कोळ्ळेगालः दक्षिणभारते, कर्णाटके, चामराजनगरजिल्हायां, एकं प्रमुखं तालूकुकेन्द्रम् । कोळ्ळेगालः कौशेयनिमित्तं प्रसिध्दम् । अत्रत्यः कौशेयोद्यमः समग्रराज्यतः वणिजः आकर्षति ।

कोळ्ळेगालस्य सुन्दरम् एकम् पक्षिवीक्षा मरडिगुड्डप्रदेशतः

इतिहासः सम्पादयतु

स्वातन्त्र्यात् पूर्वं कोळ्ळेगालः मद्रास् प्रेसिडेन्सीमध्ये आसीत् । १९५६ पर्यन्तमपि मद्रास् प्रेसिडेन्सीमध्ये एव आसीत् । एतस्य स्थानस्य भाषायाः आधारेण कर्णाटके कोळ्ळेगालं योजितवन्तः । ’ कोळ्ळेगाल ’ इति नाम कौहळमहर्षितः गाळवमहर्षितः च आगतम् । एतौ महर्षी एतस्य प्रदेशस्य अभिवृध्दिनिमित्तं प्रयत्नं कृतवन्तौ इति श्रूयते । एतत् पट्टणं वेम्नः निर्मितस्य कौशेयवस्त्रनिमित्तं प्रसिध्दम् । एतत् पट्टणं कौशेयनगरी इत्याह्वयन्ति । कर्णाटकस्य वृहत्तालूकेषु अन्यतमम् । चामराजनगरस्य कानिचन स्थानानि कोळ्ळेगालस्य कानिचन स्थानानि च योजयित्वा ’ हनूरू ’ केन्द्रं कृत्वा तालूकुरचनीयमिति योजना बहुवर्षतः प्रचलति । तत् इतोऽपि न सम्पूर्णम् । कोळ्ळेगालपट्टणस्य जनसङख्या २००५ प्रकारेण ५५४३२ । कोळ्ळेगालः एतस्य प्रदेशस्य पि.यु.सि शिक्षणकेन्द्रम् कोळ्ळेगालस्य काश्चन प्रसिध्दाः शालाः एताः - सेवेन्त, लयन्स् हैस्कूल, श्रीवासवि विद्याकेन्द्रम्, सन्त प्रान्सिस्ट अस्सिसि, एम्.जि.एस्.यु जूनियर् कालेज्, निसर्गस्वतन्त्र पदवी पूर्व विद्यालयः इत्यादयः । एताः शालाः उत्तमान् छात्रान् निर्मीय अयच्छन् ।

महदेश्वर महाविद्यालयः शिक्षणक्षेत्रे स्वकीयं विशिष्टं स्थानं भजते । लयन्स् हैस्कूल् अपि स्वकीय पि.यु.सि विभगं १९९० तमे वर्षे प्रारभत । इतः अपि उत्तमाः छात्राः निष्पन्नाः । एतस्मिन् भागे पठितवन्तः छात्राः प्रपञ्चस्य विभिन्नभागेषु विभिन्नक्षेत्रेषु कार्यं कुर्वाणाः समाजोपयोगिनः संवृत्ताः । सन्तक्रान्सिस् अस्सी शालायां आरम्भे केवलं कन्नडविभागः आसीत् । इदानीम् आङ्ग्लमाध्यममपि आरब्धम् । एतस्मिन् प्रदेशे प्राथमिकशालानिमित्तं प्रौढशालानिमित्तं, पि.यु.सि निमित्तं च कोळ्ळेगालस्य योग्यं स्थानम् अस्ति ।

 
मरडिगुड्डगिरिः, कोळ्ळेगालः

महदेश्वरबेट्टसमीपस्थः होगेन्कल्जलपातः, शिवनसमुद्रस्य गगनचुक्कीभरतचुक्कीजलपातौ च, जनप्रियस्थानानि । बिलिगिरिरङ्गनबेट्टः कोळ्ळेगालतः ३० कि.मी दूरे अस्ति । अत्र गमनमार्गः रोमाञ्चकारकम् अनुभवं ददाति । गिरेः उपरिष्टात् यत् दृश्यं वयं पश्यामः तत् आजीवनम् अविस्मरणीयं भवति । सिकतासु स्थिताः तलकाडु देवालयाः अपि प्रसिध्दाः जनप्रियाश्च ।

भूगोले स्थितिः सम्पादयतु

कोळ्ळेगालः १२.१५, ७७.१२ मध्ये स्थितः अस्ति । ५८८ मीटर ( १९२९ फीट् ) उन्नते स्थाने अस्ति । एतत् पश्चिमघट्टस्य अन्तिमभागे अस्तीति कारणतः मिश्रलक्षणानि दृश्यन्ते । विविधजातीयाः पक्षिणः आवर्षं सुन्दरेषु सरोवरेषु विहरन्ति वसन्ति च । तापमानं सुयोग्यम् अस्ति । भूकम्पः प्रवाहादिकं वा अत्र न भवति । अतः कोळ्ळेगालः भौगोलिकरीत्या सुरक्षितप्रदेशः अस्ति ।

 
स्वामी श्री महदेश्वरस्य पदचिह्नम्

जनसान्द्रता सम्पादयतु

भारतस्य जनगणत्यनुगुणं कोळ्ळेगालस्य जनसङ्ख्या ५२४५० ५१% जनाः पुरुषाः, ४९% महिलाः सन्ति । कोळ्ळेगालस्य साक्षरता प्रमाणं ६९% राष्ट्रस्य साक्षरतायाः प्रमाणस्य अपेक्षया अधिकम् अस्ति । पुरुषाणां साक्षरता ७४% । महिलानां साक्षरता ६४% । लघुबालानां सङ्ख्या आहत्यजनसङ्ख्याः १०% अस्ति । कोळ्ळेगालजनानां कन्नडसम्भाषणशैली मैसूरुबेङ्गलूरुकन्नडात् भिद्यते । कन्नडस्य एतस्यां विशिष्टशैल्यां मित्रैः सह सम्भाषणसमये ’ डा ’ इति योज्यते । कोळ्ळेगालप्रदेशस्य कन्नडोच्चारणशैली २००५ विमुक्ते शिवराजकुमारेण अभिनीते ’ जोगी ’ चलनचित्रे उपयुक्ता अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कोळ्ळेगालः&oldid=480198" इत्यस्माद् प्रतिप्राप्तम्