को-तक-इन ( /ˈk təkə ɛnə/) (हिन्दी: को तक इन, जापानी: 高徳院, आङ्ग्ल: Kōtoku-in)इति जपान्-देशस्य कानागावा-राज्यस्य कामाकुरा-नगरे स्थितं जोदो-शु-सम्प्रदायस्य बौद्धमन्दिरम् अस्ति । तस्मिन् मन्दिरे कांस्येन निर्मिता विशालबुद्धप्रतिमा अस्ति । तस्याः प्रतिमायाः नाम "दाईबुत्सु" इति । विशाले परिसरे विद्यमाना सा प्रतिमा जपान्-देशस्य प्रख्यातचिह्नेषु अन्यतमा अस्ति ।

अमिताभबुद्धः, को-तक-इन

अमिताभबुद्धप्रतिमा सम्पादयतु

 
१९३० तमे वर्षे
 
आन्तरिकरचना
 
प्रतिमानिर्माणस्य सूचनाः

कुमाकुरा-नगरे स्थिता सा अमिताभप्रतिमा को-तक-इन्-मन्दिरे विद्यमाना अस्ति । १२५२ तमे वर्षे तस्याः प्रतिमायाः निर्माणम् अभवत् इति मन्दिरप्रशसनस्य याच्ञा अस्ति । तस्याः पूर्वम् अस्मिन् एव स्थाने काष्ठनिर्मिता विशालमूर्तिः आसीत् । तस्याः अभिताभकाष्ठमूर्तेः निर्माणं दश वर्षाणाम् अमितपरिश्रमेण १२४३ तमे वर्षे पूर्णम् अभवत् । तस्याः मूर्तेः निर्माणाय इनाडा-नो-त्सुबा आख्यया महिलया धनराशिः दत्तः आसीत् । तेन धनराशिना जोको आख्यः बौद्धभिक्षुः तस्याः अमिताभप्रतिमायाः निर्माणम् अकारयत् । ततः १२४८ तमे वर्षे चक्रवाताक्रमणे तस्याम् अमिताभमूर्त्यां खण्डितायां सत्यां जोको-भिक्षुः नवीनायाः कांस्यप्रतिमायाः निर्माणाय घोषणां कृत्वा पुनः धनसङ्ग्रहणम् आरभत [१] । नवीना कांस्यप्रतिमा गोरेमोन-नगरे [२] उत तानजी हिसातोमो-नगरे [३] निर्मिता इति इतिहासविदाम् अनुमानम् [४] । तस्यां कांस्यप्रतिमायां सुवर्णावरणम् अपि कृतं स्यात् इत्यपि मन्यते । किञ्च अमिताभबौद्धप्रतिमायाः कर्णयोः समीपे सुवर्णस्य चिह्नानि प्राप्तानि [५] । काष्ठप्रतिमा यस्मिन् खण्डे आसीत्, सः खण्डः १२४३ तमे वर्षे चक्रवातेन नष्टे सति १३३४ तमे वर्षे तस्य पुनर्निर्माणम् अभवत् । परन्तु ततः पुनः १३६९ तमे वर्षे चक्रवातप्रहारेण सः खण्डः विनष्टः । अतः तस्य खण्डस्य पुनर्निर्माणम् अभवत् [१] । सः पुनर्निर्मितः खण्डोऽपि १४९८ तमस्य वर्षस्य सितम्बर-मासस्य विंशे दिनाङ्के जाते पुरे पुनः विनष्टः [६] । तदारभ्य एषा कांस्यप्रतिमा अलिन्दविहिने विशाले परिसरे एव विद्यते [६]

आसनेन सह मूर्तेः आहत्य औन्नत्यं १३.३५ मी-परिमितं (४३.८ फीट्) अस्ति [७] । मूर्तेः अनुमानितभारः ९३ टन अस्ति । मूर्तिः अन्तस्तात् शून्या अस्ति । अतः यात्रिणः अन्तः प्रविष्टुं शक्नुवन्ति [८] । मूर्तेः निर्माणावसरे आसने ३२ कांस्यनिर्मितानि कमलदलानि आसन् । परन्तु तेषु सद्यः चत्वारि कमलदलानि एव अवशिष्टानि सन्ति । तानि कमलदलानि अपि मूर्तेः भिन्ने स्थाने रक्षितानि सन्ति [९] । मन्दिरस्य द्वारे एकं विशिष्टं वाक्यं लिखितम् अस्ति यत् –

