गङ्गेशोपाध्यायः
गङ्गेशोपाध्यायः न्यायशास्त्रस्य कश्चन विद्वान् आसीत्।
श्रीगङ्गेशोपाध्यायस्य जीवनवृत्तम्
सम्पादयतुश्रीगङ्गेशोपाध्यायः खलु चास्ति मिथिलाप्रान्तान्तर्गत- मधुवनी'-जिला निकटवत्ति 'मङ्गरोनी'-ग्रामनिवासी-आसीत् । अस्य 'मङ्गरोनी'-ग्रामस्य प्राचीनं नाम 'मङ्गलवनी' आसीत् । परिगणितचतुर्दशविद्याघटकीभूतेन न्याय विस्तरेत्यनेन न्यायशास्त्रम् ( न्यायदर्शनम् ), परिगृहीतमस्ति । तत्क; ( तद् रचयित्रा = तज्जन्मदात्रा) श्रीमहर्षिगोतमेन विरचितस्य प्रमाणप्रमेयेत्यादि षोडश(१६)पदार्थप्रतिपादकस्य पञ्चाध्यायस्वरूपस्यास्य न्यायदर्शनस्य प्रमाण स्वरूपं केवलमेकमेवांशमादाय श्रीगङ्गशोपाध्यायश्चिन्तामणिग्रन्थमहानिबन्धभूतं विरचितवान् । स च चिन्तामणिग्रन्थश्चतुर्षु भागेषु चास्ति विभाजनतां गतः ।
स च महानिबन्धभूतश्चिन्तामणिग्रन्थः कणादतर्कवागीशकृतेन मणि व्याख्यानेन, नैयायिक शिरोमणिकल्पनाधिनाथरघुनाथकृतेन दीधिति-व्याख्या नेन, वर्धमानोपाध्यायविहितेन चिन्तामणिप्रकाशेन, हरिदासन्यायालङ्कार विरचितेन तत्त्वचिन्तामणिप्रकाशेन, श्रीशङ्कर मिश्रकृतेन चिन्तामणिमयूखेन, श्रीपक्षधरमिश्रविहित-तत्त्वचिन्तामण्यालोकेन, श्रीभवानन्दसिद्धान्तवागीश विहितया तत्त्वचिन्तामणिटीकया, श्रीरघुदेवन्यायालङ्कारकृतया तत्त्वचिन्तामणि गूढार्थदीपिकया, महामहोपाध्यायगदाधरभट्टाचार्यकृततत्त्वचिन्तामणिव्याख्या नादिभिर्भूषितोऽयं ग्रन्थो महदेव महत्त्वं प्राप्तवान् ।
स चाऽयं चिन्तामणिग्रन्थः द्वादशशताब्द्या अन्ते ( अन्तिम समये ) विरचितः श्रीगङ्गशोपाध्यायेन, तेनैव च ग्रन्थेन श्रीगङ्गशोपाध्यायस्य जन्मतिथिः -जन्म कालो वा द्वादशशताब्द्या अन्तिमो भागात्मकः समयो निश्चीयते ।
यतत्स्थलेषु समुल्लिखितेन 'एतेन खण्डनकारमतमपास्तम्' इत्यनेन ज्ञायते यत् ‘खण्डनकारः' दशमशतकस्योत्तरभागे स्वास्तित्वसम्पन्न आसीत् ।
प्रत्यक्षाऽनुमानोपमानशब्दानां चतुर्णा प्रमाणानां प्रामाण्यं स्वीकुर्वता स्वीय-'चिन्तामणि'-ग्रन्थस्य महत्त्वञ्च प्रदर्शयता श्रीगञ्जशोपाध्यायेन तेनैव चाऽनुपमेन स्वीयग्रन्थेन सम्पूर्णेऽपि न्यायशास्त्रे स्वीयं न्यायवैदुष्यपूर्ण रूपं प्रादत्यत्र नास्ति लेशतोऽपि कश्चिद् विवादः ।
अयञ्चोदयनाचार्यस्य विदुषोऽनन्तरकालावच्छेदेन जायमानः खल्वेको नैयायिक प्रवररत्नभूतः प्रभूतो विद्वान् एवाऽभूत् मिथिलामण्डलमण्डनरूपो गङ्गेशो मिथिलादेश निवासी, तथाऽलौकिकपाण्डित्यपरिपूर्ण- वर्धमानोपाध्याय' पुत्रकश्चासीदिति ।
