमणकालादपरराशिसंक्रमणकालं यावदेकः सौरमासो भवति । एवं मेष –वृष –मिथुन –कर्कट –सिंह –कन्या –तुला –वृश्चिक –धनु –मकर –कुम्भ-मीनादिराशीनां भोगकाल एकं सौरवर्षमित्युच्यते । अत्र ग्रहकेन्द्रविन्दोः राशिप्रवेशकालस्य नाम संक्रान्तिरित्युच्यते । “सक्रान्त्या सौर उच्यत” इति । अनेन सौरमानेन दिवारात्रि, षडशितिमुखानि, याम्यं सौम्यञ्चायनद्वयम् (उत्तरायणं, दक्षिणायनञ्च ), विषुवत् (सायनमेषतुलादिमानं), संक्रान्तेः पुण्यकालतो सर्वमेतत् ज्ञायते । तत्र षडशीतिमुखानि यथा –

तुलादिषडशीत्यह्नां षडशीतिमुखं क्रमात् ।
तच्चतुषडयमेव स्यात् द्विस्वभावेषु राशिषु ॥
षड्विंशे घनुषो मार्गे द्वाविंशेऽनिमिषस्य च ।
मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे ॥

अर्थात् तुलार्कसंक्रमणतः प्रतिषडशीतिदिवसानि क्रमादेकैकं षडशीति मुखं भवति । तच्चतुर्षु द्विस्वभावेषु धनुर्मीनमिथुनकन्याख्येषु राशिषु चतुष्टयं भवति । तुलादितः षडशीत्यंशैः धनुषः षड्विंशो भागः प्रथमं षड शीतिमुखम् । तस्मात् षडशीत्यंशैः मीनस्य द्वाविंशो भागः द्वितीयं षडशीतिमुखम् । ततः षडशीत्यंशैः मिथुनस्याष्टादशो भागः तृतीयं षड शीतिमुखम् । ततः षड शीत्यंशैः कन्याया श्चतुर्दशो भागः चतुर्थः षडशीतिमुखम् । एवं द्वादशराशिमध्ये धनु –मीन –मिथुन –कन्या –राशिचतुष्टके क्रमेण १६°/२२°/१८°/१४° अंशैः षडशीतिमुखचतुष्टयं भवति । अतश्चतुर्षु षडशीतिमुखेषु सौरदिनानि ४x८६=३४४ भवन्ति । तेन एकस्मिन् सौरवर्षे षोडशसौरदिनान्यवशिष्यन्ते ।तेषां माहात्म्यं यथा –

ततः शेषानि कन्यायाः यान्यहानि तु षोडश ।
क्रतुभिस्तानि तुल्यानि पितृणां दत्तमक्षयम् ॥

अर्थात् कन्यायाः एतानि षोडशशौरदिनानि यज्ञैस्तुल्यानि भवन्ति । तेषु षोडशदिनेषु पितृणां कृते श्राद्धतर्पणादिकं क्रियते । तत्र श्राद्धतर्पणादिकृत्यममृततुल्यमक्षयमनन्तफलदं च भवति । अत एव कन्यागते सवितरि आश्विनकृष्णपक्षे पितृणां कृते श्राद्धादिकं क्रियते । एषः पक्षः पितृपक्ष इत्युच्यते । पुनः सौरमानाधारेणा कल्पिता विषुवसं ज्ञकसंक्रान्तिर्यथा –

भचक्रनाभौ विषुवद् द्वितयं समसूत्रगम् ।
अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः ॥
तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः ।
नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम् ॥ - (सू. सि. / मानाध्याय / ७-८)

सूर्यसंक्रान्तिवशतोऽयनज्ञानं ऋतुज्ञानं भवति । तेषां क्रमः प्रदर्श्यते । यथा –

भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम् ।
ककदिस्तु तथैव स्यात् षण्मासा दक्षिणायनम् ।
द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः ।
मेषादयो द्वादशैते मासास्तैरेव वत्सरः ।
अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः ।
तदर्धनाड्यः संक्रान्तेरर्वाक् पुण्यं तथा परे ॥