हे अपरिचित ! यस्यां कस्याम् अपि कलायां निपूणः स्याः, तव धर्मः कोऽपि स्याश्च, परन्तु एनं परिसरं प्रवेशनात् प्राक् एतत् स्मर यत्, एतत् स्थानं शरदां शतात् पूजया पवित्रीभूतं स्थानम् अस्ति । एतत् बुद्धमन्दिरं, शाश्वतद्वारं चास्ति । अतः आदरपूर्वकम् अन्तः प्रविशतात् [१०] इति ।

१९२३ तमे वर्षे भूकम्पत्वात् एतस्याः प्रतिमायाः आसनं खण्डितम् अभवत् । तस्य पुनर्निर्माणकार्यं १९२५ तमे वर्षे पूर्णम् अभवत् [१] । १९६०-१९६१ मध्ये सम्पूर्णप्रतिमायाः पुनर्निर्माणस्य कार्यम् अभवत् । तस्मिन् पुनर्निर्माणकार्ये भूकम्पात् रक्षितुं विशेषकार्यम् अभवत् । अमिताभमूर्तेः दृढतां वर्धयितुं कण्ठभागे विशेषकांस्यस्य योजने मूर्तिः दृढताङ्गता [१]

मूर्तेः विषये सम्पादयतु

 
प्रतिमायां स्थितं कपोतं दृष्ट्वा प्रतिमायाः अमिताभत्वस्य अनुमानं कर्तुं शक्नुमः
 
प्रतिमायाः पृष्ठे वातायानानि
  • भारः : 121 टन (2,67,000 पाउन्ड)[११]
  • औन्नत्यम् : 13.35 मीटर (43.8 फ़ुट)
  • मुखस्य लम्बता : 2.35 मीटर (7 फ़ुट 9 इंच)
  • अक्षिणः लम्बता : 1.0 मीटर (3 फ़ुट 3 इंच)
  • कर्णस्य लम्बता : 1.90 मीटर (6 फ़ुट 3 इंच)
  • जानोः लम्बता : 9.10 मीटर (29.9 फ़ुट)
  • अङ्गुष्ठस्य व्यासः : 0.85 मीटर (2 फ़ुट 9 इंच)

रूड्यार्ड किपलिङ्ग इत्यस्य कविता सम्पादयतु

रूड्यार्ड किपलिङ्ग इत्यस्य कवेः 'किम' (१९०१) इत्याख्यस्य पुस्तकस्य प्रारम्भिकप्रकरणेषु एतस्याः अमिताभप्रतिमायाः कवितात्वेन वर्णनम् अस्ति । १८९२ तमे वर्षे यदा कविः अमिताभप्रतिमायाः दर्शनाय गतः आसीत्, तदा तेन सा कविता रचिता [१२] । तस्याः कवितायाः सम्पूर्णभागः 'द फाइव नेशन' (१९०३) इत्यस्मिन् पुस्तके मुद्रितः [१२]

उद्धरणम् सम्पादयतु

  1. १.० १.१ १.२ १.३ Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 7. 
  2. Frédéric, Louis.
  3. Kate Tsubata (May 25, 2008). "The Great Buddha at Kamakura". The Washington Times. 
  4. The New Official Guide, Japan[१] Japan Travel Bureau (1975) p.404
  5. "Kotoku-in (The Great Buddha)". Kamakura Today. 2002. Archived from the original on 2012-06-07. आह्रियत 2015-11-27. 
  6. ६.० ६.१ Tsuji, Yoshinobu (1983). "Study on the Earthquake and the Tsunami of September 20, 1498". In Iida, Kumiji; Iwasaki, Toshio. Tsunamis: Their Science and Engineering, Proceedings of the International Tsunami Symposium, 1981. Tokyo: Terra Scientific Publishing (Terrapub). pp. 185–204. ISBN 90-277-1611-0 
  7. "An Overview of the Great Buddha" Kotoku-in Official Website.
  8. Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 14. 
  9. Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 16. 
  10. Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 18. 
  11. "Information about Daibutsu onsite". Archived from the original on 2012-06-30. आह्रियत 2015-11-27. 
  12. १२.० १२.१ Rudyard Kipling, "The Buddha at Kamakura".

बाह्यसम्पर्कतन्तुः सम्पादयतु

निर्देशाङ्कः : ३५°१९′०१″उत्तरदिक् १३९°३२′०९″पूर्वदिक् / 35.31684°उत्तरदिक् 139.53573°पूर्वदिक् / ३५.३१६८४; १३९.५३५७३

"https://sa.wikipedia.org/w/index.php?title=को_तक_इन&oldid=480184" इत्यस्माद् प्रतिप्राप्तम्