अस्य महानुभावस्य विषये चास्त्येका किम्बदन्ती यदयं श्रीगङ्गेशः स्वीय मातुलगृहे निवसन्, गाश्च चारयन् स्वीयं जीवनं यापयन्नासीत् ।।
अस्य मातुलानी सर्वदा चाऽस्मै पर्युसितं भोजनभूतमन्नं कर्पट्टिकाख्यमददत् । एकस्मिन् दिने भक्षित एवाऽयं गाश्चारयितुं गतवान्, अथ च सायं समयेऽप्ययं महानुभावो गृहं नागतवान् ।
अयं वराको गङ्गेशः स्वीयसहाध्यायिषु सर्वाधिको मन्दमतिः प्राक् श्रूयते स्म, किन्तु सहैव सर्वथा पूर्ण निर्भीकोऽप्यासीदित्यपि श्रयते ।
वारमेकमस्य वराकस्य श्रीगङ्गेशस्य सहाध्यायिनो गङ्गेशं सर्वथा निर्भीक मन्यमाना रात्रौ प्रेषितवन्तोऽग्निञ्चेतुं श्मशानघट्टे इति । सर्वमूर्तसंयोगित्वेन सर्वत्र विराजमाना श्रीजगज्जननी जगदम्वापार्वती गङ्गेशस्य निर्भीकतां मतेश्चातिमन्दतां सन्निरीक्ष्य हर्षप्रकर्षवदना सती वरं ब्रूहीति प्रोवाच ।
ततश्चायं श्रीगङ्गेशो न्यायशास्त्रस्य पूर्णवैदुष्यपरिपूर्णां न्यायविद्यां मे देही त्युवाच । 'तथास्त्विति' वरं प्रदाय माता पार्वती तत्रैवान्तर्दधे ।
तादृशजगद्वन्द्यमातृप्रदत्तवरप्रदानरूपकारणवशादेव श्रीगङ्गेशोऽलौकिका ऽद्भुतपाण्डित्यप्राप्तिकरो जातः । तदनन्तरं भगवद्भास्करोदये जायमाने एव यदा गृहमागतवान् श्रीगङ्गेशस्तदाऽस्य मातुलो वदति 'त्वं गौः' इति ।
श्रीगङ्गेशो ब्रूते गोत्वावच्छिन्नो गौर्भवति, अर्थाद गोत्वं यस्मिन्नधिकरणे वर्तते स एव गौः कथ्यते, इति 'गो'-शब्दस्य प्रवृत्ति निमित्तम् = शक्यताव च्छेदकं यद् गोत्वं तदधिकरणं गौरित्यर्थः । तच्च गोपदस्य प्रवृत्तिनिमित्तं गोत्वं नास्ति मयीति नाऽहं गौः ।
किन्तु ब्राह्मणत्वरूपस्य प्रवृत्तिनिमित्तस्य, मनुष्यत्वरूपस्य वा प्रवृत्तिनिमि त्तस्य मयि सत्त्वेनाऽहं ब्राह्मणो वा मनुष्यो वाऽस्मीत्युभयत्वावच्छिन्नो वेति । गौरिति शब्दप्रयोग औपचारिकश्चेत्तदा भवानपि गौः । उक्तञ्च -
किं गवि गोत्वमुतागवि गोत्वञ्चेद् गवि गोत्वमनर्थकमेतत् ।
भवदभिलषितमगोरपि गोत्वम्भवतु भवत्यपि सम्प्रति गोत्वम् ॥
इदञ्च श्लोकात्मकं प्रमाणं श्रीगङ्गेशोपाध्यायस्य जीवनचरित्रे विलोक्य ताम् ।
