कुलशेखरवर्मा केरलानां महाराजो महोदयपुरमधिवसन् नवमशताब्दे विरराज। राजशेखरेण स्तुतास्य गद्यकाव्यकृतिराश्चर्यमञ्जरी नाद्ययावत् प्राप्ता। तपतीसंवरणं सुभद्राधनञ्जयं चेति नाटकद्वयमस्य यशोवितानं बिभ्रदवलोक्यते । नावं सम्प्रेष्य समाहूतः कोऽपि विपश्चित् प्रार्थितः कुलशेखरेण स्वकृतीर्व्याख्यातुं, व्याख्यानात् प्राक् सतर्कं समवेक्षितुं च । सप्रशंसमसौ पण्डितोऽमुं परमभागवतं निर्धारयामास । तपतीसंवरणस्य भरतवाक्यमपि तदेतत् पुष्णाति -

कुलशेखरवर्मा
जननम् मध्यकालः
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः सुभद्राधनञ्जयम्, तपसीसंवरणम्

अन्योन्यं जगतामपाकविरसा मूर्च्छन्तु मैत्रीरसाः

संगृह्णन्तु गुणान् कवेः कृतधियां मात्सर्यवन्ध्या धियः।

विश्लिष्यद् विषयानुषङ्गकलुषोभावा घनश्यामले

भक्तिर्मे परिपच्यतामहरहः श्रेयस्करी श्रीधरे।।

कुलशेखरस्य कृतिस्तं नाट्यशास्त्राचार्यप्रकाण्डं सूचयति । कथानक-बन्धेषु यथा तथैव काव्यार्थनिर्वाहेष्वमुष्य शेमुषी हरति सहृदयानामन्यमनस्कतां निमज्जयन्ती रसस्रोतसि चित्तानि।

कविप्रशंसा सम्पादयतु

श्लिष्टं साङ्गरूपकं निर्वाहयन् योगशास्त्रीयां विच्छित्तिं पुष्णन् सुभद्रापदे वैदग्ध्य-भङ्गीमुद्भावयन् कस्य न सुमनसो मनो हरति कुलशेखरः -

यस्याः कृते यतिधुरामवलम्बमानो

योगं दधासि न चिरादपुनर्निवृत्तिम् ।

क्लेशं जहतु सहभुवं मधुरां मतिर्मे

प्राप्नोषि निर्वृतिमचिन्त्यरसां सुभद्राम्।।[१]

निसर्ग-चित्रेषु चित्र-वर्ण-योजना-कौशलं कविं कुलशेखरं यथार्थनामानं करोति -

विश्लिष्यद्दलमालया प्रविरलैः पृथ्वीरुहामासवै-

रन्तर्बद्धकलङ्कया कलिकया प्रस्तूयते मंजरी।

गायन्तो गलरागमङ्कररसैश्चूतस्य चञ्चुक्षतेः

श्च्योतद्भिः शिशिरोपरोधशिथिलं पुष्णन्ति पुंस्कोकिलाः।।[२]

लघुतरवाक्य-विन्यासे प्रवीणः कुलशेखरः -

अतिलघयसि लज्जां धैर्यबन्ध धुनासि

प्रथयसि परितापं प्रश्रयं प्रक्षिणोषि।।[३]

अपि च,

इमौ कर्णौ कर्णौ श्रुति-सुख-निविष्टेदृशगिरा-

वमू दृष्टी दृष्टी सपदि परिपीताकृतिसुधे।

अमून्यङ्गान्यवशमपतद् येषु गगना-

दिदं चित्तं चित्तं वहति यदि मां वामनयनाम्।।[४]

असतां तावत् कतिपयास्त्रुटयस्त्रुटय इव संवत्सरे कुलशेखर-कृतिसमुच्चये, कवित्वेन महीयसी प्रतिभा जाज्वलीति या नैव विवादमुत्साहयति प्रेक्षावताम्।

तपतीसंवरणम् सम्पादयतु

मुख्यलेखः : तपतीसंवरणम्
तपतीसंवरणं कुलशेखरवर्मणः कृतिः अस्ति। अस्मिन् षट् अङ्काः सन्ति । महाभारतस्य आदिपर्वणः उद्धृतम् अस्ति इतिवृत्तम् । अनपत्यतया दुःखितः संवरणः तपतीं परिणीय पुत्रम् आप्नोति । एषः तस्य कथा सारांशः । श्रृङ्गारः एव अङ्गी रसः । अस्यनाटकस्य सम्पादनं टि. गणपतिशास्त्रि- महोदयेन ट्रिवेण्ड्रं संस्कृत-सीरीस्-तः १९११ तमे संवत्सरे कृतम् ।

सुभद्राधनञ्जयम् सम्पादयतु

मुख्यलेखः : सुभद्राधनञ्जयम्

सुभद्राधनञ्जयं नाम कुलशेखरप्रणीतं पञ्चाङ्कं नाटकं वर्तते। महाभारताद् गृहीतेऽस्य कथानके कुलशेखरः कांश्चिदभिनवरसोल्लासान् प्रस्तौति । अलम्बुषेण रक्षसा द्विः सुभद्राहरणं, गात्रिका-समावेशः, परमहंसवेषं धनञ्जयं सम्भावयितुं रामकृष्णयोर्गमनं, सुभद्रायाः कृते तादृशमुनि-सेवावसरः, सुभद्रायाः प्रेमालम्बनीभावः पुरुषत्रयस्य, पाशयोजना, इत्येवमादिकं तथा नियोजितं यथा सहृदयान् भूयिष्ठमावर्जयेत्।

सम्बद्धाः लेखाः सम्पादयतु

नाट्यशास्त्रम्

महाभारतम्

रामायणम्

संस्कृतम्

उद्धरणम् सम्पादयतु

  1. सुभ० २.७
  2. सुभ० २.६
  3. सुम० २.२
  4. सुभ० २.१२
"https://sa.wikipedia.org/w/index.php?title=कुलशेखरवर्मा&oldid=437030" इत्यस्माद् प्रतिप्राप्तम्