काषायः इत्यस्य पदस्य रूपसिद्धिप्रक्रिया


(1) काषायम् (कषायेन रक्तम् वस्त्रम् काषायम्)

कषाय अर्थवदधातुरप्रत्यः प्रातिपदिकम् । पा. 1.2 इति सूत्रेण रागवाचकस्य कषाय

शब्दस्य प्रातिपदिकसंज्ञा भवति। प्रातिपदिकसंज्ञा भवति। प्रातिपदिकसंज्ञायाः
फलम् – ङ्याप्प्रातिपदिकात् । इत्यधिकारे स्वौजसमौट्...। इति सूत्रेण
विवक्षानुसारम् तृतीया-एकवचनस्य टा प्रत्ययो भवति । तेन

कषाय + टा इति स्थितम् । अत्र विवक्षानुसारम् तेन रक्तम् रागात् । पा. 4.2.1 सूत्रेण

कषाय+टा इति रागवाचकात् तृतीयान्तात्प्रातिपदिकात् अण् प्रत्ययो भवति।

कषाय + टा + अण् हलन्त्यम्। इति ण् वर्णस्य इत्संज्ञा, तस्य लोपः। इति लोपे, अदर्शनम्

लोपः। इत्यदर्शने च कृते

कषाय + टा + अ इति स्थितम् । अत्र अण् प्रत्ययस्य तद्धितसंज्ञा अस्ति। ( तद्धिताः। पा. 4

इत्यस्य अधिकारे अण् प्रत्ययस्य विधायकम् सूत्रमस्ति, अतः) तत्फलम् –
कृत्तद्धितसमासाश्च। पा. 1.2. इति सूत्रेण कषाय + टा + अ इति तद्धित-
प्रत्ययान्तस्य समुदायस्य प्रातिपदिकसंज्ञा। प्रातिपदिकत्वात् – सुपो धातु-
प्रातिपदिकयोः। पा. 2.4. इत्यनेन सुपः अर्थात् टा प्रत्ययस्य लुक् = अदर्शनम्
भवति। ततः -

कषाय + अ इति स्थितम् । तदन्तरम् अत्र यस्मात्प्रत्ययविधिस्तदादि प्रत्यये∫ङ्गम् । इति

सूत्रेण अ प्रत्यये परे कषाय इत्यस्य तदादिभागस्य अङ्गसंज्ञा। तत्फलम् –
अङ्गस्य । पा. 6.4.1 इत्यधिकारे तद्धितेष्वचामादेः। (સૂત્રાર્થ - णित्, ञित्
तद्धित પ્રત્યયોના પરમાં રહેતાં अंग ના આદિ अच् ને વૃદ્ધિ થાય છે.) इत्यनेन
अ इति तद्धिते प्रत्ये परे अचामादेः अचः अर्थात् ककारस्थस्य अकारस्य वृद्धिः
अर्थात् आ भवति ।

काषाय + अ अत्र यचि भम् । पा. 1.4. इति सूत्रेण अप्रत्यये परे काषाय इत्यस्य भसंज्ञा ।

भसंज्ञायाः फलम् यस्येति च। पा. 6.4. इत्यनेन सूत्रेण अकारस्य लोपो भवति।

काषाय् + अ = काषाय तदनन्तरम् प्रातिपदिकसंज्ञायाः द्वितीयमपि फलम् प्राप्यते । तच्च

ङ्याप्प्रातिपदिकात् । इत्यधिकारे स्वौजसमौट... । इत्यनेन सूत्रेण विवक्षानुसारम्
प्रथमैकवचनस्य सु प्रत्ययो भवति।

काषाय + सु अत्र नपुंसकलिङ्गस्य विवक्षा अस्ति, अतः अतो∫म् । पा. 7.1. सूत्रेण

सुप्रत्ययस्य स्थाने अम् आदेशो भवति । ततः अमि पूर्वः। इति सूत्रेण
पूर्वरूपैकादेशे कृते ।

काषायम् इति रूपम् सिद्ध्यति ।।


काषायः इत्यस्य पदस्य रूपसिद्धिप्रक्रिया
काषायः
काषायः

सम्बद्धाः लेखाः सम्पादयतु