अस्य गङ्गशोपाध्यायस्य विषये केषाञ्चिद् विदुषामिदमप्यस्ति कथनं यत्-अयं गङ्गेशः कस्मिश्चिद् विद्यालयेऽधीयान आसीत् । तत्र वारमेकं रात्रौ सर्वेषां छात्राणामध्ययनात्मकव्यापारसमाप्त्यनन्तरं उपहासेऽयं परामर्शो जातो यदीदानी रात्री द्वादशवादनानन्तरं कश्चिच्छात्रः श्मशानं व्रजेच्चेत्, ततश्च प्रमाणभूतं तत्रत्यमग्नि तदभावे भस्म वाऽऽनयेत्तदा तं वयं परमधन्यवादपात्रं पुरस्कारार्हच मन्यामहे ।
तदा गङ्गेशः प्रोवाच यदहं गन्तुं शक्नोमि गच्छामि च । गच्छन्तं तमेक श्छात्रो व्याजहार यत् श्मशान इतोऽस्ति दैशिकपरत्वमापन्नो देशोऽतस्त्वं भगवत्याः-'तारा'-देव्या नाम वाचा समुल्लिखन् मनसा संस्मरंश्चेतः प्रयाहि । गगेशोऽपि गच्छन् भगवत्यार तारा'-देव्या नामधेयं सम्यग् रटन् संस्मरंश्च तस्याश्चरणारविन्दयोस्तथा लीनोऽभूद् येन स्वात्मानमपि विस्मृतवान् ।
श्मशानप्रदेशप्राप्त्यनन्तरकालावच्छेदेन किम्पश्यत्ययं गङ्गेशः यत्-साक्षात् पुरोवर्तिप्रदेशावच्छेदेन जगद्वन्द्या भगवती जगदम्बा तारा तत्रैव चास्ति सन्ति ठमाना । जगदम्बायाः श्रीतारादेव्याः साक्षाद् दर्शनं विधाय महान्तं हर्षप्रकर्ष समुपागमत् श्रीगङ्गेशः ।
श्रीतारा-वरं ब्रूहि वत्स !
गङ्गेशः-न्यायशास्त्रे पूर्णवैदुष्यपूर्णां विद्यां केवलं कामये ।
श्रीतारा-'तथास्तु' इत्युक्त्वा सा भगवती तारा तत्रैवान्तर्दधे ।
एतेन वरस्वरूपपरमपवित्राऽऽशीर्वादेनाऽयं श्रीगगेशोपाध्यायोऽनुपमन्याय वैदुष्यसम्पन्नो मतिनिष्ठं मान्द्यञ्च सर्वथा सर्वतोभावेन दूरीकुव' विलक्षणमलौकिकं न्यायशास्त्रीयं पूर्ण पाण्डित्यं समवाप्तवान् ।
तदानीं धरित्रीतलेऽस्मिन् स्वीये समयेऽयमेक एव विद्वानभूदतोऽस्य प्रति पक्षी नासीदन्यः कश्चित् ।।
प्रातःकाले जायमाने एव छात्राः शयानं श्रीगञ्जशोपाध्यायं विलोक्य प्रोचुः-अये गौ ! समुत्तिष्ठ । 'गौः' इत्यस्य 'मूर्ख' इत्यर्थः । यतो 'गौ'रस्ति पशुः, पशुश्च मूर्यो भवत्येव । यथा-'पश्वादिश्चाऽविशेषात्' इत्यादि ।
अस्योत्तरमाह श्रीगङ्गेशः--यद् गोत्वावच्छिन्नत्वेन मां सम्बोधितवन्तो भवन्तः । तत्र मया पृच्छयन्ते सर्वेऽप्यन्तेवसन्तो भवन्तः ।
भवतां सर्वेषामेव 'गौ'रिति कथनं मां प्रति सर्वथा निराधारमेव, यतो नाऽहमस्मि गौरिति । गवि एव गोत्वस्य वर्तमानत्वात् । यदि च गोभिन्ने गोत्वं वर्तते इत्युच्यते, तदा भवानपि गौः, तर्हि मामेव कथं गौरिति वदति भवान् । तथा चेदमेव पूर्वोक्तमनुवदति -
किं गवि गोत्वमुताऽगवि गोत्वं चेद् गवि गोत्वमनर्थकमेतत् ।
भवदभिलषितमगोरपि गोत्वं भवतु भवत्यपि सम्प्रति गोत्वम् ॥ [१]
सम्बद्धाः लेखाः
सम्पादयतु- ↑ न्या० सि० मु० न्यायेतिहासः ।