सूर्यस्य मकरादितो मिथुनं यावत् षड्राशिभोगकाल उत्तरायणं भवति , तथैव कर्कादितः धन्वन्तं यावत् षड्राशिभोगकालः दक्षिणायननम् । ततो मकरसंक्रान्तेरपि द्विराशिनाथाः शिशिरादयश्च ऋतवो भवन्ति । द्वयोर्द्वयोः राश्योरेकैकं ऋतोः प्रमाणं ज्ञेयम् । यथा –मकरकुम्भयोः शिशिरः , मीनमेषयोः वसन्तः ,वृषमिथुनयोः ग्रीष्मर्तुः कर्कसिंहयोः वर्षार्तुः,कन्यातुलयोः शरत्, वृश्चिकधन्वोः हेमन्तश्च ऋतुनाथाः सन्ति । उक्तं च –

मृगादिराशिद्वयभानुभोगात् षडर्तवः स्युः शिशिरो वसन्तः ।
ग्रीष्मश्च वर्षाश्च शरच्च तद्वद्धेमन्त नामा कथितोऽत्र षष्ठः ॥

एवं प्रकारेण संक्रान्तिविशिष्टा मेषादयः द्वादशसौरमासाः कथ्यन्ते । तैरेव द्वादशसौरमासैः वत्सरः सौरवर्षं भवतीति सौरमानम् ।

एकसूर्योदयात् द्वितीयसूर्योदयपर्यन्तमेकं सावनदिनं भवति । तदेव वासरसंज्ञया लोके प्रचलति । एवं कस्यापि ग्रहस्य उदयद्वयान्तरं सावनदिनम् । लोके सूर्यसावनदिनस्यैव व्यवहारो भवति । तत्र सूर्यसिद्धान्तेऽस्य सावनस्य लक्षणमेवमुक्तं यत् –

उदयादुदयं भानोः सावनं तत् प्रकीर्त्तितम् ।
सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः ॥
सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।
मध्यमाग्रहभुक्तिस्तु सावनेनैव गृह्यते ॥

अर्थात् सूर्यस्य एकस्मादुदयाद् द्वितीयमुदयं यावत् यत्कालप्रमाणं तत् सावनदिनमित्युच्यते । अनेन सावनमानेन जननमरणाद्यशौचानि , चिकित्सितचान्द्रायणव्रतादीनि, दिवसपतिर्मासपतिर्वर्षपतिश्चादयः गृह्यन्ते । एकस्मिन् सौराब्दे सूर्यसिद्धान्तोक्तं सावनदिनमानम् = ३६५/१५/३१/३० दिनाद्यमस्ति । सूक्ष्मवेधसिद्धसावनदिनाद्यम् = ३६५/१५/३०/२२/३० अर्थात् सार्धाष्टपलासन्नाधिकं सूर्यसिद्धान्तोक्तं वर्तते मन्दकेन्द्रिकत्वात् ।

(ज चान्द्रमानम् – चन्द्रसम्बन्धिमानं चान्द्रमानम् । चान्द्रमानं तिथिभिः परिचीयते । तिथिर्नाम चान्द्रदिनम् । सम्पूर्णभचक्रं सूर्याच्चन्द्रान्तरेण चक्रप्रमितान्तरेण त्रिंशत् (३०) तिथ्यात्मकं भवति । प्रतिपञ्चदशतिथिभिरेकः पक्षः । एवं चान्द्रमासे पक्षद्वयं भवति ।यथा –कृष्णपक्षः । शुक्लपक्षश्चेति । प्रतिपत्तः अमान्तं यावत् कृष्णपक्षः । पुनः प्रतिपत्तः पूर्णिमान्तं यावत् शुक्लपक्षो भवति । सूर्यचन्द्रान्तरेण एका तिथिः १२ अंशयुक्ता भवति । तत्र प्रतिपदादयः यथा –प्रतिपत्, द्वितीया, तृतीया ,चतुर्थी, पञ्चमी, षष्ठी , सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी.पूर्णमी /अमावास्या । एव तिथिभिः (शुक्लपक्षीयप्रतिपदादिः दर्शान्तावधिः त्रिंशत्तिथ्यात्मक –श्चान्द्रमासो भवति । तत्र भचक्रे प्रतिद्वादशभागप्रमाणेनैका तिथिर्भवति । सा च चान्द्रदिनमित्युच्यते । एवं त्रिंशच्चान्द्रदिनं मिलित्वा एकः चान्द्रमासः कल्पितः । उच्यते तदेव सूर्यसिद्धान्ते – “ऎन्दवस्तिथिभिस्तद्वत्” इति ।सूर्यसिद्धान्तस्य मानाध्यायेऽप्युच्यते

