वैदिककालेषू कूषमांडरस्य बहुनाम् रोगेसु: उपचार: प्रयुज्युते । अष्य रस: स्वास्थ्यवर्धक: भवति। सर्वजना: अष्य प्रोयोगं कर्तव्यं‍‌। अहम् अपि: रस्य प्रयोज्योमि ।

कूष्माण्डम्
कूष्माण्डं, चषके तस्य रसः च

कूष्माण्डस्य रसः एव उर्वारुकरसः । एतत् कूष्माण्डम् आङ्ग्लभाषायां Ash gourd इति उच्यते । तस्य रसः Ash gourd Juice इति उच्यते । कूष्माण्डरसः आरोग्यार्थम् अपि बहु उत्तमः । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य कूष्माण्डरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि कूष्माण्डरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं कूष्माण्डरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।

अस्य कूष्माण्डरसस्य निर्माणम् सम्पादयतु

अस्य कूष्माण्डरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् कूष्माण्डं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजानि पृथक् करणीयानि । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=कूष्माण्डरसः&oldid=484250" इत्यस्माद् प्रतिप्राप्तम्