अर्काद् विनिस्सृतः प्राचीं यद्यात्यहरहः शशी ।
तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः ॥
तिथिः करणामुद्वाहः क्षौरं सर्वक्रियास्तथा ।
व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते ॥

अर्थात् – चन्द्रः अमान्ते रविणा सह योगं कृत्वा तस्माद् पृथक् सञ्चरितस्सन् अहरहः यावन्मितं पूर्वदिशं याति तत् चान्द्रमानमित्युच्यते । अतः प्रतितिथौ अर्केन्द्वन्तरांशाः =३६०/३०=१२° भवति । अनेन चान्द्रतिथिमानेन, करणं, विवाहः,क्षौरं, जातकर्म, चौलकर्म, उपनयनकर्म, व्रतोपवासादयः सकलाः क्रियाः सम्पाद्यन्ते ।

नाक्षत्रमानम्

सम्पादयतु

न क्षरति न गच्छतीति नक्षत्रम् । नक्षत्रसम्बन्धी कालमानं नाक्षत्रमित्युच्यते । नाक्षत्रदिनविषये सूर्यसिद्धान्तेऽप्युक्तमस्ति यत् –

भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते ।
नक्षत्रनाम्ना मासस्तु ज्ञेयाः पर्वान्तयोगतः ॥
कार्तिकादिषु संयोगे कृत्तिकादि द्वयं द्वयम् ।
अन्त्योपान्त्यो पञ्चमश्च त्रिघा मासत्रयं स्मृतम् ॥

अर्थात् प्रतिदिनं प्रवहगत्या नक्षत्रमण्डलसैकं परिभ्रमणं यावता कालेन भवति तावत्प्रमाणं नाक्षत्रदिनमित्युच्यते । पर्वान्तयोगतः- नाक्षत्रनाम्ना तु मासाश्चान्द्रमासा ज्ञेयाः । पूर्णिमान्तेषु येन येन नक्षत्रेणा चन्द्रयोगो भवति तस्य मासस्य नाम ततदनुरोधेन भवति । यथा कृत्तिकासम्बन्धात् कार्त्तिकः,मृगशीर्षसम्बन्धात् मार्गशीर्षः ,पुष्यसम्बन्धात् पौषः, विशाखासम्बन्धात् वैशाखः ज्येष्ठासम्बन्धात् ज्येष्ठः, आषाढसम्बन्धात् आषाढः, श्रवणासम्बन्धात् श्रावणः भाद्रपदसम्बन्धात् भाद्रपदः , अश्विनीसम्बन्धात् आश्विनश्च भवति । ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्संज्ञा मासानामुचिता इत्यत आह । कार्तिक्यादिषु कृत्तिकादिद्वयं कथितम् । यथा –कृत्तिकारोहिणीभ्यां कार्त्तिकः । मृगार्द्राभ्यांकार्त्तिकः । मृगार्द्राभ्यां मार्गशीर्षः । पुनर्वसुपौषाभ्यां पुष्यः । अश्लेषामघाभ्यां माघः । चित्रास्वातिभ्यां चैत्रः । विशाखानुराधाभ्यां वैशाखः । ज्येष्ठामूलाभ्यां ज्येष्ठः । पूर्वोत्तराषाढाभ्यामाषाढः । श्रवणाधनिष्ठाभ्यां श्रावणः । तथैवान्येऽपि मासाः भवन्ति । एवमेकनक्षत्रस्योदयात् द्वितीयोदयपर्यन्तं नाक्षत्रदिनमानमार्क्षि षष्टिघटिकामितं भवति ।

एवं ब्राह्मादिनवविधकालमानानां परिचयः सूर्यसिद्धान्तस्य मध्यमाधिकारे कालमानाध्याये , सिद्धान्तशिरोमणौ , प्रभृतौ च प्रस्ताविताः । एतेषु मानेषु मुख्यत्वेन सौर- चान्द्र –सावनार्क्षाणां मानानां लोके व्यवहारः परिलक्ष्यते । कस्य मानस्य कुत्र व्यवहार इत्यस्मिन् विषये भास्कराचार्येणोक्तम् –

वर्षायनर्त्तुयुगपूर्वकमत्र सौरान्
मासास्तथा च तिथयस्तुहिनांशुमानात् ।
यत् कृच्छ्रसूतकचिकित्सितवासराद्यं
तत्सावनाच्च घटिकादिकमार्क्षमानात् ॥

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=कालमानानि&oldid=409144" इत्यस्माद् प्रतिप्राप्तम्